चतुर्थं मण्डलम् - सूक्तम् 23

11 ऋचः

ऋषिः: वामदेवो गौतमः देवता: इंद्रः छन्दः: त्रिष्टुप्

सूक्तम् 4.23 - सम्पूर्णम्

1 / 11
ऋक्: 4.23.1
0:00 0:00
▶ सर्वाणि ऋक्कानि (11)
4.23.1
क॒था म॒हाम᳚वृध॒त्कस्य॒ होतु᳚र्य॒ज्ञं जु᳚षा॒णो अ॒भि सोम॒मूधः᳚ ।
पिब᳚न्नुशा॒नो जु॒षमा᳚णो॒ अन्धो᳚ वव॒क्ष ऋ॒ष्वः शु᳚च॒ते धना᳚य ॥
▶ पदपाठः (Word-by-word)
क॒था । म॒हाम् । अ॒वृ॒ध॒त् । कस्य᳚ । होतुः᳚ । य॒ज्ञम् । जु॒षा॒णः । अ॒भि । सोम᳚म् । ऊधः᳚ ।
पिब᳚न् । उ॒शा॒नः । जु॒षमा᳚णः । अन्धः᳚ । व॒व॒क्षे । ऋ॒ष्वः । शु॒च॒ते । धना᳚य ॥
▶ सायणभाष्यम् (Sayana Commentary)

कथा महामित्येकादशर्चं द्वितीयं सूक्तं वामदेवस्यार्षं त्रैष्टुभमैन्द्रम् । ऋतस्य हीत्याद्यास्तिस्र ऋतदेवताका वा । तथा चानुक्रान्तम् । कथोपांत्यास्तिस्र ऋतदेव्यो वेति । आभिप्लविकेऽहनि दशरात्रे प्रथमेऽहनि माध्यन्दिनसवने मैत्रावरुणशस्त्रेऽहीनसूक्तस्य स्थान इदं तृतीयं सम्पातसूक्तम् । सूत्रितं च । कथा महामिन्द्रः पूर्भिद्य एक इत् । आ. ७-५ । इति ॥ महाव्रते निश्केवल्य एतत् । तथैव पञ्चमारण्यके शौनकेन सूत्रितं च । कथा महामवृधत्कस्य होतुरिति सम्पातः । ऐ. आ. ५-२-२- ॥ इति ॥

महां महान्तं गुणैः प्रवृद्धमिन्द्रं कथा कथं केन प्रकारेणाव्रुधत् । वर्धयेत् । अस्मत्प्रेरिता स्तुतिरिति शेशः । तस्य महिम्नोऽतिमहत्त्वादिति भावः । स एवेन्द्रो होतुर्होमनिश्पादकस्य कस्य यजमानस्य यज्ञं यागं जुशाणः प्रीयमानः सन् अभि । गच्छेदिति शेशः । उपसर्गश्रुतेरुचितक्रियाध्याहारः । किञ्च ऊध उद्धतमतिप्रव्रुद्धं सोममन्धः सोमलक्षणमन्नं पिबन्नास्वादयन् उशानस्तदेवानां कामयमानो जुशमाणः सेवमानश्च ऋष्वो महानिन्द्रः शुचते प्रदीप्ताय धनाय हिरण्यादि लक्शणाय । उक्तलक्षणं धनं कस्मै यजमानाय दातुं ववक्षे । वहति । पीतमेवान्नं जठरे धारयति । अनेन वाक्यद्वयनेन्द्रस्याचिन्त्यचरितत्वं ख्यापितं भवति ॥ १ ॥

4.23.2 समानपद
को अ᳚स्य वी॒रः स᳚ध॒माद᳚माप॒ समा᳚नंश सुम॒तिभि॒ः को अ᳚स्य ।
कद᳚स्य चि॒त्रं चि᳚किते॒ कदू॒ती वृ॒धे भु᳚वच्छशमा॒नस्य॒ यज्यो᳚ः ॥
▶ पदपाठः (Word-by-word)
कः । अ॒स्य॒ । वी॒रः । स॒ध॒॑माद᳚म् । आ॒प॒ । सम् । आ॒नं॒श॒ । सु॒म॒ति॑भिः᳚ । कः । अ॒स्य॒ ।
कत् । अ॒स्य॒ । चि॒त्रम् । चि॒कि॒ते॒ । कत् । ऊ॒ती । वृ॒धे । भु॒व॒त् । श॒श॒मा॒नस्य᳚ । यज्योः᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

