श्रवणम्

4.23.10
ऋ॒तं ये᳚मा॒न ऋ॒तमिद्व᳚नोत्यृ॒तस्य॒ शुष्म᳚स्तुर॒या उ᳚ ग॒व्युः ।
ऋ॒ताय᳚ पृ॒थ्वी ब᳚हु॒ले ग᳚भी॒रे ऋ॒ताय᳚ धे॒नू प᳚र॒मे दु᳚हाते ॥
▶ पदपाठः (Word-by-word)
ऋ॒तम् । ये॒मा॒नः । ऋ॒तम् । इत् । व॒नो॒ति॒ । ऋ॒तस्य᳚ । शुष्मः᳚ । तु॒र॒॑याः । ऊं॒ इति᳚ । ग॒व्युः ।
ऋ॒ताय᳚ । पृ॒थ्वी इति᳚ । ब॒हु॒ले इति᳚ । ग॒भी॒रे इति᳚ । ऋ॒ताय᳚ । धे॒नू इति᳚ । प॒र॒मे इति᳚ । दु॒हा॒ते॒ इति᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

ऋतमृतदेवं येमानो नियच्छन् स्तुतिभिर्वशीकुर्वन् स्तोता ऋतमित् ऋतदेवमेव वनोति । सम्भजते । ऋतस्य ऋतदेवस्य सम्बन्धि शुष्मो बलं तुरयास्तूर्णम् गव्युः । उ इति चार्थे । जलकामश्च भवति । बहुले विस्तीर्णे गभीरे दुरवगाहे पृथ्वी च्यावापृथिव्यावृताय ऋतदेवाय भवतः । धेनू प्रीणयित्र्यौ परमे उत्कृष्टे द्यावापृथिव्यावृताय ऋतदेवायैव दुहाते । दोहनं कुर्वाते ॥ १० ॥