श्रवणम्

4.23.9
ऋ॒तस्य᳚ दृ॒ळ्हा ध॒रुणा᳚नि सन्ति पु॒रूणि᳚ च॒न्द्रा वपु᳚षे॒ वपूं᳚षि ।
ऋ॒तेन᳚ दी॒र्घमि᳚षणन्त॒ पृक्ष᳚ ऋ॒तेन॒ गाव᳚ ऋ॒तमा वि᳚वेशुः ॥
▶ पदपाठः (Word-by-word)
ऋ॒तस्य᳚ । दृ॒ळ्हा । ध॒रुणा᳚नि । स॒न्ति॒ । पु॒रूणि᳚ । च॒न्द्रा । वपु᳚षे । वपूं᳚षि ।
ऋ॒तेन᳚ । दी॒र्घम् । इ॒ष॒ण॒न्त॒ । पृक्षः᳚ । ऋ॒तेन᳚ । गावः᳚ । ऋ॒तम् । आ । वि॒वे॒शुः॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

वपुषे वपुश्मतः । षष्ठ्यर्थे चतुर्थी । ऋतस्य ऋतदेवस्य सम्बन्धीनि दृळ्हा दृढानि धरुणानि धारकाणि पुरूणि बहूनि चन्द्रा चन्द्राण्याह्लादकानि वपूंषि रूपाणि सन्ति । भवन्ति । ऋतेन ऋतदेवेन दीर्घमत्यधिकं पृक्षोऽन्नमिशणन्त । स्तोतार इच्छन्ति । ऋतेन ऋतदेवेन गावो धेनव ऋतं यज्ञम् दक्षिणात्वेना विवेशुः । प्रविशन्ति । यद्वा । गावो रश्मय ऋतमुदकमा विवेशुः ॥ ९ ॥