अस्येन्द्रस्य सम्बन्धिनं सधमादम् । सह माद्यन्तीति सधमादः सङ्ग्रामः । तं सह सोमपानं वा वीरः स्तोत्राणाममित्राणां वा वीरयिता कः पुमानाप । प्राप्नोति । कश्चास्येन्द्रस्य सुमतिभिः शोभनाभिरनुग्रहबुद्धिभिः समानंश । सङ्गच्छते । कत्कदा वास्येन्द्रस्य चित्रं चायनीयं धनं चिकिते । प्रज्ञायते । तत्प्रदानसमयं न कोऽपि जानातीत्यर्थः । कत्कदा वा शशमानस्य स्तुवतो यज्योर्यष्तुर्यजमानस्य व्रुधे वर्धनायोती ऊत्या रक्षया भुवत् । भवेत् ॥ २ ॥

4.23.3
क॒था शृ᳚णोति हू॒यमा᳚न॒मिन्द्र᳚ः क॒था शृ॒ण्वन्नव᳚सामस्य वेद ।
का अ᳚स्य पू॒र्वीरुप᳚मातयो ह क॒थैन᳚माहु॒ः पपु᳚रिं जरि॒त्रे ॥
▶ पदपाठः (Word-by-word)
क॒था । शृ॒णो॒ति॒ । हू॒यमा᳚नम् । इन्द्रः᳚ । क॒था । शृ॒ण्वन् । अव᳚साम् । अ॒स्य॒ । वे॒द॒ ।
काः । अ॒स्य॒ । पू॒र्वीः । उप᳚॑मातयः । ह॒ । क॒था । ए॒न॒म् । आ॒हुः॒ । पपु᳚रिम् । ज॒रि॒त्रे ॥
▶ सायणभाष्यम् (Sayana Commentary)

इन्द्रः परमैश्वर्ययुक्तो हूयमानमाह्वयन्तं स्तोतारं कथा कथं शृणोति । स्तोत्राणि शृण्वन्नस्य स्तोतुः सम्बन्धीन्यवसां रक्षणानि कथा कथं च वेद । वेत्ति । पूर्वीः पुरातनान्यस्येन्द्रस्य सम्बन्धीन्युपमातयो दानानि का ह । कानि चित् सन्तीति शेषः । तानि दानानि जरित्रे स्तोतुः सम्बन्धिनां कामानां पपुरिं पूरयितारमेनमिन्द्रं कथा कथं चाहुः । वदन्ति ॥ ३ ॥

4.23.4
क॒था स॒बाधः᳚ शशमा॒नो अ᳚स्य॒ नश᳚द॒भि द्रवि᳚णं॒ दीध्या᳚नः ।
दे॒वो भु᳚व॒न्नवे᳚दा म ऋ॒तानां॒ नमो᳚ जगृ॒भ्वा{4} अ॒भि यज्जुजो᳚षत् ॥
▶ पदपाठः (Word-by-word)
क॒था । स॒॑बाधः᳚ । श॒श॒मा॒नः । अ॒स्य॒ । नश᳚त् । अ॒भि । द्रवि᳚णम् । दीध्या᳚नः ।
दे॒वः । भु॒व॒त् । नवे᳚दाः । मे॒ । ऋ॒ताना᳚म् । नमः᳚ । ज॒गृ॒भ्वान् । अ॒भि । यत् । जुजो᳚षत् ॥
▶ सायणभाष्यम् (Sayana Commentary)

स बाधः सपत्नानां पीडासहितः शशमान इन्द्रविषयां स्तुतिं कुर्वन् दीध्यानः कर्मभिर्दीप्यमानो यजमानोऽस्येन्द्रस्य सम्बन्धि द्रविणं पश्वादिधनं कथा कथमभि नशत् । अभिप्राप्नोति । नमो हविर्लक्षणमन्नं जगृभ्वान् गृहीतवानिन्द्रो यद्यदाभि जुजोशत् मामभिसेवेत तदा देवो दीप्यमान इन्द्रो मे मदीयानामृतानां स्तोत्राणां नवेदा अतिशयेन ज्ञाता भुवत् । भवेत् । अत्र निपातस्थो नकारोऽतिशयवाची ॥ ४ ॥

