चतुर्थं मण्डलम् - सूक्तम् 17

21 ऋचः

ऋषिः: वामदेवो गौतमः देवता: इंद्रः छन्दः: त्रिष्टुप्

सूक्तम् 4.17 - सम्पूर्णम्

1 / 21
ऋक्: 4.17.1
0:00 0:00
▶ सर्वाणि ऋक्कानि (21)
4.17.1
त्वं म॒हा{4} इ᳚न्द्र॒ तुभ्यं᳚ ह॒ क्षा अनु᳚ क्ष॒त्रं मं॒हना᳚ मन्यत॒ द्यौः ।
त्वं वृ॒त्रं शव᳚सा जघ॒न्वान्त्सृ॒जः सिन्धू{4}॒रहि᳚ना जग्रसा॒नान् ॥
▶ पदपाठः (Word-by-word)
त्वम् । म॒हान् । इ॒न्द्र॒ । तुभ्य᳚म् । ह॒ । क्षाः । अनु᳚ । क्ष॒त्रम् । मं॒हना᳚ । म॒न्य॒त॒ । द्यौः ।
त्वम् । वृ॒त्रम् । शव᳚सा । ज॒घ॒न्वान् । सृ॒जः । सिन्धू᳚न् । अहि᳚ना । ज॒ग्र॒सा॒नान् ॥
▶ सायणभाष्यम् (Sayana Commentary)

त्वं महाङ् इन्द्र तुभ्यमित्येकविंशत्यृचं सप्तमं सूक्तम् । आत्रेयमनुक्रमणिका । त्वं महाङ् असि क्न्योमेकपदेति । असिक्न्यां यजमानो न होतेत्येकपदा विराट् शिष्टा विंशतिस्त्रिष्टुभः । इन्द्रो देवता । समूळ्हे दशरात्रेऽश्टमेऽहनि निष्केवल्य इदं सूक्तं विनियुक्तम् । तथा च सूत्रितम् । त्वं महाङ् इन्द्र तुभ्यमिति निश्केवल्यम् । आ. ८-७ । इति । इन्द्रस्य वृत्रघ्नस्त्वं महाङ् इति पशुपुरोडाशस्यानुवाक्या । सूत्रितं च । त्वं महाङ् इन्द्र तुभ्यं ह क्षाः सत्राहणम् । आ. ३-८ । इति ॥

हे इन्द्र त्वं महान्प्रभूतो भवसि । क्षाः पृघिवी क्षा इति पृथिवीनामैतत् । मंहना महत्त्वेन युक्ता सती तुभ्यं ह त्वदर्थमेव क्षत्रं त्वदीयं बलमनु मन्यत । अन्वमन्यत । अनुमतीचकार । द्यौश्च त्वदर्थं बलमन्वमन्यत । हे इन्द्र त्वं शवसा त्वदीयेन बलेन वृत्रं लोकानामावरकं व्रुत्रनामकमसुरं जघन्वान् । हतवान् । किञ्च अहिना वृत्रेण जग्रसानान् जग्रहाणान् ग्रस्तान् । ग्रसतेर्लिटः कानजादेशः । सिन्धून् अपः सृजः । असृजः । सृष्टवानसि ॥ १ ॥

4.17.2
तव᳚ त्वि॒षो जनि᳚मन्रेजत॒ द्यौ रेज॒द्भूमि᳚र्भि॒यसा॒ स्वस्य᳚ म॒न्योः ।
ऋ॒घा॒यन्त᳚ सु॒भ्व१॒᳚ः पर्व᳚तास॒ आर्द॒न्धन्वा᳚नि स॒रय᳚न्त॒ आपः᳚ ॥
▶ पदपाठः (Word-by-word)
तव᳚ । त्वि॒षः । जनि᳚मन् । रे॒ज॒त॒ । द्यौः । रेज᳚त् । भूमिः᳚ । भि॒यसा᳚ । स्वस्य᳚ । म॒न्योः ।
ऋ॒घा॒यन्त᳚ । सु॒॑भ्वः᳚ । पर्व᳚तासः । आर्द᳚न् । धन्वा᳚नि । स॒रय᳚न्ते । आपः᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे इन्द्र त्विषो दीप्यमानस्य तव त्वदीये जनिमन् जन्मनि सति द्यौरन्तरिक्षं स्वस्य त्वदीयान्मन्योः कोपात् । पञ्चम्यर्थे षष्ठी । भियसा जातभयेन रेजत । अरेजत् । अकम्पत । भूमिश्च रेजत् । कम्पमाना बभूव । स्वभ्वो महान्तः पर्वतासः । पर्वता मेघाः । ऋघायन्त । सस्यादीनां वृष्टि प्रदानार्थं नियामकेन त्वयाबाध्यन्त । तथा मेघा आर्दन् । प्राणिनां पिपासारूपां पीडामहिम्सन् । तथा मेघा धन्वान्युदकरहितान्देशानापोऽपः सरयन्ते । गमयन्ति ॥ २ ॥

