श्रवणम्

4.17.16
ग॒व्यन्त॒ इन्द्रं᳚ स॒ख्याय॒ विप्रा᳚ अश्वा॒यन्तो॒ वृष᳚णं वा॒जय᳚न्तः ।
ज॒नी॒यन्तो᳚ जनि॒दामक्षि᳚तोति॒मा च्या᳚वयामो॑व॒ते न कोश᳚म् ॥
▶ पदपाठः (Word-by-word)
ग॒व्यन्तः᳚ । इन्द्र᳚म् । स॒ख्याय᳚ । विप्राः᳚ । अ॒श्व॒॑यन्तः᳚ । वृष᳚णम् । वा॒जय᳚न्तः ।
ज॒नि॒॑यन्तः᳚ । ज॒नि॒॑दाम् । अक्षि᳚त॑ऊतिम् । आ । च्य॒व॒या॒मः॒ । अ॒व॒ते । न । कोश᳚म् ॥
▶ सायणभाष्यम् (Sayana Commentary)

गव्यन्तो गा इच्छन्तोऽश्वायन्तोऽश्वानिच्छन्तो वाजयन्तो वाजमन्नमिच्छन्तो जनीयन्तो जायाश्चेच्छन्तो विप्रा मेधाविनः स्तोतारो वयं सख्यायेन्द्रसम्बन्धिने सखित्वाय वृषणं कामानां वर्षितारं जनिदां जायाप्रदमक्षितोतिमक्षीणरक्षम् । सर्वदा रक्षाकरमित्यर्थः । एवं भूतमिन्द्रमा च्यावयामः । आगमयामः । तत्र दृष्टान्तः । अवते कूपे । अवत इति कूपनाम अवतोऽवटः क्रिविरिति कूपनामसु पाठात् । कोशं न जलोद्धरणपात्रमिव । पुरुषा जलोद्धरणपात्रं जलेन पूरयितुं कूपे यथाच्यावयन्ति तथा वयमाच्यावयाम इत्यर्थः ॥ १६ ॥