4.23.5
क॒था कद॒स्या उ॒षसो॒ व्यु᳚ष्टौ दे॒वो मर्त᳚स्य स॒ख्यं जु᳚जोष ।
क॒था कद᳚स्य स॒ख्यं सखि᳚भ्यो॒ ये अ᳚स्मि॒न्कामं᳚ सु॒युजं᳚ तत॒स्रे ॥
▶ पदपाठः (Word-by-word)
क॒था । कत् । अ॒स्याः । उ॒षसः᳚ । वि॑उ᳚ष्टौ । दे॒वः । मर्त᳚स्य । स॒ख्यम् । जु॒जो॒ष॒ ।
क॒था । कत् । अ॒स्य॒ । स॒ख्यम् । सखि᳚॑भ्यः । ये । अ॒स्मि॒न् । काम᳚म् । सु॒॑युज᳚म् । त॒त॒स्रे ॥
▶ सायणभाष्यम् (Sayana Commentary)

देवो द्योतमान इन्द्रोऽस्या उषसो व्युष्टौ प्रभाते मर्तस्य मर्त्यस्य मनुष्यस्य स्तोतुः सम्बन्धि सख्यं सखिकर्म कथा कथं केन प्रकारेण तत्कदा जुजोष । सेवेत । ये स्त्योतारोऽस्मिन्निन्द्रे सुयुजं सुष्ठु प्रयुज्यमानं कामं कामनीयं हविः स्तोत्रं च ततस्ते वितेनिरे अस्येन्द्रस्य सख्यं सखिकर्म सखिभ्यः कथा कथं कत्कदाचित् । भवेदिति शेशः ॥ ५ ॥

4.23.6 समानपद
किमादम᳚त्रं स॒ख्यं सखि᳚भ्यः क॒दा नु ते᳚ भ्रा॒त्रं प्र ब्र᳚वाम ।
श्रि॒ये सु॒दृशो॒ वपु᳚रस्य॒ सर्गा॒ः स्व१॒᳚र्ण चि॒त्रत᳚ममिष॒ आ गोः ॥
▶ पदपाठः (Word-by-word)
किम् । आत् । अम᳚त्रम् । स॒ख्यम् । सखि᳚॑भ्यः । क॒दा । नु । ते॒ । भ्रा॒त्रम् । प्र । ब्र॒वा॒म॒ ।
श्रि॒ये । सु॒॑दृशः᳚ । वपुः᳚ । अ॒स्य॒ । सर्गाः᳚ । स्वः᳚ । न । चि॒त्र॑त᳚मम् । इ॒षे॒ । आ । गोः ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे इन्द्र वयं यजमानास्ते त्वदीयममत्रं शत्रूनभिभावुकं सख्यं सखिकर्म सखिभ्यः स्तोतृभ्यः किमात् किं स्वित् प्र ब्रवाम । प्रकर्षेण वदेम । ते त्वदीयं भ्रात्रं भ्रातृकर्म च कदा नु कदा खलु प्र ब्रवाम । सुदृशः शोभनदर्शनस्यास्येन्द्रस्य सम्बन्धिनः सर्गा उद्योगाः श्रिये सर्वेषां स्तोतॄणां श्रेयसे । भवन्तीति शेषः । स्वर्ण सूर्यो यथा दर्शनीयतमस्तथा गोर्गन्तुरिन्द्रस्य चित्रतमं दर्शनीयतमं वपुः शरीरमेषे । आ समन्तात्सर्वैरिषुयते ॥ ६ ॥

4.23.7
द्रुहं॒ जिघां᳚सन्ध्व॒रस᳚मनि॒न्द्रां तेति᳚क्ते ति॒ग्मा तु॒जसे॒ अनी᳚का ।
ऋ॒णा चि॒द्यत्र᳚ ऋण॒या न᳚ उ॒ग्रो दू॒रे अज्ञा᳚ता उ॒षसो᳚ बबा॒धे ॥
▶ पदपाठः (Word-by-word)
द्रुह᳚म् । जिघां᳚सन् । ध्व॒रस᳚म् । अ॒नि॒न्द्राम् । तेति᳚क्ते । ति॒ग्मा । तु॒जसे᳚ । अनी᳚का ।
ऋ॒णा । चि॒त् । यत्र᳚ । ऋ॒ण॒॑याः । नः॒ । उ॒ग्रः । दू॒रे । अज्ञा᳚ताः । उ॒षसः᳚ । ब॒बा॒धे ॥
▶ सायणभाष्यम् (Sayana Commentary)

