चतुर्थं मण्डलम् - सूक्तम् 58

11 ऋचः

ऋषिः: वामदेवो गौतमः देवता: अग्निः सूर्यो वापो वा गावो वा घृतं वा छन्दः: त्रिष्टुप्

सूक्तम् 4.58 - सम्पूर्णम्

1 / 11
ऋक्: 4.58.1
0:00 0:00
▶ सर्वाणि ऋक्कानि (11)
4.58.1
स॒मु॒द्रादू॒र्मिर्मधु᳚मा{4}॒ उदा᳚र॒दुपां॒शुना॒ सम᳚मृत॒त्वमा᳚नट् ।
घृ॒तस्य॒ नाम॒ गुह्यं॒ यदस्ति᳚ जि॒ह्वा दे॒वाना᳚म॒मृत᳚स्य॒ नाभि᳚ः ॥
▶ पदपाठः (Word-by-word)
स॒मु॒द्रात् । ऊ॒र्मिः । मधु᳚॑मान् । उत् । आ॒र॒त् । उप᳚ । अं॒शुना᳚ । सम् । अ॒मृ॒त॒॑त्वम् । आ॒न॒ट् ।
घृ॒तस्य᳚ । नाम᳚ । गुह्य᳚म् । यत् । अस्ति᳚ । जि॒ह्वा । दे॒वाना᳚म् । अ॒मृत᳚स्य । नाभिः᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

समुद्रादूर्मिरित्येकादशर्चं त्रयोदशं सूक्तम् । अन्त्या जगती शिष्टास्त्रिष्टुभः । अग्निसूर्याभ्गोघृतानामन्यतमो देवता । वामदेव ऋषिः । अत्रानुक्रमणिका । समुद्रादूर्मिरेकादशाग्नेयं जगत्यन्तं सौर्यं वापम् वा गव्यम् वा घृतस्तुतिर्वेति । विषुवतीदं सूक्तमाज्यम् । तथा च सूत्रम् । समुद्रादुर्मिरित्याज्यंत्यं सुमेषम् । आ. ८-६ । इति । व्यूढे दशरात्रे सप्तमेऽहनीदमेव सूक्तमाज्यम् । सूत्रितं च । अथ छन्दोमाः समुद्रादूर्मिरित्याज्यम् । आ. ८-९ । इति ॥

संमोदन्तेऽस्मिन्यजमाना इति वा समुद्रोग्निः पार्थिवः अथवा समुद्द्रवन्त्यापोऽस्मादिति व्युत्पत्त्या वैद्युतोऽग्निः । तस्मादूर्मिरूर्मिवदुपर्युपर्युद्भुतो मधुमान्माधुर्योपेतफलसमूह उदारत् । उद्गच्छति । अथवा वैद्युतादूर्मुत्पादको रस उदारत् । उद्भुतः । अथवा समुद्रात्समुद्द्रवणसाधनादादित्यादूर्मी रस उदकलक्षन उदारत् । आदित्याज्जायते व्रुष्तिरिति श्रुतेः । यद्वा । समुद्रादुक्तव्युत्पत्तेरन्तरिक्षादूर्मिरुदकमुदारत् । अथवा समुद्रादुक्तलक्शणाद्गवामूधसः सकाशादूर्मिरुज्ज्वलः क्षीररसः । एतद्घृतपक्शेऽपि समानम् । यद्यपि घृतं क्षीराज्जायते तथापि तस्योधस उत्पत्तेरेवमुपचर्यते । शिष्टं वाक्यमग्न्यादिपञ्चसु पक्षेश्वपि समानम् । अंशुना दीप्त्यांशेन वामृतत्वं मोक्षमुपसमानट् । उपेति पूरणः । प्राप्नोति नरः । घृतस्य दीप्तस्य क्शीरद्रव्यरूपस्य वा गुह्यं नाम गोपनीयं नमनसाधनं यदस्ति तद्ब्रवीमि । तद्देवानां जिह्वास्वादकजिह्वास्थानीयं भवति । तदेवामृतस्य नाभिर्बन्धकं भवति । तदुभयं भृतस्य नामेत्यर्थः । एवं सर्वमन्त्रेषु तत्तत्पक्षानुसारेन योज्यं ॥ १ ॥