4.17.3 समानपद
भि॒नद्गि॒रिं शव᳚सा॒ वज्र᳚मि॒ष्णन्ना᳚विष्कृण्वा॒नः स᳚हसा॒न ओजः᳚ ।
वधी᳚द्वृ॒त्रं वज्रे᳚ण मन्दसा॒नः सर॒न्नापो॒ जव᳚सा ह॒तवृ᳚ष्णीः ॥
▶ पदपाठः (Word-by-word)
भि॒नत् । गि॒रिम् । शव᳚सा । वज्र᳚म् । इ॒ष्णन् । आ॒विः॒॑कृ॒ण्वा॒नः । स॒ह॒सा॒नः । ओजः᳚ ।
वधी᳚त् । वृ॒त्रम् । वज्रे᳚ण । म॒न्द॒सा॒नः । सर᳚न् । आपः᳚ । जव᳚सा । ह॒त॑वृ᳚ष्णीः ॥
▶ सायणभाष्यम् (Sayana Commentary)

सहसानः शत्रूणामभिभवन्नोजस्तेज आविष्कृण्वान आविष्कुर्वन्निन्द्रो वज्रमिष्णिन् वज्रं प्रेरयन् शवसा बलेन गिरिं पर्वतजातं भिनत् । अभिनत् । बिभेद । किञ्च मन्दसानः सोमेन मोदमान इन्द्रो वज्रेण वृत्रं वृत्रनामानमसुरं वधीत् । अवधीत् । जघान । तत आपो वृत्रेणावृतान्युदकानि हतवृष्णीः । हतो वृषा वृत्रो यासां ता हववृष्ण्यः । ता वृत्रवधानन्तरं निवारणरहिताः सत्यो जवसा वेगेन सरन् । असरन् । अगच्छन् ॥ ३ ॥

4.17.4 समानपद
सु॒वीर᳚स्ते जनि॒ता म᳚न्यत॒ द्यौरिन्द्र᳚स्य क॒र्ता स्वप᳚स्तमो भूत् ।
य ईं᳚ ज॒जान᳚ स्व॒र्यं᳚ सु॒वज्र॒मन᳚पच्युतं॒ सद᳚सो॒ न भूम᳚ ॥
▶ पदपाठः (Word-by-word)
सु॒॑वीरः᳚ । ते॒ । ज॒नि॒ता । म॒न्य॒त॒ । द्यौः । इन्द्र᳚स्य । क॒र्ता । स्वपः᳚॑तमः । भू॒त् ।
यः । ई॒म् । ज॒जान᳚ । स्व॒र्य᳚म् । सु॒॑वज्र᳚म् । अन᳚प॑च्युतम् । सद᳚सः । न । भूम᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे इन्द्र यः प्रजापतिः स्वर्यमृत्विगादिभिः स्तुत्यं सुवज्रं शोभनवज्रोपेतं सदसः स्वकीयात्स्वर्गाख्यात्स्थानादनपच्युतं विनाशरहितं च । नेति समुच्चयार्थे । भूम भूम्ना महत्त्वेन युक्तमीमेनं त्वां जजान । अजीजनत् । जन जनन इति धातुः । र्द्यौद्योतमानस्ते तव जनिता जनयिता स प्रजापतिः सुवीरः शोभनपुत्रवानहमस्मीति मन्यत । अमन्यत । किञ्च इन्द्रस्य कर्तेन्द्रस्य जनयिता प्रजापतिः स्वपस्तमोऽत्यन्तं शोभनकर्माभूत् ॥ ४ ॥

4.17.5
य एक᳚ इच्च्या॒वय᳚ति॒ प्र भूमा॒ राजा᳚ कृष्टी॒नां पु᳚रुहू॒त इन्द्र᳚ः ।
स॒त्यमे᳚न॒मनु॒ विश्वे᳚ मदन्ति रा॒तिं दे॒वस्य᳚ गृण॒तो म॒घोनः᳚ ॥
▶ पदपाठः (Word-by-word)
यः । एकः᳚ । इत् । च्य॒वय᳚ति । प्र । भूम᳚ । राजा᳚ । कृ॒ष्टी॒नाम् । पु॒रु॒॑हू॒तः । इन्द्रः᳚ ।
स॒त्यम् । ए॒न॒म् । अनु᳚ । विश्वे᳚ । म॒द॒न्ति॒ । रा॒तिम् । दे॒वस्य᳚ । गृ॒ण॒तः । म॒घोनः᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

कृष्टीनां सर्वासां प्रजानां राजा प्रभुः पुरुहूतो बहुभिराहूत एक इद्देवानां मध्ये मुख्य एव य इन्द्रो भूम भूतं निष्पन्नं शत्रुभ्यो भयं प्रच्यावयति । प्रकर्षेण नाशयति । विश्वे सर्वे यजमाना मघोनो मघवतः । हविर्लक्शनधनवत इत्यर्थः । देवस्येन्द्रसमाश्रयात् द्योतमानस्य गृणतः स्तुवतो रातिं बन्धुमेनमिन्द्रमनु लक्षीकृत्य सत्यमेव मदन्ति । स्तुवन्ति ॥ ५ ॥