अयमिन्द्रो द्रुहं द्रोहं कर्वतीं ध्वरसं हिंसिकामनिन्द्रामिन्द्रमजानतीं राक्षसीं जिघांसन् हन्तुमिच्छन् तिग्मा तिग्मानि पूर्वमेव तीक्ष्णान्यनीकानीकान्यायुधानि तुजसे तद्वधाय तेतिक्ते । अत्यर्थं तीक्ष्णीकरोति । यत्र यासूषः सु तुदुपलक्षितेष्वहः स्वृणा चित् ऋणान्यपि नोऽस्यान्बाधन्त इति शेषः । ता उषसश्चोग्र उद्गूर्णबल ऋणया ऋणस्य हन्तेन्द्रः । यावर्वधकर्मा । दूरेऽज्ञाता अननुभूताः सतीर्बबाधे । अपीडयत् ॥ ७ ॥

4.23.8
ऋ॒तस्य॒ हि शु॒रुध॒ः सन्ति᳚ पू॒र्वीरृ॒तस्य᳚ धी॒तिर्वृ᳚जि॒नानि᳚ हन्ति ।
ऋ॒तस्य॒ श्लोको᳚ बधि॒रा त᳚तर्द॒ कर्णा᳚ बुधा॒नः शु॒चमा᳚न आ॒योः ॥
▶ पदपाठः (Word-by-word)
ऋ॒तस्य᳚ । हि । शु॒रुधः᳚ । सन्ति᳚ । पू॒र्वीः । ऋ॒तस्य᳚ । धी॒तिः । वृ॒जि॒नानि᳚ । ह॒न्ति॒ ।
ऋ॒तस्य᳚ । श्लोकः᳚ । ब॒धि॒रा । त॒त॒र्द॒ । कर्णा᳚ । बु॒धा॒नः । शु॒चमा᳚नः । आ॒योः ॥
▶ सायणभाष्यम् (Sayana Commentary)

ऋतपेयनाम्न्येकाहे मरुत्वतीयनिष्केवल्यशस्त्रौयोर्निविद्धानात्पुरस्तादृतस्य हीत्येतदादिके द्वे ऋचौ क्रमेण शंसनीये । सूत्रितं च । ऋतस्य हि शुरुधः सन्ति पूर्वीरिति सूक्तमुखीये । आ. ९-७ । इयि ॥

अत्र ऋतशब्देनेन्द्रो वादित्यो वा सत्यं वा यज्ञो वोच्यते । ऋतस्य ऋतदेवस्य सम्बन्धिन्यः पूर्वीर्बह्व्यः शुरुध आपः सन्ति हि । भवन्ति खलु । ऋतस्य ऋतदेवस्य सम्बन्धिनी धीतिः प्रज्ञा तद्विषया स्तुतिर्वा वृजिनानि वर्जनीयानि पापानि हन्ति । हिनस्ति । ऋतस्य ऋतदेवस्य सम्बन्धिनी श्लोकः स्तुतिरूपा वागायोर्गन्तुर्मनुश्यस्य सम्बन्धिनौ बधिरा बधिरौ प्रतिबद्धौ कर्णा कर्णाकर्णौ ततर्द । तृणत्ति । कीदृशः श्लोकः । बुधानो बुध्यमानः शुचमानो दीप्यमानः ॥ ८ ॥

4.23.9
ऋ॒तस्य᳚ दृ॒ळ्हा ध॒रुणा᳚नि सन्ति पु॒रूणि᳚ च॒न्द्रा वपु᳚षे॒ वपूं᳚षि ।
ऋ॒तेन᳚ दी॒र्घमि᳚षणन्त॒ पृक्ष᳚ ऋ॒तेन॒ गाव᳚ ऋ॒तमा वि᳚वेशुः ॥
▶ पदपाठः (Word-by-word)
ऋ॒तस्य᳚ । दृ॒ळ्हा । ध॒रुणा᳚नि । स॒न्ति॒ । पु॒रूणि᳚ । च॒न्द्रा । वपु᳚षे । वपूं᳚षि ।
ऋ॒तेन᳚ । दी॒र्घम् । इ॒ष॒ण॒न्त॒ । पृक्षः᳚ । ऋ॒तेन᳚ । गावः᳚ । ऋ॒तम् । आ । वि॒वे॒शुः॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

