श्रवणम्

4.24.5 समानपद
आदिद्ध॒ नेम᳚ इन्द्रि॒यं य᳚जन्त॒ आदित्प॒क्तिः पु᳚रो॒ळाशं᳚ रिरिच्यात् ।
आदित्सोमो॒ वि प᳚पृच्या॒दसु᳚ष्वी॒नादिज्जु᳚जोष वृष॒भं यज᳚ध्यै ॥
▶ पदपाठः (Word-by-word)
आत् । इत् । ह॒ । नेमे᳚ । इ॒न्द्रि॒यम् । य॒ज॒न्ते॒ । आत् । इत् । प॒क्तिः । पु॒रो॒ळाश᳚म् । रि॒रि॒च्या॒त् ।
आत् । इत् । सोमः᳚ । वि । प॒पृ॒च्या॒त् । असु᳚स्वीन् । आत् । इत् । जु॒जो॒ष॒ । वृ॒ष॒भम् । यज᳚ध्यै ॥
▶ सायणभाष्यम् (Sayana Commentary)

आदित्तदानीमेव युद्धकाले नेमेऽन्ये योधा इन्द्रियं बलवन्तमिन्द्रं यजन्ते ह । पूजयन्ति खलु । कश्चिदादिदनन्तरमेव पुरोळाशं पिष्तरूपं हविः पक्तिः पचन् रिरिच्यात् । इन्द्राय दद्यात् । आदिदनन्तरमेव सोमोऽभिषुतसोमो यजमानोऽसुष्वीननभिषुतसोमान्यजमानान्वि पपृच्यात् । धनैः पृथक्कुर्यात् । आदिदनन्तरमेव कश्चिद्व्रुषभं कामानां वर्षितारमिन्द्रं यजध्यै यष्टुं जुजोश । सेवते ॥ ५ ॥