4.58.2
व॒यं नाम॒ प्र ब्र᳚वामा घृ॒तस्या॒स्मिन्य॒ज्ञे धा᳚रयामा॒ नमो᳚भिः ।
उप᳚ ब्र॒ह्मा शृ᳚णवच्छ॒स्यमा᳚नं॒ चतु᳚ःशृङ्गो॑वमीद्गौ॒र ए॒तत् ॥
▶ पदपाठः (Word-by-word)
व॒यम् । नाम᳚ । प्र । ब्र॒वा॒म॒ । घृ॒तस्य᳚ । अ॒स्मिन् । य॒ज्ञे । धा॒र॒या॒म॒ । नमः᳚॑भिः ।
उप᳚ । ब्र॒ह्मा । शृ॒ण॒व॒त् । श॒स्यमा᳚नम् । चतुः᳚॑शृङ्गः । अ॒व॒मी॒त् । गौ॒रः । ए॒तत् ॥
▶ सायणभाष्यम् (Sayana Commentary)

वयं यजमाना घृतस्य नाम प्र ब्रवाम । स्तुमः । अस्मिन्यज्ञे नमोभिर्नमस्कारैर्हविर्भिर्वा धारयाम च । ब्रह्मा परिवृढो देवः शस्यमानं स्तूयमानमिदमुप शृणुवत् । शृणुयात् । चतुः शृङ्गः । चत्वारि शृङ्गाणि देवचतुष्टयरूपाणि यस्य सः । आदित्याग्निपक्श एवम् । इतरेष्वपि यास्कोक्तव्युत्पत्त्या शृङ्गशब्दो व्याख्येयः । गौरोऽरुनवर्णस्तादृशो देव एतत्कर्म जगद्वावमीत् । उद्गिरति । निर्वहतीत्यर्थः ॥ २ ॥

4.58.3
च॒त्वारि॒ शृङ्गा॒ त्रयो᳚ अस्य॒ पादा॒ द्वे शी॒र्षे स॒प्त हस्ता᳚सो अस्य ।
त्रिधा᳚ ब॒द्धो वृ᳚ष॒भो रो᳚रवीति म॒हो दे॒वो मर्त्या{4}॒ आ वि᳚वेश ॥
▶ पदपाठः (Word-by-word)
च॒त्वारि᳚ । शृङ्गा᳚ । त्रयः᳚ । अ॒स्य॒ । पादाः᳚ । द्वे इति᳚ । शी॒र्षे इति᳚ । स॒प्त । हस्ता᳚सः । अ॒स्य॒ ।
त्रिधा᳚ । ब॒द्धः । वृ॒ष॒भः । रो॒र॒वी॒ति॒ । म॒हः । दे॒वः । मर्त्या᳚न् । आ । वि॒वे॒श॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