वपुषे वपुश्मतः । षष्ठ्यर्थे चतुर्थी । ऋतस्य ऋतदेवस्य सम्बन्धीनि दृळ्हा दृढानि धरुणानि धारकाणि पुरूणि बहूनि चन्द्रा चन्द्राण्याह्लादकानि वपूंषि रूपाणि सन्ति । भवन्ति । ऋतेन ऋतदेवेन दीर्घमत्यधिकं पृक्षोऽन्नमिशणन्त । स्तोतार इच्छन्ति । ऋतेन ऋतदेवेन गावो धेनव ऋतं यज्ञम् दक्षिणात्वेना विवेशुः । प्रविशन्ति । यद्वा । गावो रश्मय ऋतमुदकमा विवेशुः ॥ ९ ॥

4.23.10
ऋ॒तं ये᳚मा॒न ऋ॒तमिद्व᳚नोत्यृ॒तस्य॒ शुष्म᳚स्तुर॒या उ᳚ ग॒व्युः ।
ऋ॒ताय᳚ पृ॒थ्वी ब᳚हु॒ले ग᳚भी॒रे ऋ॒ताय᳚ धे॒नू प᳚र॒मे दु᳚हाते ॥
▶ पदपाठः (Word-by-word)
ऋ॒तम् । ये॒मा॒नः । ऋ॒तम् । इत् । व॒नो॒ति॒ । ऋ॒तस्य᳚ । शुष्मः᳚ । तु॒र॒॑याः । ऊं॒ इति᳚ । ग॒व्युः ।
ऋ॒ताय᳚ । पृ॒थ्वी इति᳚ । ब॒हु॒ले इति᳚ । ग॒भी॒रे इति᳚ । ऋ॒ताय᳚ । धे॒नू इति᳚ । प॒र॒मे इति᳚ । दु॒हा॒ते॒ इति᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

ऋतमृतदेवं येमानो नियच्छन् स्तुतिभिर्वशीकुर्वन् स्तोता ऋतमित् ऋतदेवमेव वनोति । सम्भजते । ऋतस्य ऋतदेवस्य सम्बन्धि शुष्मो बलं तुरयास्तूर्णम् गव्युः । उ इति चार्थे । जलकामश्च भवति । बहुले विस्तीर्णे गभीरे दुरवगाहे पृथ्वी च्यावापृथिव्यावृताय ऋतदेवाय भवतः । धेनू प्रीणयित्र्यौ परमे उत्कृष्टे द्यावापृथिव्यावृताय ऋतदेवायैव दुहाते । दोहनं कुर्वाते ॥ १० ॥

4.23.11
नू ष्टु॒त इ᳚न्द्र॒ नू गृ᳚णा॒न इषं᳚ जरि॒त्रे न॒द्यो॒३॒᳚ न पी᳚पेः ।
अका᳚रि ते हरिवो॒ ब्रह्म॒ नव्यं᳚ धि॒या स्या᳚म र॒थ्य᳚ः सदा॒साः ॥
▶ पदपाठः (Word-by-word)
नु । स्तु॒तः । इ॒न्द्र॒ । नु । गृ॒णा॒नः । इष᳚म् । ज॒रि॒त्रे । न॒द्यः᳚ । न । पी॒पे॒रिति᳚ पीपेः ।
अका᳚रि । ते॒ । ह॒रि॒॑वः॒ । ब्रह्म᳚ । नव्य᳚म् । धि॒या । स्या॒म॒ । र॒थ्यः᳚ । स॒दा॒॑साः ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे इन्द्र नु क्षिप्रं स्तुतः पूर्वैरृषिभिः संस्तुतो नु क्षिप्रं गृणानोऽस्माभिः स्तूयमानस्त्वमिषमन्नं जरित्रे स्तोत्रे मह्यं नद्यो नाद्भिर्नदीरिव पीपेः । प्यायय । प्रवृद्धं कुरु । हे हरिवो हरिसंज्ञकाश्वोपेतेन्द्र ते तुभ्यं नव्यं नवतरं ब्रह्मस्तोत्रमकारि । अस्माभिः क्रियते । रथ्यो रथवन्तो वयं धिया प्रज्ञारूपया स्तुत्या सदासास्त्वां सर्वदा भजमानास्त्वदर्थं हवीरूपस्यान्नस्य दातारो वा स्याम । भूयास्म ॥ ११ ॥