4.17.6 समानपद
स॒त्रा सोमा᳚ अभवन्नस्य॒ विश्वे᳚ स॒त्रा मदा᳚सो बृह॒तो मदि᳚ष्ठाः ।
स॒त्राभ᳚वो॒ वसु᳚पति॒र्वसू᳚नां॒ दत्रे॒ विश्वा᳚ अधिथा इन्द्र कृ॒ष्टीः ॥
▶ पदपाठः (Word-by-word)
स॒त्रा । सोमाः᳚ । अ॒भ॒व॒न् । अ॒स्य॒ । विश्वे᳚ । स॒त्रा । मदा᳚सः । बृ॒ह॒तः । मदि᳚ष्ठाः ।
स॒त्रा । अ॒भ॒वः॒ । वसु᳚॑पतिः । वसू᳚नाम् । दत्रे᳚ । विश्वाः᳚ । अ॒धि॒थाः॒ । इ॒न्द्र॒ । कृ॒ष्टीः ॥
▶ सायणभाष्यम् (Sayana Commentary)

विश्वे सर्वे सोमा अस्येन्द्रस्य सत्रा । सत्रेति सत्यनामैतत् । सत्यमेव प्रभूता अभवन् । किञ्च मदासो मदा मदकराः सोमा बृहतो महतोऽस्येन्द्रस्य मदिष्ठा मादयितृतमाः सत्रा सत्यमेवाभवन् । हे इन्द्र त्वं वसुपतिर्धनपतिः । न केवलं धनपतिः किन्तु वसूनां सर्वेषां पश्वादीनां धनानां पतिः सत्रा सत्यमेवाभवः । भवसि । हे इन्द्र त्वं दत्रे धने निमित्तभूते सति विश्वाः सर्दाः कृष्टीः स्तोत्रीः प्रजा अधिथाः । धारयसि ॥ ६ ॥

4.17.7 समानपद
त्वमध᳚ प्रथ॒मं जाय᳚मा॒नो॑मे॒ विश्वा᳚ अधिथा इन्द्र कृ॒ष्टीः ।
त्वं प्रति᳚ प्र॒वत᳚ आ॒शया᳚न॒महिं॒ वज्रे᳚ण मघव॒न्वि वृ᳚श्चः ॥
▶ पदपाठः (Word-by-word)
त्वम् । अध᳚ । प्र॒थ॒मम् । जाय᳚मानः । अमे᳚ । विश्वाः᳚ । अ॒धि॒थाः॒ । इ॒न्द्र॒ । कृ॒ष्टीः ।
त्वम् । प्रति᳚ । प्र॒॑वतः᳚ । आ॒॑शया᳚नम् । अहि᳚म् । वज्रे᳚ण । म॒घ॒॑व॒न् । वि । वृ॒श्चः॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

अध अपि च प्रथममेव जायमानस्त्वममे वृत्रनिमित्ते भये सति विश्वाः सर्वाः कृष्टीः प्रजा अधिथाः । रक्षकत्वेन धारयसि । हे मघवन्धनवन्निन्द्र त्वं प्रति प्रवतः प्रति प्रवणानुदकवतो देशान् लक्षीकृत्याशयानमपां निरोधकमहिं वृत्रनामानमसुरं वज्रेण वि वृश्चः । व्यवृष्च । छिन्नवानसि ॥ ७ ॥

4.17.8
स॒त्रा॒हणं॒ दाधृ᳚षिं॒ तुम्र॒मिन्द्रं᳚ म॒हाम᳚पा॒रं वृ᳚ष॒भं सु॒वज्र᳚म् ।
हन्ता॒ यो वृ॒त्रं सनि᳚तो॒त वाजं॒ दाता᳚ म॒घानि᳚ म॒घवा᳚ सु॒राधा᳚ः ॥
▶ पदपाठः (Word-by-word)
स॒त्रा॒॑हन᳚न् । दधृ᳚षिम् । तुम्र᳚म् । इन्द्र᳚म् । म॒हाम् । अ॒पा॒रम् । वृ॒ष॒भम् । सु॒॑वज्र᳚म् ।
हन्ता᳚ । यः । वृ॒त्रम् । सनि᳚ता । उ॒त । वाज᳚म् । दाता᳚ । म॒घानि᳚ । म॒घ॑वा᳚ । सु॒॑राधाः᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

इन्द्रस्य वृत्रघ्नः पशौ सत्राहणमिति हविषोऽनुवाक्या । सूत्रितं च । सत्राहणं दाधृषिं तुम्रमिन्द्रं सहदानुं पुरुहूत क्शियन्तं ॥ आ. ३-८ । इति ॥