यद्यपि सूक्तस्याग्निसूर्यादिपञ्चदेवताकत्वात्पञ्चधायं मन्त्रो व्याख्येयस्तथापि निरुक्ताद्युक्तनीत्या यज्ञात्मकाग्नेः सूर्यस्य च प्रकाशकत्वेन तत्परतया व्याख्यायते । अस्य यज्ञात्मकस्याग्नेश्चत्वारि शृङ्गा चत्वारो वेदाः शृङ्गस्थानीयाः । यद्यप्यापस्तम्बेन यज्ञं व्याख्यास्यामः स त्रिभिर्वेदैर्विधीयते । परिभा. १-३ । इत्युक्तं तथाप्याथर्वणस्येतरानपेक्शयैवैकाग्निसाध्यानां क्रुत्स्न कर्मणामभिधायकत्वात्तादपेक्शया चत्वारि शृङ्गेत्युक्तम् । त्रयो अस्य पादाः सवनानि त्रीण्यस्य पादाः । प्रवृत्तिसाधनत्वात्पादा इत्युच्यन्ते । द्वे शीर्षे बह्मौदनं प्रवर्ग्यश्च । इष्टसोमप्राधान्येनेदमुक्तम् । सप्त हस्तासः सप्त छन्दांसि । हस्ता अनुष्थानस्य मुख्यसाधनम् । छन्दांस्यपि देवताप्रीणनस्य मुख्यसाधनमिति हस्तव्यवहारः । त्रिधा बद्धो मन्त्रकल्पब्राह्मणैस्त्रिप्रकारं बद्धः । बन्धनमस्य तन्निष्पाद्यत्वम् । वृशभः फलानां वर्षिता रोरवीति । भृशं शब्दायते । ऋग्यजुःसामोक्थ्यैः शस्त्रयागस्तुतिरूपैर्होत्राद्युत्पादितैर्ध्वनिभिरसौ रौति । एवं महो देवो मर्त्याना विवेश । मर्त्यैर्यजमानैर्निष्पाद्यत्वात्प्रवेश उपचर्यते । अत्र यास्कश्चत्वारि शृङ्गेति वेदा वा एत उक्ताः । नि. १३-७ । इत्यादिना निरवोचत् । तदत्रानुसन्धेयम् । अथा सूर्यपक्शे व्याख्यायते । अस्यादित्यस्य चत्वारि शृङ्गाणि चतस्रो दिशः । एताः श्रयणार्थत्वाच्छृङ्गाणीत्युपचर्यन्ते । त्रयो अस्य पादाः । त्रयो वेदाः पादस्थानीया भवन्ति गमनसाधनत्वात् । तथा ह्यृग्भिः पुर्वाह्णे दिवि देव ईयत इत्युपक्रम्य वेदैरशून्यस्त्रिभिरेति सूर्यः । तै.ब्रा. ३-१२-९-१ । इति हि वेदत्रयेण गतिराम्नाता । द्वेशीर्षे । अहश्च रात्रिश्चेति द्वे शिरसी । सप्त हस्तासो अस्य । सप्त रश्मयः षद्विलक्शणा ऋतव एकः साधारन इति वा सप्त हस्ता भवन्ति । त्रिधा बद्धस्त्रिषु स्थानेशु क्शित्यादिष्वग्न्याद्यात्मकत्वेन सम्बद्धः । ग्रीष्म वर्षाहेमन्ताख्यैस्त्रिभिस्त्रेधा बद्धो वा । व्रुषभो वर्शिता रोरवीति । शब्दं करोति व्रुष्ट्यादिद्वारा । स महो महान् देवो मर्त्याना विवेश तन्नियन्तृतया । सूर्य आत्मा जगतस्तस्थुषश्च । ऋग्वे. १-११५-१ । इति हि श्रुतम् । एवं त्वबादितपक्षेऽपि योज्यम् । शाब्दिकास्तु शब्दब्रह्मपरतया चत्वारि शृङ्गेति चत्वारि पदजातानि नामाख्याते चोपसर्गनिपाताश्चेत्यादिना व्याचक्शते । अपरे त्वपथा । तत्सर्वमत्र द्रष्टव्यं ॥ ३ ॥

4.58.4
त्रिधा᳚ हि॒तं प॒णिभि᳚र्गु॒ह्यमा᳚नं॒ गवि᳚ दे॒वासो᳚ घृ॒तमन्व᳚विन्दन् ।
इन्द्र॒ एकं॒ सूर्य॒ एकं᳚ जजान वे॒नादेकं᳚ स्व॒धया॒ निष्ट᳚तक्षुः ॥
▶ पदपाठः (Word-by-word)
त्रिधा᳚ । हि॒तम् । प॒णि॑भिः᳚ । गु॒ह्यमा᳚नम् । गवि᳚ । दे॒वासः᳚ । घृ॒तम् । अनु᳚ । अ॒वि॒न्द॒न् ।
इन्द्रः᳚ । एक᳚म् । सूर्यः᳚ । एक᳚म् । ज॒जा॒न॒ । वे॒नात् । एक᳚म् । स्व॒धया᳚ । निः । त॒त॒क्षुः॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

पणिभिरसुरैर्गवि गोषु त्रिधा क्शीरदध्याज्यभेदेन त्रिप्रकारं हितं निहितं गुह्यमानं गोपितं घृतं दीप्तं रसरूपं वा द्रव्यं देवासो देवा अन्वविन्दन् । आलभन्त । तत्रेन्द्रं एकं क्षीरं जजान । उदपादयत् । सूर्य एकं जजान । वेनात्कान्तिमतोऽग्नेर्गमनवतो वायोर्वैकं घृतं स्वधायान्नेन निमित्तेन द्रव्येण वा साधनेन निष्ततक्षुः । निरपादयन् देवाः ॥ ४ ॥

4.58.5 समानपद
ए॒ता अ᳚र्षन्ति॒ हृद्या᳚त्समु॒द्राच्छ॒तव्र᳚जा रि॒पुणा॒ नाव॒चक्षे᳚ ।
घृ॒तस्य॒ धारा᳚ अ॒भि चा᳚कशीमि हिर॒ण्ययो᳚ वेत॒सो मध्य᳚ आसाम् ॥
▶ पदपाठः (Word-by-word)
ए॒ताः । अ॒र्ष॒न्ति॒ । हृद्या᳚त् । स॒मु॒द्रात् । श॒त॑व्र᳚जाः । रि॒पुणा᳚ । न । अ॒व॒॑चक्षे᳚ ।
घृ॒तस्य᳚ । धाराः᳚ । अ॒भि । चा॒क॒शी॒मि॒ । हि॒र॒ण्ययः᳚ । वे॒त॒सः । मध्ये᳚ । आ॒सा॒म् ॥
▶ सायणभाष्यम् (Sayana Commentary)

