श्रवणम्

4.24.8
य॒दा स᳚म॒र्यं व्यचे॒दृघा᳚वा दी॒र्घं यदा॒जिम॒भ्यख्य᳚द॒र्यः ।
अचि᳚क्रद॒द्वृष᳚णं॒ पत्न्यच्छा᳚ दुरो॒ण आ निशि᳚तं सोम॒सुद्भि᳚ः ॥
▶ पदपाठः (Word-by-word)
य॒दा । स॒॑म॒र्यम् । वि । अचे᳚त् । ऋघा᳚वा । दी॒र्घम् । यत् । आ॒जिम् । अ॒भि । अख्य᳚त् । अ॒र्यः ।
अचि᳚क्रदत् । वृष᳚णम् । पत्नी᳚ । अच्छ᳚ । दु॒रो॒णे । आ । नि॑शि᳚तम् । सो॒म॒सुत्॑भिः᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

यदा ऋघावा शत्रूणां हिंसक इन्द्रः समर्यं सह मर्तव्यं शत्रुं व्युचेत् व्यज्ञासीत् विशेषेण जानीयात् । यद्यादार्यः स्वामीन्द्रो दीर्घमत्यधिकमाजिं सङ्ग्राममभ्यख्यत् अभिपश्येत् तदा तस्येन्द्रस्य पत्नी दुरोणे यज्ञगृहे सोमसुद्भिः सोमं सुन्वद्भिरृत्विग्भिर्निशितं तीक्ष्णीकृतम् । सोमपानेनोत्साहवन्तमित्यर्थः । वृषणं कामानां वर्षितारमिन्द्रमच्छाभि आचिक्रदत् । आक्रन्दति । आह्वयते ॥ ८ ॥