सत्राहणं बहूनां शत्रूणां हन्तारं दाधृषिमत्यन्तं धर्षकं तुम्रम् । तुमिः प्रेरणकर्मा । शत्रूणां प्रेरकं महां महान्तमपारमपरिमाणम् । विनाशरहितमित्यर्थः । वृषभं कामानां वर्षितारं सुवज्रं शोभनेन वज्रेणोपेतमिन्द्रम् । वयं स्तोतारः स्तुमेति शेषः । य इन्द्रो व्रुत्रं वृत्रनामानमसुरं हन्ता हिंसिता भवति । उतापि च य इन्द्रो वाजमन्नं सनिता दाता भवति । सुराधाः शोभनधनयुक्तो यो मघवेन्द्रो मघानि धनानि दाता भवति । तमिन्द्रं स्तुमिति पुर्वेणान्वयः । अत्र सर्वत्र तृनन्तत्वान्न लोकाव्ययेति षष्ठी प्रतिषेधे सति द्वितीयैव भवति ॥ ८ ॥

4.17.9 समानपद
अ॒यं वृत᳚श्चातयते समी॒चीर्य आ॒जिषु᳚ म॒घवा᳚ शृ॒ण्व एकः᳚ ।
अ॒यं वाजं᳚ भरति॒ यं स॒नोत्य॒स्य प्रि॒यासः᳚ स॒ख्ये स्या᳚म ॥
▶ पदपाठः (Word-by-word)
अ॒यम् । वृतः᳚ । चा॒त॒य॒ते॒ । स॒म्॑ई॒चीः । यः । आ॒जिषु᳚ । म॒घ॑वा᳚ । शृ॒ण्वे । एकः᳚ ।
अ॒यम् । वाज᳚म् । भ॒र॒ति॒ । यम् । स॒नोति᳚ । अ॒स्य । प्रि॒यासः᳚ । स॒ख्ये । स्या॒म॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

मघवा धनवान्य इन्द्र आजिषु सङ्ग्रामेष्वेको मुख्य एव शृण्वे । श्रूयते । अयमिन्द्रः समीचीः सङ्गता वृतः । वृण्वन्त्याच्छादयन्ति लोकानिति व्रुतः शत्रुसेनाः । ताश्चातयते । नाशयति । अयमिन्द्रो यं वाजं यदन्नं सनोति । यजमानाय ददाति । तं वाजं भरति । यजमानस्य तदन्नं दातुं बिभर्ति । स्तोतारो वयमस्यैवंभूतस्येन्द्रस्य सख्ये सखत्वे प्रियासः प्रियाः स्याम । भवेम ॥ ९ ॥

4.17.10
अ॒यं शृ᳚ण्वे॒ अध॒ जय᳚न्नु॒त घ्नन्न॒यमु॒त प्र कृ᳚णुते यु॒धा गाः ।
य॒दा स॒त्यं कृ᳚णु॒ते म॒न्युमिन्द्रो॒ विश्वं᳚ दृ॒ळ्हं भ᳚यत॒ एज᳚दस्मात् ॥
▶ पदपाठः (Word-by-word)
अ॒यम् । शृ॒ण्वे॒ । अध᳚ । जय᳚न् । उ॒त । घ्नन् । अ॒यम् । उ॒त । प्र । कृ॒णु॒ते॒ । यु॒धा । गाः ।
य॒दा । स॒त्यम् । कृ॒णु॒ते । म॒न्युम् । इन्द्रः᳚ । विश्व᳚म् । दृ॒ळ्हम् । भ॒य॒ते॒ । एज᳚त् । अ॒स्मा॒त् ॥
▶ सायणभाष्यम् (Sayana Commentary)

अधापि च अयमिन्द्रो जयन् शत्रून्विजयन् शृण्वे । श्रूयते । सर्वत्र प्रख्यातो भवति । उतापि च घन् शत्रून्हिंसन् सर्वत्र श्रूयते । उतापि चायमिन्द्रो युधा युद्धेन गाः पशून्प्रक्रुणुते । शत्रुसकाशादाहरति । किञ्च इन्द्रो यदा मन्युं कोपं सत्यमेव कृणुते । द्विषदर्थं करोति । तदानीं दृढं स्थिरं स्थावररूपमेजत्कंपमानं जङ्गमरूपं च विश्वं समस्तं जगदस्मादिन्द्राद्भयते । बिभेति ॥ १० ॥

4.17.11
समिन्द्रो॒ गा अ᳚जय॒त्सं हिर᳚ण्या॒ सम᳚श्वि॒या म॒घवा॒ यो ह᳚ पू॒र्वीः ।
ए॒भिर्नृभि॒र्नृत᳚मो अस्य शा॒कै रा॒यो वि᳚भ॒क्ता स᳚म्भ॒रश्च॒ वस्व᳚ः ॥
▶ पदपाठः (Word-by-word)
सम् । इन्द्रः᳚ । गाः । अ॒ज॒य॒त् । सम् । हिर᳚ण्या । सम् । अ॒श्वि॒या । म॒घ॑वा᳚ । यः । ह॒ । पू॒र्वीः ।
ए॒भिः । नृ॑भिः᳚ । नृ॑त᳚मः । अ॒स्य॒ । शा॒कैः । रा॒यः । वि॒॑भ॒क्ता । स॒म्॑भ॒रः । च॒ । वस्वः᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