एता आपो घृतधारा वार्षन्ति । अधः पतन्ति । शतव्रजा अपरिमितगतयः सत्यो हृद्याद्धृदयङ्गमात्समुद्रादन्तरिक्षाद्रिपुणा जलमोकप्रतिबन्धकारिणा शत्रुना वृत्रेण नावचक्शे न अवदर्शनाय यथादृष्टं भवति तथार्षन्ति । ता घृतस्य धारा अभि चाकशिमि । अभिपश्यामि । कुत्रेति तदुच्यते । हिरण्ययो हिरण्मयो वेतसोऽप्सम्भवोऽग्निर्वैद्युत आसामपां मध्ये वर्तत इति शेशः । अत्र घृतस्य धारा अभिचाकशीमीत्यनेन चरमपादेन होमाधारोऽग्निर्वैद्युतोऽग्निरादित्यो वोक्तः ॥ ५ ॥

4.58.6
स॒म्यक्स्र᳚वन्ति स॒रितो॒ न धेना᳚ अ॒न्तर्हृ॒दा मन᳚सा पू॒यमा᳚नाः ।
ए॒ते अ᳚र्षन्त्यू॒र्मयो᳚ घृ॒तस्य᳚ मृ॒गा इ᳚व क्षिप॒णोरीष᳚माणाः ॥
▶ पदपाठः (Word-by-word)
स॒म्यक् । स्र॒व॒न्ति॒ । स॒रितः᳚ । न । धेनाः᳚ । अ॒न्तः । हृ॒दा । मन᳚सा । पू॒यमा᳚नाः ।
ए॒ते । अ॒र्ष॒न्ति॒ । ऊ॒र्मयः᳚ । घृ॒तस्य᳚ । मृ॒गाः॑इ᳚व । क्षि॒प॒णोः । ईष᳚माणाः ॥
▶ सायणभाष्यम् (Sayana Commentary)

अस्याग्नेरुपरि सम्यक् स्रवन्ति । क्षरन्ति । घृतस्य धाराः । किमिव । सरितो न धेनाः प्रीणयित्र्यो नद्य इव । अन्तर्हृदा मनसा हृदयमध्यगतेन चित्तेन । भावनासचिवेनेति यावत् । तेन पूयमानाः शुद्धीकृताः । तेदेवोच्यते । एते घृतस्योर्मयो रसा अर्शन्ति । गच्छन्ति । जुह्वाः सकाशादग्नेरुपरि पतन्ति । किमिव । क्षिपणोः क्षेपकाद्व्याधादिषमाणाः पलायमाना मृगा इव । ते यथा कक्शं प्रविशन्ति तद्वत् । अनेन शैघ्र्यमुक्तं भवति ॥ ६ ॥

4.58.7
सिन्धो᳚रिव प्राध्व॒ने शू᳚घ॒नासो॒ वात᳚प्रमियः पतयन्ति य॒ह्वाः ।
घृ॒तस्य॒ धारा᳚ अरु॒षो न वा॒जी काष्ठा᳚ भि॒न्दन्नू॒र्मिभि॒ः पिन्व᳚मानः ॥
▶ पदपाठः (Word-by-word)
सिन्धोः᳚॑इव । प्र॒॑अ॒ध्व॒ने । शू॒घ॒नासः᳚ । वात᳚॑प्रमियः । प॒त॒य॒न्ति॒ । य॒ह्वाः ।
घृ॒तस्य᳚ । धाराः᳚ । अ॒रु॒षः । न । वा॒जी । काष्ठाः᳚ । भि॒न्दन् । ऊ॒र्मिभिः᳚ । पिन्व᳚मानः ॥
▶ सायणभाष्यम् (Sayana Commentary)

