श्रवणम्

4.17.20
ए॒वा न॒ इन्द्रो᳚ म॒घवा᳚ विर॒प्शी कर᳚त्स॒त्या च᳚र्षणी॒धृद᳚न॒र्वा ।
त्वं राजा᳚ ज॒नुषां᳚ धेह्य॒स्मे अधि॒ श्रवो॒ माहि᳚नं॒ यज्ज᳚रि॒त्रे ॥
▶ पदपाठः (Word-by-word)
ए॒व । नः॒ । इन्द्रः᳚ । म॒घ॑वा᳚ । वि॒॑र॒प्शी । कर᳚त् । स॒त्या । च॒र्ष॒णि॒॑धृत् । अ॒न॒र्वा ।
त्वम् । राजा᳚ । ज॒नुषा᳚म् । धे॒हि॒ । अ॒स्मे इति᳚ । अधि᳚ । श्रवः᳚ । माहि᳚नम् । यत् । ज॒रि॒त्रे ॥
▶ सायणभाष्यम् (Sayana Commentary)

अग्नि मारुतशस्त्र एवा न इन्द्र इति परिधानीया । सूत्रितं च । एवा न इन्द्रो मघवा विरप्शीति परिदध्यात् । आ. ५.२० । इति ॥

विरप्शी बहुविधशब्दवान् चर्षणी धृत् सर्वासां प्रजानां धारयितानर्वाप्रत्यैतः । केनापि प्रतिकूलेन न प्राप्त इत्यर्थः । मघवा धनवानिन्द्र एवैवमस्माभिः स्तुतः सन् नोऽस्माकं सत्या सत्यरूपाण्यभिमतानि फलानि करत् । करोतु । हे इन्द्र जनुषां जन्मवतां सर्वेषां राजा प्रभुस्त्वं माहिनं महिम्नोपेतं यच्छ्रवो यद्यशो जरित्रे स्तोत्रे देयं तद्यशोऽस्मे अस्मास्वधि अधिकत्वेन धेहि । एवा न इन्द्रो मघवा विरप्शीत्युत्तमया परिधातीयं वा इन्द्रो मघवा विरप्शीत्यादि ब्राह्मणम् । ऐ. ब्रा. ३-३८ ॥ २० ॥