चतुर्थं मण्डलम् - सूक्तम् 29

5 ऋचः

ऋषिः: वामदेवो गौतमः देवता: इंद्रः छन्दः: त्रिष्टुप्

सूक्तम् 4.29 - सम्पूर्णम्

1 / 5
ऋक्: 4.29.1
0:00 0:00
▶ सर्वाणि ऋक्कानि (5)
4.29.1
आ नः᳚ स्तु॒त उप॒ वाजे᳚भिरू॒ती इन्द्र᳚ या॒हि हरि᳚भिर्मन्दसा॒नः ।
ति॒रश्चि᳚द॒र्यः सव᳚ना पु॒रूण्या᳚ङ्गू॒षेभि᳚र्गृणा॒नः स॒त्यरा᳚धाः ॥
▶ पदपाठः (Word-by-word)
आ । नः॒ । स्तु॒तः । उप᳚ । वाजे᳚भिः । ऊ॒ती । इन्द्र᳚ । या॒हि । हरि᳚॑भिः । म॒न्द॒सा॒नः ।
ति॒रः । चि॒त् । अ॒र्यः । सव᳚ना । पु॒रूणि᳚ । आ॒ङ्गू॒षेभिः᳚ । गृ॒णा॒नः । स॒त्य॑रा᳚धाः ॥
▶ सायणभाष्यम् (Sayana Commentary)

आ नः स्तुत इति पञ्चर्चमष्टमं सूक्तं वामदेवस्यार्षम् त्रैष्टुभमैन्द्रम् । आ नः स्तुत इत्यनुक्रमणिका । विनियोगो लैङ्गिकः ॥

हे इन्द्र स्तुतस्त्वं वाजेभिर्वाजैरन्नैः सह तिरश्चित् प्राप्तानि । तरः सत इति प्राप्तस्य । नि. ३-२० । इति यास्कः । पुरूणि पूर्णानि सवना सवनानि नोऽस्मदीयान्यज्ञानुप प्रत्यूती ऊत्यै नोऽस्माकं रक्षणार्थं हरिभिरश्वैरा याहि । आगच्छ । कीदृशः । मन्दसानो मोदमानोऽर्यः स्वाम्याङ्गूषेभिः स्तोत्रैर्गृणानः स्तूयमानः सथराधाः सत्यधनः ॥ १ ॥

4.29.2
आ हि ष्मा॒ याति॒ नर्य᳚श्चिकि॒त्वान्हू॒यमा᳚नः सो॒तृभि॒रुप᳚ य॒ज्ञम् ।
स्वश्वो॒ यो अभी᳚रु॒र्मन्य᳚मानः सुष्वा॒णेभि॒र्मद᳚ति॒ सं ह᳚ वी॒रैः ॥
▶ पदपाठः (Word-by-word)
आ । हि । स्म॒ । याति᳚ । नर्यः᳚ । चि॒कि॒त्वान् । हू॒यमा᳚नः । सो॒तृ॑भिः᳚ । उप᳚ । य॒ज्ञम् ।
सु॒॑अश्वः᳚ । यः । अभी᳚रुः । मन्य᳚मानः । सु॒॑स्वा॒णेभिः᳚ । मद᳚ति । सम् । ह॒ । वी॒रैः ॥
▶ सायणभाष्यम् (Sayana Commentary)

नर्यो नृभ्यो हितश्चिकित्वान् सर्वं जानन् सोतृभिः सोममभिषुण्वद्भिरृत्विग्भिर्हूयमान आहूयमान इन्द्रोऽस्मदीयं यज्ञमुप प्रति आ याति । आगच्छतु । हिस्मेति पूरणौ । स्वश्वः शोभनाश्वोपेतोऽभीरुर्निर्भयशीलः सुस्वानेभिः सुन्वद्भिर्यजमानैर्मन्यमानः स्तूयमानो य इन्द्रो वीरैः शूरैर्मरुद्भिः सह सं मदति ह सह माद्यत्येव । स इन्द्र आगच्छत्विति पूर्वेण सम्बन्धः ॥ २ ॥