सिन्धोः स्यन्दमानाया नद्याः सकाशादिवोदकानीव प्राध्वने प्रवणवति देशे शूघनास आशुगन्त्र्यः । आशु इति च शु इति च क्षिप्रनामनी भवत इति निरुक्तम् । ६-१ । वातप्रमियो वायुवत्प्रकृष्टवेगा यह्वा महत्यो घृतस्य धाराः पतयन्ति । गच्छन्त्यग्नेरुपरि । घृतमुदकमिति पक्षे सिन्धोरिवेत्यत्रेवशब्दोऽनर्थकः । स्यन्दनसाधनादन्तरिक्षादुक्तलक्शणा घृतधारा उदकधाराः पतयन्ति । गच्छन्ति भुमौ । किञ्च घृतसंस्त्यायः काष्ठा मर्यादाभूतान्परिधीन्भिन्दन्नूर्मिभी रसैः पिन्वमानो वर्धमानो भवति । उदकमिति पक्शे काष्ठाः क्रान्त्वा स्थिता दिशो भिन्दन्नूर्मिभिस्तरङ्गैः पिन्वमानो भवति । तत्र दृष्टान्तः । अरुषो न वाजी आरोचमानो गर्वेन गमनशीलोऽश्व इव । स यथा भिन्दन्पिन्वमानश्च भवति तद्वत् ॥ ७ ॥

4.58.8
अ॒भि प्र᳚वन्त॒ सम᳚नेव॒ योषा᳚ः कल्या॒ण्य१॒᳚ः स्मय᳚मानासो अ॒ग्निम् ।
घृ॒तस्य॒ धारा᳚ः स॒मिधो᳚ नसन्त॒ ता जु᳚षा॒णो ह᳚र्यति जा॒तवे᳚दाः ॥
▶ पदपाठः (Word-by-word)
अ॒भि । प्र॒व॒न्त॒ । सम᳚ना॑इव । योषाः᳚ । क॒ल्या॒ण्यः᳚ । स्मय᳚मानासः । अ॒ग्निम् ।
घृ॒तस्य᳚ । धाराः᳚ । स॒म्॑इधः᳚ । न॒स॒न्त॒ । ताः । जु॒षा॒णः । ह॒र्य॒ति॒ । जा॒त॑वे᳚दाः ॥
▶ सायणभाष्यम् (Sayana Commentary)

घृतस्य धारा अमुमग्निं समनेव समानमनस्का योषा योषितः पतिमिवभिप्रवन्त । अभिनमयन्ति । निमग्नं कुर्वन्ति । कीदृश्यस्ताः । कल्याण्यो भद्ररूपाः स्मयमानासो हसन्त्यः । किञ्च ताः समिधः सम्यग्दीपयित्र्यः सत्यो नसन्त । व्याप्नुवन्ति । ता एव धारा जुशानः प्रीयमाणः सेवमानो वायं जातवेदाहर्यति । कामयते । घृतशब्दस्योदकमिति पक्शेऽग्निजातवेदः शब्द्द्भ्यां वैद्युतोऽग्निरादित्यो वा गृह्यते । तं देवमुदकधारा अभि प्रवन्त नसन्त च । स ताश्च हर्यति ॥ ८ ॥

4.58.9
क॒न्या᳚ इव वह॒तुमेत॒वा उ᳚ अ॒ञ्ज्य᳚ञ्जा॒ना अ॒भि चा᳚कशीमि ।
यत्र॒ सोमः᳚ सू॒यते॒ यत्र᳚ य॒ज्ञो घृ॒तस्य॒ धारा᳚ अ॒भि तत्प᳚वन्ते ॥
▶ पदपाठः (Word-by-word)
क॒न्याः᳚॑इव । व॒ह॒तुम् । एत॒वै । ऊं॒ इति᳚ । अ॒ञ्जि । अ॒ञ्जा॒नाः । अ॒भि । चा॒क॒शी॒मि॒ ।
यत्र᳚ । सोमः᳚ । सू॒यते᳚ । यत्र᳚ । य॒ज्ञः । घृ॒तस्य᳚ । धाराः᳚ । अ॒भि । तत् । प॒व॒न्ते॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

कन्या इवनुधा बालिका इव । ता यथा वहतुमुद्वाहं प्राप्तुमेतवा उ एतुं पतिं गन्तुमंज्यञ्जकमाभरणं तेजो वाञ्जना व्यञ्जयन्त्यः । एवं कुर्वत्यः कन्या इव स्वभर्तृभुतमाध्वरं वैद्युतं वाग्निमादित्यं वा वहतुमेतुमञ्जि व्यञ्जकं तदीयं रूपमञ्जाना व्यञ्जयन्तीर्घृतस्य धारा अभिचाकशीमि । अभिपश्यामि । घृतेनोदकेन च भ्ॐअस्य वैद्युतस्य चाग्नेः प्रज्वलनं प्रसिद्धम् । किञ्च ता धाराः सोमः सूयते यत्र यत्र चेतरो यज्ञस्तायते तत्तं यज्ञमभिलक्ष्य पवन्ते । गच्छन्ति खलु ॥ ९ ॥