यो ह यः खलु मघवा धनवानिन्द्रो गा असुराणां समजयत् । सम्यक् जितवान् भवति । किञ्च हिरण्या हिरण्यानि हिरतमणीयानि शत्रुसम्बन्धीनि धनानि समयत् । तथा अश्वियाश्वियानि शत्रुसम्बन्धिनोऽश्वसमूहान् सम्यक् जयति स्म । तथा पूर्वीर्बर्ह्वीः शत्रुसेनाः समजयत् । इन्द्रः सर्वान् शत्रून् जित्वा सकलमपि पश्वादिधनमपहृतवानित्यर्थः । शाकैः सामर्थ्यैर्नृतमो नेतृतमः पश्वादीनामतिशयेन निर्वाहकः स इन्द्र एभिर्नृभिर्नेतृभिः स्तोतृभिः स्तुतः सन् अस्य रायः पश्वादिरूपस्य धनस्य विभक्ता स्तोतृभ्यो विभागस्य कर्ता । दाता भवतीत्यर्थः । किञ्च वस्वो वसुनो धनस्य सम्भरश्च सम्भर्ता धारकश्च भवति ॥ ११ ॥

4.17.12
किय᳚त्स्वि॒दिन्द्रो॒ अध्ये᳚ति मा॒तुः किय᳚त्पि॒तुर्ज᳚नि॒तुर्यो ज॒जान᳚ ।
यो अ᳚स्य॒ शुष्मं᳚ मुहु॒कैरिय᳚र्ति॒ वातो॒ न जू॒तः स्त॒नय᳚द्भिर॒भ्रैः ॥
▶ पदपाठः (Word-by-word)
किय᳚त् । स्वि॒त् । इन्द्रः᳚ । अधि᳚ । ए॒ति॒ । मा॒तुः । किय᳚त् । पि॒तुः । ज॒नि॒तुः । यः । ज॒जान᳚ ।
यः । अ॒स्य॒ । शुष्म᳚म् । मु॒हु॒कैः । इय᳚र्ति । वातः᳚ । न । जू॒तः । स्त॒नय᳚त्॑भिः । अ॒भ्रैः ॥
▶ सायणभाष्यम् (Sayana Commentary)

य इन्द्रो मातुर्जनन्याः सकाशात्कियत्स्विद्यावद्बलमध्येति । अधिगच्छति । पितुः सकाशात्कियद्यावद्बलमधिगच्छति । य इन्द्रो जनितुर्जयितुर्यस्मात्प्रजापतेः सकाशादिदं दृश्यमानं जगज्जजान । आजनयत् । य इन्द्रस्तस्मात्प्रजापतेः सकाशादस्य जगतः शुष्मं यावद्बलं मुहुकैर्मुहुर्मुहुरियर्ति । प्रेरयति । स्तनयद्भिर्गर्जद्भिरभ्रैर्मेघैर्जूतः प्रेरितो वातो न वायुरिव तथा स इन्द्रः स्तोतृभिर्जूतः प्रेरितो हविश्प्रदानार्थमाहूतो भवति ॥ १२ ॥

4.17.13 समानपद
क्षि॒यन्तं᳚ त्व॒मक्षि᳚यन्तं कृणो॒तीय᳚र्ति रे॒णुं म॒घवा᳚ स॒मोह᳚म् ।
वि॒भ॒ञ्ज॒नुर॒शनि᳚मा{4} इव॒ द्यौरु॒त स्तो॒तारं᳚ म॒घवा॒ वसौ᳚ धात् ॥
▶ पदपाठः (Word-by-word)
क्षि॒यन्त᳚म् । त्व॒म् । अक्षि᳚यन्तम् । कृ॒णो॒ति॒ । इय᳚र्ति । रे॒णुम् । म॒घ॑वा᳚ । स॒म्॑ओह᳚म् ।
वि॒॑भ॒ञ्ज॒नुः । अ॒शनि᳚मान्॑इव । द्यौः । उ॒त । स्तो॒तार᳚म् । म॒घ॑वा᳚ । वसौ᳚ । धा॒त् ॥
▶ सायणभाष्यम् (Sayana Commentary)

मघवा धनवानिन्द्रः क्षियन्तं धनराहित्येन क्षीयमाणं त्वमेकं जनमक्षियन्तं धनेनाक्षीयमाणं कृणोति । करोति । अकिञ्चनः कश्चित्पुरुष इन्द्रं स्तुत्वा धनसमृद्धोऽभवदित्यर्थः । अशनिमानशनिना युक्तो द्यौरिवान्तरिक्शमिव विभञ्जनुः शत्रूणां विशेषेण भञ्जको मघवेन्द्रः समोहं समूढं रेणुं पापमियर्ति । स्तोतुः सकाशात्प्रेरयति । उतापि च मघवा धनवानिन्द्रः स्तोतारं वसौ धने धात् । अधात् । निदधाति ॥ १३ ॥