4.29.3
श्रा॒वयेद᳚स्य॒ कर्णा᳚ वाज॒यध्यै॒ जुष्टा॒मनु॒ प्र दिशं᳚ मन्द॒यध्यै᳚ ।
उ॒द्वा॒वृ॒षा॒णो राध᳚से॒ तुवि᳚ष्मा॒न्कर᳚न्न॒ इन्द्र᳚ः सुती॒र्थाभ᳚यं च ॥
▶ पदपाठः (Word-by-word)
श्र॒वय᳚ । इत् । अ॒स्य॒ । कर्णा᳚ । वा॒ज॒यध्यै᳚ । जुष्टा᳚म् । अनु᳚ । प्र । दिश᳚म् । म॒न्द॒यध्यै᳚ ।
उ॒त्॑व॒वृ॒षा॒णः । राध᳚से । तुवि᳚ष्मान् । कर᳚त् । नः॒ । इन्द्रः᳚ । सु॒॑ती॒र्था । अभ᳚यम् । च॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे स्तोतस्त्वमस्येन्द्रस्य सम्बन्धिनौ कर्णा कर्णौ वाजयध्या इन्द्रं बलिनं कर्तुं जुष्टामनु दिशं सेवितासु सर्वासु दिक्शु प्र मन्दयध्यै प्रकर्षेणेन्द्रं मादयितुं च श्रवय । स्तोत्राणि श्रावय । इदिति पूरणः । उद्ववृषाणः सोमेनोत्सिच्यमानस्तुविष्मान्बलवानिन्द्रो नोऽस्माकं राधसे धनार्थं सुतीर्था शोभनानि तीर्थान्यभयं च भयराहित्यं च करत् । करोतु ॥ ३ ॥

4.29.4
अच्छा॒ यो गन्ता॒ नाध᳚मानमू॒ती इ॒त्था विप्रं॒ हव᳚मानं गृ॒णन्त᳚म् ।
उप॒ त्मनि॒ दधा᳚नो धु॒र्या॒३॒᳚शून्त्स॒हस्रा᳚णि श॒तानि॒ वज्र᳚बाहुः ॥
▶ पदपाठः (Word-by-word)
अच्छ᳚ । यः । गन्ता᳚ । नाध᳚मानम् । ऊ॒ती । इ॒त्था । विप्र᳚म् । हव᳚मानम् । गृ॒णन्त᳚म् ।
उप᳚ । त्मनि᳚ । दधा᳚नः । धु॒रि । आ॒शून् । स॒हस्रा᳚णि । श॒तानि᳚ । वज्र᳚॑बाहुः ॥
▶ सायणभाष्यम् (Sayana Commentary)

वज्रबाहुर्वज्रहस्तो य इन्द्रस्त्मन्यात्मनि स्थितानात्मवश्यान् सहस्राणि सहस्रसंख्याकान् शतानि शतसंख्याकानाशून् शीघ्रगामिनोऽश्वान्धुरि रथवहनप्रदेश उप दधानः संस्थापयन्नूती रक्षनार्थं नाधमानं याचमानं विप्रं मेधाविनं हवमानमाह्वयन्तमित्थेत्थमनेन प्रकारेण गृणन्तं स्तुवन्तं यजमानमच्छाभि मुख्येन तन्ता गमनशीलः । भवतीति शेषः । स इन्द्रः सुतीर्थान्यभयं च करोत्विति पूर्वेण स्मबन्धः ॥ ४ ॥

4.29.5
त्वोता᳚सो मघवन्निन्द्र॒ विप्रा᳚ व॒यं ते᳚ स्याम सू॒रयो᳚ गृ॒णन्त᳚ः ।
भे॒जा॒नासो᳚ बृ॒हद्दि᳚वस्य रा॒य आ᳚का॒य्य᳚स्य दा॒वने᳚ पुरु॒क्षोः ॥
▶ पदपाठः (Word-by-word)
त्वा॑ऊ᳚तासः । म॒घ॒॑व॒न् । इ॒न्द्र॒ । विप्राः᳚ । व॒यम् । ते॒ । स्या॒म॒ । सू॒रयः᳚ । गृ॒णन्तः᳚ ।
भे॒जा॒नासः᳚ । बृ॒हत्॑दि᳚वस्य । रा॒यः । आ॒॑का॒य्य᳚स्य । दा॒वने᳚ । पु॒रु॒॑क्षोः ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे मघवन्धनवन्निन्द्र त्वोतासस्त्वया रक्षिता विप्रा मेधाविनो गृनन्तस्त्वां स्तुवन्तः सूरयः स्तोतारो वयं बृहद्दिवस्य महद्दीप्तेराकाय्यस्य आ समन्तात्त्सुत्यस्य पुरुक्षोर्बह्वन्नस्य बहुकीर्तेर्वा ते त्वदीयस्य रायो धनस्य दावने दाने निमित्ते सति भेजानासस्त्वां भजमानाः स्याम । भवेम ॥ ५ ॥