4.58.10 समानपद
अ॒भ्य᳚र्षत सुष्टु॒तिं गव्य᳚मा॒जिम॒स्मासु᳚ भ॒द्रा द्रवि᳚णानि धत्त ।
इ॒मं य॒ज्ञं न᳚यत दे॒वता᳚ नो घृ॒तस्य॒ धारा॒ मधु᳚मत्पवन्ते ॥
▶ पदपाठः (Word-by-word)
अ॒भि । अ॒र्ष॒त॒ । सु॒॑स्तु॒तिम् । गव्य᳚म् । आ॒जिम् । अ॒स्मासु᳚ । भ॒द्रा । द्रवि᳚णानि । ध॒त्त॒ ।
इ॒मम् । य॒ज्ञम् । न॒य॒त॒ । दे॒वता᳚ । नः॒ । घृ॒तस्य᳚ । धाराः᳚ । मधु᳚॑मत् । प॒व॒न्ते॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे मदीया ऋत्विजो गव्यं गोसमूहरूपं गोसम्बन्धिनं वाजिं सङ्घातमभ्यर्शत । अभिगच्छत । अभिगमयत वा सुष्टुतिं शोभनां स्तुतिम् । अत्र गोशब्देनोदकानि गावो वोच्यन्ते । तत्सङ्घातोऽभिप्रेतः । अस्मासु यजमानेषु भद्रा स्तुत्यानि द्रविणानि धत्त । धारयत । स्तुत्या खलु फलम् लप्स्यते । किञ्च नोऽस्मदीयमिमं यज्ञं देवता अत्र यष्टव्यान्देवान्नयत । प्रापयत । घृतस्य धारामधुमद्यथा तथा पवन्ते । गच्छन्ति ॥ १० ॥

4.58.11
धाम᳚न्ते॒ विश्वं॒ भुव᳚न॒मधि᳚ श्रि॒तम॒न्तः स᳚मु॒द्रे हृ॒द्य१॒᳚न्तरायु᳚षि ।
अ॒पामनी᳚के समि॒थे य आभृ᳚त॒स्तम᳚श्याम॒ मधु᳚मन्तं त ऊ॒र्मिम् ॥
▶ पदपाठः (Word-by-word)
धाम᳚न् । ते॒ । विश्व᳚म् । भुव᳚नम् । अधि᳚ । श्रि॒तम् । अ॒न्तरिति᳚ । स॒मु॒द्रे । हृ॒दि । अ॒न्तः । आयु᳚षि ।
अ॒पाम् । अनी᳚के । स॒म्॑इ॒थे । यः । आ॑भृ᳚तः । तम् । अ॒श्या॒म॒ । मधु᳚॑मन्तम् । ते॒ । ऊ॒र्मिम् ॥
▶ सायणभाष्यम् (Sayana Commentary)

धामन्त इत्येषोत्तरसूक्तस्याद्या चाध्यायोत्सर्जनोपाकरनयोर्विनियुक्ते । धामन्ते विश्वमिति प्रतीकमुक्त्वा तदन्ते द्वृचाः । आ. गृ. ३-५ । इति सूत्रितत्वात् ।

ते त्वदीये धामन्धामनि तेजः स्थाने विश्वं भुवनमधिश्रितम् । अन्तः समुद्रे वडवाग्नित्वेन ह्रुद्यन्तः सर्वप्राणिनां ह्रुदये वैश्वानरत्वेनायुष्यन्ने सर्वप्राण्याहारत्वेन । यद्वा । आयुशीत्येतद्धृद्विशेशणम् । जठराग्निना खल्वायुर्धार्यते । अपामनीक उदकसंस्त्याये वैद्युताग्नित्वेन समिथे सङ्ग्रामे च शौर्याग्निरूपेण । एवं सर्वेषु स्थानेषु वर्तमानं धाम । तस्मिन्धामनि य ऊर्मिर्घृतरूपो वा रस आभृतः स्थापितः ते त्वदीयं तं रसं मधुमन्तं माधुर्योपेतमश्याम । व्याप्नुयाम ॥ ११ ॥

वेदार्थस्य प्रकाशेन तमे हार्दं निवारयन् ।
पुमार्थांश्चतुरो देयाद्विद्यातीर्थमहेश्वरः ॥