4.17.14
अ॒यं च॒क्रमि᳚षण॒त्सूर्य᳚स्य॒ न्येत᳚शं रीरमत्ससृमा॒णम् ।
आ कृ॒ष्ण ईं᳚ जुहुरा॒णो जि᳚घर्ति त्व॒चो बु॒ध्ने रज᳚सो अ॒स्य योनौ᳚ ॥
▶ पदपाठः (Word-by-word)
अ॒यम् । च॒क्रम् । इ॒ष॒ण॒त् । सूर्य᳚स्य । नि । एत᳚शम् । री॒र॒म॒त् । स॒सृ॒मा॒णम् ।
आ । कृ॒ष्णः । ई॒म् । जु॒हु॒रा॒णः । जि॒घ॒र्ति॒ । त्व॒चः । बु॒ध्ने । रज᳚सः । अ॒स्य । योनौ᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

प्रैतशं सूर्ये पस्पृधानमित्यर्धर्चे । ऋग्वे. १-६१-१५ । पूर्वं काचिदाख्यायिका सूचिता । अत्राप्ययं चक्रमिति पूर्वार्धे सा सूच्यते । स्वस्व्वनामाकश्चिद्राजा । स च पुत्रार्थं सूर्यमुषास्ते । स च सूर्यः पुत्ररूपेण स्वयमेव तत्रोत्पन्नः सन् एतशाख्येन महर्षिणा सार्धं युद्धं चकार । तदानीं स ऋषिर्युद्धे जयार्थमिन्द्रं तुष्टाव । स इन्द्रस्तेन स्तूयमानः सन् स्वश्वपुत्रस्य सूर्यस्य सम्बन्धिन सङ्ग्रामादेनमपालयदिति । अयमिन्द्रः सूर्यस्य चक्रमायुधमिशणत् । प्रैरयत् । ससृमाणं युद्धार्थं सरंतं गच्छन्तमेतशना मानमृषिं नि रीरमत् । न्यरीरमत् । निवारितवान् । जुहुराणः कुटिलं यथा भवति तथा सञ्चरन् कृष्णः कृष्णवर्णो मेघस्त्वचस्तेजसो बुध्ने मूलभूते रजसोऽस्योदकस्य योनौ स्थानेऽन्तरिक्षे स्थितमीमेनमिन्द्रमा जिघर्ति । आसिन्ञ्चति । शत्रूणां प्रेरिताच्चक्रादेस्त्रस्तं ररक्षेत्यर्थः ॥ १४ ॥

4.17.15
असि᳚क्न्यां॒ यज᳚मानो॒ न होता᳚ ॥
▶ पदपाठः (Word-by-word)
असि᳚क्न्याम् । यज᳚मानः । न । होता᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

एकपदेयमृक् पूर्वर्चा सह दृष्टान्तत्वेन सम्बध्यते । असिक्न्यां रात्रौ यजमानो न यजमान इव होता योतारमाह्वातारमग्निम् । द्वितीयार्थे प्रथमा । सोमेनासिञ्चति तद्वन्मेघ इन्द्रमासिञ्चतीत्यर्थः ॥ १५ ॥

4.17.16
ग॒व्यन्त॒ इन्द्रं᳚ स॒ख्याय॒ विप्रा᳚ अश्वा॒यन्तो॒ वृष᳚णं वा॒जय᳚न्तः ।
ज॒नी॒यन्तो᳚ जनि॒दामक्षि᳚तोति॒मा च्या᳚वयामो॑व॒ते न कोश᳚म् ॥
▶ पदपाठः (Word-by-word)
ग॒व्यन्तः᳚ । इन्द्र᳚म् । स॒ख्याय᳚ । विप्राः᳚ । अ॒श्व॒॑यन्तः᳚ । वृष᳚णम् । वा॒जय᳚न्तः ।
ज॒नि॒॑यन्तः᳚ । ज॒नि॒॑दाम् । अक्षि᳚त॑ऊतिम् । आ । च्य॒व॒या॒मः॒ । अ॒व॒ते । न । कोश᳚म् ॥
▶ सायणभाष्यम् (Sayana Commentary)

