द॒दिर्हि वी॒रो गृ᳚ण॒ते वसू᳚नि॒ स गोप᳚तिर्नि॒ष्षिधां᳚ नो जनासः ॥
पदपाठः (Word-by-word)
द॒दिः । हि । वी॒रः । गृ॒ण॒ते । वसू᳚नि । सः । गो॑प᳚तिः । निः॒॑सिधा᳚म् । नः॒ । ज॒ना॒सः॒ ॥
सायणभाष्यम् (Sayana Commentary)
का सुष्टुतिरित्येकादशर्चं तृतीयं सूक्तं वामदेवस्यार्षमैन्द्रम् । दशम्यनुष्तुप् शिष्टास्त्रिष्टुभः । तथा चानुक्रमणिका । का सुष्टुतिरुपान्त्यानुष्टुबिति । विनियोगो लैङ्गिकः ॥
का कीदृशी सुष्टुतिः शवसः सूनुं बलस्य पुत्रम् । अतिबलिनमित्यर्थः । अर्वाचीनमस्मदभिमुखमिन्द्रं परमैश्वर्ययुक्तं राधसे धनायास्मभ्यं धनं दातुमाववर्तत् । आवर्तयेत् । हे जनासो जना यजमाना वीरो विक्रान्तो गोपतिः पश्वादिधनस्य पालकः स इन्द्रो निष्षिधां निष्षेद्धॄणां शत्रूणां सम्बन्धीनि वसूनि धनानि गृणते गृणद्भ्यः स्तोतृभ्यो नोऽस्मभ्यं ददिर्हि । दाता खलु भवति ॥ १ ॥