चतुर्थं मण्डलम् - सूक्तम् 48

5 ऋचः

ऋषिः: वामदेवो गौतमः देवता: वायुः छन्दः: अनुष्टुप्

सूक्तम् 4.48 - सम्पूर्णम्

1 / 5
ऋक्: 4.48.1
0:00 0:00
▶ सर्वाणि ऋक्कानि (5)
4.48.1 समानपद
वि॒हि होत्रा॒ अवी᳚ता॒ विपो॒ न रायो᳚ अ॒र्यः ।
वाय॒वा च॒न्द्रेण॒ रथे᳚न या॒हि सु॒तस्य᳚ पी॒तये᳚ ॥
▶ पदपाठः (Word-by-word)
वि॒हि । होत्रा᳚ । अवी᳚ताः । विपः᳚ । न । रायः᳚ । अ॒र्यः ।
वायो॒ इति᳚ । आ । च॒न्द्रेण᳚ । रथे᳚न । या॒हि । सु॒तस्य᳚ । पी॒तये᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

विहि होत्रा इति पञ्चर्चं तृतीयं सूक्तं वामदेव्यं वायव्यम् । अत्रानुक्रमणिका । विहि पञ्च वायव्यमिति । सूक्तविनियोगो लैङ्गिकः । आद्या दशरात्रे चतुर्थेऽहनि प्रौगशस्त्रे वायव्यतृचस्य द्वितीया । तथा च सूत्रितम् । विहि होत्रा अवीता वायो शतं हरीणाम् । आ. ७-११ । इति ॥

हे वायो विहि । वीहि । भक्षय । होत्रा होमसाधिकाः सोमाहुतीरविता अन्यैः पूर्वमभक्षिता विपो न शत्रूणां वेपयिता राजेव । किञ्चार्यः सोत्तुर्मम रायो धनानि सम्पादयेति शेषः । हे वायो चन्द्रेणाह्लादकेन रथेनायाहि सुतस्य सोमस्य पीतये पानाय ॥ १ ॥

4.48.2
नि॒र्यु॒वा॒णो अश᳚स्तीर्नि॒युत्वा{4}॒ इन्द्र᳚सारथिः ।
वाय॒वा च॒न्द्रेण॒ रथे᳚न या॒हि सु॒तस्य᳚ पी॒तये᳚ ॥
▶ पदपाठः (Word-by-word)
निः॒॑यु॒वा॒नः । अश᳚स्तीः । नि॒युत्वा᳚न् । इन्द्र᳚॑सारथिः ।
वायो॒ इति᳚ । आ । च॒न्द्रेण᳚ । रथे᳚न । या॒हि । सु॒तस्य᳚ । पी॒तये᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे वायो त्वमशस्तीरभिशस्तीर्निर्युवाणो निःशेषेण नियोजयन्नियुत्वान्नियुत्संज्ञकाश्ववानिन्द्रसारथिरिन्द्र सहायः सन् आ याहि ॥ २ ॥

4.48.3
अनु᳚ कृ॒ष्णे वसु᳚धिती ये॒माते᳚ वि॒श्वपे᳚शसा ।
वाय॒वा च॒न्द्रेण॒ रथे᳚न या॒हि सु॒तस्य᳚ पी॒तये᳚ ॥
▶ पदपाठः (Word-by-word)
अनु᳚ । कृ॒ष्णे इति᳚ । वसु᳚धिती॒ इति॒ वसु᳚॑धिती । ये॒माते॒ इति᳚ । वि॒श्व॑पे᳚शसा ।
वायो॒ इति᳚ । आ । च॒न्द्रेण᳚ । रथे᳚न । या॒हि । सु॒तस्य᳚ । पी॒तये᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

कृष्णे कृष्णवर्णे वसुधिती वसूनां धात्र्यौ विश्वपेशसा विश्वरूपे द्यावापृथिव्यौ त्वामनु येमाते । अनुगच्छतः ॥ ३ ॥

4.48.4
वह᳚न्तु त्वा मनो॒युजो᳚ यु॒क्तासो᳚ नव॒तिर्नव᳚ ।
वाय॒वा च॒न्द्रेण॒ रथे᳚न या॒हि सु॒तस्य᳚ पी॒तये᳚ ॥
▶ पदपाठः (Word-by-word)
वह᳚न्तु । त्वा॒ । म॒नः॒॑युजः᳚ । यु॒क्तासः᳚ । न॒व॒तिः । नव᳚ ।
वायो॒ इति᳚ । आ । च॒न्द्रेण᳚ । रथे᳚न । या॒हि । सु॒तस्य᳚ । पी॒तये᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे वायो त्वा त्वां मनोयुजो मनःसमानगतयो युक्तासः परस्परसंयुक्ता नवतिर्नव नवोत्तरनवतिसङ्ख्याका अश्वा वहन्तु । धारयन्तु ॥ ४ ॥

4.48.5
वायो᳚ श॒तं हरी᳚णां यु॒वस्व॒ पोष्या᳚णाम् ।
उ॒त वा᳚ ते सह॒स्रिणो॒ रथ॒ आ या᳚तु॒ पाज᳚सा ॥
▶ पदपाठः (Word-by-word)
वायो॒ इति᳚ । श॒तम् । हरी᳚णाम् । यु॒वस्व᳚ । पोष्या᳚णाम् ।
उ॒त । वा॒ । ते॒ । स॒ह॒स्रिणः᳚ । रथः᳚ । आ । या॒तु॒ । पाज᳚सा ॥
▶ सायणभाष्यम् (Sayana Commentary)

वायो शतमिति पञ्चमी पूर्वोक्त एव तृचे तृतीया । सूत्रं पूर्वमेवोक्तम् ।

हे वायो त्वं पोष्याणां पोषणीयानां हरीणां शतं युवस्व । योजय रथे । उत वा अथवा ते सहस्रिणः सहस्रसङ्ख्यापूरका अश्वाः । तैर्युक्तो रथः पाजसा बलेना यातु । आगच्छतु ॥ ५ ॥