गव्यन्तो गा इच्छन्तोऽश्वायन्तोऽश्वानिच्छन्तो वाजयन्तो वाजमन्नमिच्छन्तो जनीयन्तो जायाश्चेच्छन्तो विप्रा मेधाविनः स्तोतारो वयं सख्यायेन्द्रसम्बन्धिने सखित्वाय वृषणं कामानां वर्षितारं जनिदां जायाप्रदमक्षितोतिमक्षीणरक्षम् । सर्वदा रक्षाकरमित्यर्थः । एवं भूतमिन्द्रमा च्यावयामः । आगमयामः । तत्र दृष्टान्तः । अवते कूपे । अवत इति कूपनाम अवतोऽवटः क्रिविरिति कूपनामसु पाठात् । कोशं न जलोद्धरणपात्रमिव । पुरुषा जलोद्धरणपात्रं जलेन पूरयितुं कूपे यथाच्यावयन्ति तथा वयमाच्यावयाम इत्यर्थः ॥ १६ ॥

4.17.17
त्रा॒ता नो᳚ बोधि॒ ददृ᳚शान आ॒पिर᳚भिख्या॒ता म᳚र्डि॒ता सो॒म्याना᳚म् ।
सखा᳚ पि॒ता पि॒तृत᳚मः पितॄ॒णां कर्ते᳚मु लो॒कमु᳚श॒ते व᳚यो॒धाः ॥
▶ पदपाठः (Word-by-word)
त्रा॒ता । नः॒ । बो॒धि॒ । ददृ᳚शानः । आ॒पिः । अ॒भि॒॑ख्या॒ता । म॒र्डि॒ता । सो॒म्याना᳚म् ।
सखा᳚ । पि॒ता । पि॒तृ॑त᳚मः । पि॒तॄ॒णाम् । कर्ता᳚ । ई॒म् । ऊं॒ इति᳚ । लो॒कम् । उ॒श॒ते । व॒यः॒॑धाः ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे इन्द्र आपिराप्तो ददृशानः सर्वं पालकत्वेन पश्यन्स्त्वं नोऽस्माकं त्राता रक्शको बोधि । भव । किञ्च । अभिख्याताभिद्रष्टा मर्डिता सुखयिता सोम्यानां सोमार्हाणां यजमानादीनां सखा प्रजापतिना समानख्यातिः पिता पालकः । केवलं पालको न किन्तु पितॄणां पालकानां मध्ये पितृतमोऽतिशयेन पालकः कर्तेमु पितॄणां स्रष्टा च त्वं लोकं स्वर्गादिलोकमुशते कामयमानाय स्तोत्रे वयोधाः । वय इत्यन्ननामैतत् । अन्नप्रदो भव ॥ १७ ॥

4.17.18
स॒खी॒य॒ताम᳚वि॒ता बो᳚धि॒ सखा᳚ गृणा॒न इ᳚न्द्र स्तुव॒ते वयो᳚ धाः ।
व॒यं ह्या ते᳚ चकृ॒मा स॒बाध᳚ आ॒भिः शमी᳚भिर्म॒हय᳚न्त इन्द्र ॥
▶ पदपाठः (Word-by-word)
स॒खि॒॑य॒ताम् । अ॒वि॒ता । बो॒धि॒ । सखा᳚ । गृ॒णा॒नः । इ॒न्द्र॒ । स्तु॒व॒ते । वयः᳚ । धाः॒ ।
व॒यम् । हि । आ । ते॒ । च॒कृ॒म । स॒॑बाधः᳚ । आ॒भिः । शमी᳚भिः । म॒हय᳚न्तः । इ॒न्द्र॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे इन्द्र त्वं सखीयतां सखित्वमिच्छतामस्माकमविता रक्षिता बोधि । भव । तथा गृणानः । स्तूयमानस्त्वं सखा भव । हे इन्द्र स्तुवते स्तुतिं कुर्वते मह्यं वयोऽन्नं धाः । अधाः । धेहि । हे इन्द्र सबाधो बाधासहिता वयं हि वयं खलु ते त्वामा च कृम । आह्वयामः । किं कुर्वन्तः । अभि प्रत्यक्षेणोपलभ्यमानैः शमीभिः स्तुतिरूपैः कर्मभिर्महयन्तस्त्वां पूजयन्तः ॥ १८ ॥

4.17.19 समानपद
स्तु॒त इन्द्रो᳚ म॒घवा॒ यद्ध᳚ वृ॒त्रा भूरी॒ण्येको᳚ अप्र॒तीनि᳚ हन्ति ।
अ॒स्य प्रि॒यो ज᳚रि॒ता यस्य॒ शर्म॒न्नकि᳚र्दे॒वा वा॒रय᳚न्ते॒ न मर्ता᳚ः ॥
▶ पदपाठः (Word-by-word)
स्तु॒तः । इन्द्रः᳚ । म॒घ॑वा᳚ । यत् । ह॒ । वृ॒त्रा । भूरी᳚णि । एकः᳚ । अ॒प्र॒तीनि᳚ । ह॒न्ति॒ ।
अ॒स्य । प्रि॒यः । ज॒रि॒ता । यस्य᳚ । शर्म᳚न् । नकिः᳚ । दे॒वाः । वा॒रय᳚न्ते । न । मर्ताः᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

इन्द्रस्य वृत्रघ्नः पुरोडाशस्य स्तुत इन्द्र इति याज्या । सूत्रितं च । स्तुत इन्द्रो मघवा युद्ध वृत्रैवा वस्व इन्द्रः सत्यः सम्राट् । आ. ३-८ । इति ॥

युद्ध यदा खलु मघवा धनवानिन्द्रः स्तुतोऽस्माभिः स्तुतो भवति तदेन्द्र एकोऽसहय एव भूरिणि बहून्यप्रतीन्यप्रतिगमनानि । अभिगमनयुक्तानीत्यर्थः । वृत्रा वृत्राणि शत्रून्हन्ति । हिनस्ति । यस्येन्द्रस्य शर्मन् शर्मण्याश्रये वर्तमानं स्तोतारं देवा नकिर्वारयन्ते । निवारणं न कुर्वन्ति । मर्ताश्च न निवारयन्ते अस्येन्द्रस्य जरिता स्तोता प्रियो भवति ॥ १९ ॥

4.17.20
ए॒वा न॒ इन्द्रो᳚ म॒घवा᳚ विर॒प्शी कर᳚त्स॒त्या च᳚र्षणी॒धृद᳚न॒र्वा ।
त्वं राजा᳚ ज॒नुषां᳚ धेह्य॒स्मे अधि॒ श्रवो॒ माहि᳚नं॒ यज्ज᳚रि॒त्रे ॥
▶ पदपाठः (Word-by-word)
ए॒व । नः॒ । इन्द्रः᳚ । म॒घ॑वा᳚ । वि॒॑र॒प्शी । कर᳚त् । स॒त्या । च॒र्ष॒णि॒॑धृत् । अ॒न॒र्वा ।
त्वम् । राजा᳚ । ज॒नुषा᳚म् । धे॒हि॒ । अ॒स्मे इति᳚ । अधि᳚ । श्रवः᳚ । माहि᳚नम् । यत् । ज॒रि॒त्रे ॥
▶ सायणभाष्यम् (Sayana Commentary)

अग्नि मारुतशस्त्र एवा न इन्द्र इति परिधानीया । सूत्रितं च । एवा न इन्द्रो मघवा विरप्शीति परिदध्यात् । आ. ५.२० । इति ॥

विरप्शी बहुविधशब्दवान् चर्षणी धृत् सर्वासां प्रजानां धारयितानर्वाप्रत्यैतः । केनापि प्रतिकूलेन न प्राप्त इत्यर्थः । मघवा धनवानिन्द्र एवैवमस्माभिः स्तुतः सन् नोऽस्माकं सत्या सत्यरूपाण्यभिमतानि फलानि करत् । करोतु । हे इन्द्र जनुषां जन्मवतां सर्वेषां राजा प्रभुस्त्वं माहिनं महिम्नोपेतं यच्छ्रवो यद्यशो जरित्रे स्तोत्रे देयं तद्यशोऽस्मे अस्मास्वधि अधिकत्वेन धेहि । एवा न इन्द्रो मघवा विरप्शीत्युत्तमया परिधातीयं वा इन्द्रो मघवा विरप्शीत्यादि ब्राह्मणम् । ऐ. ब्रा. ३-३८ ॥ २० ॥

4.17.21
नू ष्टु॒त इ᳚न्द्र॒ नू गृ᳚णा॒न इषं᳚ जरि॒त्रे न॒द्यो॒३॒᳚ न पी᳚पेः ।
अका᳚रि ते हरिवो॒ ब्रह्म॒ नव्यं᳚ धि॒या स्या᳚म र॒थ्य᳚ः सदा॒साः ॥
▶ पदपाठः (Word-by-word)
नु । स्तु॒तः । इ॒न्द्र॒ । नु । गृ॒णा॒नः । इष᳚म् । ज॒रि॒त्रे । न॒द्यः᳚ । न । पी॒पे॒रिति᳚ पीपेः ।
अका᳚रि । ते॒ । ह॒रि॒॑वः॒ । ब्रह्म᳚ । नव्य᳚म् । धि॒या । स्या॒म॒ । र॒थ्यः᳚ । स॒दा॒॑साः ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे इन्द्र नु क्षिप्रं स्तुतः पूर्वैऋषिभिः संस्तुतो नु क्षिप्रं गृणानोऽस्माभिः स्तूयमानश्च त्वमिषमन्नं जरित्रे स्तोत्रे मह्यं नद्यो न अद्भिर्नदीरिव पीपेः । प्यायय । प्रवृद्धं कुरु । हे इन्द्र हरिवो हरिवन् यरिसंज्ञकाश्वोपेतेन्द्र ते तुभ्यं नव्यं नवतरं ब्रह्म स्तोत्रमकारि । अस्माभिः क्रियते । रथ्यो रथवन्तो वयं धिया प्रज्ञारूपया स्तुत्या सदासास्त्वां सर्वदा भजमानास्त्वदर्थं हवीरूपस्यान्नस्य दातारो वा स्याम । भूयास्म ॥ २१ ॥