चतुर्थं मण्डलम् - सूक्तम् 36

9 ऋचः

ऋषिः: वामदेवो गौतमः देवता: ऋभवः छन्दः: जगती

सूक्तम् 4.36 - सम्पूर्णम्

1 / 9
ऋक्: 4.36.1
0:00 0:00
▶ सर्वाणि ऋक्कानि (9)
4.36.1
अ॒न॒श्वो जा॒तो अ᳚नभी॒शुरु॒क्थ्यो॒३॒᳚ रथ᳚स्त्रिच॒क्रः परि᳚ वर्तते॒ रजः᳚ ।
म॒हत्तद्वो᳚ दे॒व्य᳚स्य प्र॒वाच᳚नं॒ द्यामृ᳚भवः पृथि॒वीं यच्च॒ पुष्य᳚थ ॥
▶ पदपाठः (Word-by-word)
अ॒न॒श्वः । जा॒तः । अ॒न॒भी॒शुः । उ॒क्थ्यः᳚ । रथः᳚ । त्रि॒॑च॒क्रः । परि᳚ । व॒र्त॒ते॒ । रजः᳚ ।
म॒हत् । तत् । वः॒ । दे॒व्य᳚स्य । प्र॒॑वाच᳚नम् । द्याम् । ऋ॒भ॒वः॒ । पृ॒थि॒वीम् । यत् । च॒ । पुष्य᳚थ ॥
▶ सायणभाष्यम् (Sayana Commentary)

अनश्वो जात इति नवर्चं चतुर्थं सूक्तमार्भवम् । ऋषिर्वामदेवः । अन्त्या त्रिष्टुप् शिष्टास्त्रिष्टुबन्तपरिभाषया जगत्यः । अनश्वोऽन्त्या त्रिष्तुबित्यनुक्रमणिका । आभिप्लविके तृतीयेऽहनि वैश्वदेवशस्त्र आर्भवनिविद्धानीयमिदम् । तथा च सूत्रितम् । आनश्वो जातः परावतो य इति वैश्वदेवम् । आ. ७-७ । इति ॥

हे ऋभवोऽश्विनोः सम्बन्धी युष्मद्धत्तो रथोऽनश्वो जातो वाहनाश्वनिरपेक्षः सम्पन्नः । तथानभीशुः प्रग्रहरहित उक्थ्यः स्तुत्यस्त्रिचक्रश्चक्रत्रययुक्तः सन् रजोऽन्तरिक्षं परि वर्तते । परिभ्रमति । महत्प्रभूतं तद्रथनिर्माणाख्यं कर्म वो युश्माकं देव्यस्य देवत्वस्य प्रवाचनं प्रवक्तृ प्रख्यापकम् । यच्च येन कर्मणा द्यां पृथिवीं च पुष्यथ । पुष्टां कुरुथ ॥ १ ॥

4.36.2
रथं॒ ये च॒क्रुः सु॒वृतं᳚ सु॒चेत॒सो॑वि᳚ह्वरन्तं॒ मन᳚स॒स्परि॒ ध्यया᳚ ।
ता{4} ऊ॒ न्व१॒᳚स्य सव᳚नस्य पी॒तय॒ आ वो᳚ वाजा ऋभवो वेदयामसि ॥
▶ पदपाठः (Word-by-word)
रथ᳚म् । ये । च॒क्रुः । सु॒॑वृत᳚म् । सु॒॑चेत᳚सः । अवि᳚॑ह्वरन्तम् । मन᳚सः । परि᳚ । ध्यया᳚ ।
तान् । ऊं॒ इति᳚ । नु । अ॒स्य । सव᳚नस्य । पी॒तये᳚ । आ । वः॒ । वा॒जाः॒ । ऋ॒भ॒वः॒ । वे॒द॒या॒म॒सि॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

सुचेतसः शोभनचित्ता य ऋभवः सुवृतं सुवर्तनचक्रमविह्वरन्तमकुटिलं रथं मनसः परि ध्यया मनसो ध्यानेनाप्रयत्नेन नु क्शिप्रं चक्रुः तान् । उशब्द एवार्थे । तानेवास्य सवनस्य पीतय एतं सोमं पातुं हे वाजा हे ऋभवो वो युष्माना वेदयामसि । आवेदयामः ॥ २ ॥

4.36.3 समानपद
तद्वो᳚ वाजा ऋभवः सुप्रवाच॒नं दे॒वेषु᳚ विभ्वो अभवन्महित्व॒नम् ।
जिव्री॒ यत्सन्ता᳚ पि॒तरा᳚ सना॒जुरा॒ पुन॒र्युवा᳚ना च॒रथा᳚य॒ तक्ष᳚थ ॥
▶ पदपाठः (Word-by-word)
तत् । वः॒ । वा॒जाः॒ । ऋ॒भ॒वः॒ । सु॒॑प्र॒वा॒च॒नम् । दे॒वेषु᳚ । वि॒॑भ्वः॒ । अ॒भ॒व॒त् । म॒हि॒॑त्व॒नम् ।
जिव्री॒ इति᳚ । यत् । सन्ता᳚ । पि॒तरा᳚ । स॒ना॒॑जुरा᳚ । पुनः᳚ । युवा᳚ना । च॒रथा᳚य । तक्ष᳚थ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे वाजा ऋभवो हे विभ्वो विभवः । इत्ररपेक्शया परस्परं बहुवचनमित्युक्तम् । वो युष्माकं तन्महित्वनं महत्त्वं महात्म्यं देवेषु मध्ये सुप्रवाचनं प्रवाच्यमभवत् । तदित्युक्तं यदित्याह । जिव्री वृद्धौ सन्ता सन्तौ सनाजुरा सदा जीर्णौ सन्तौ पितरा पितरौ पुनर्युवाना नित्यतरुणौ चरथाय यथेच्छं सञ्चरणाय तक्षथ । सम्पादितवन्तः ॥ ३ ॥

4.36.4 समानपद
एकं॒ वि च᳚क्र चम॒सं चतु᳚र्वयं॒ निश्चर्म᳚णो॒ गाम᳚रिणीत धी॒तिभि᳚ः ।
अथा᳚ दे॒वेष्व᳚मृत॒त्वमा᳚नश श्रु॒ष्टी वा᳚जा ऋभव॒स्तद्व᳚ उ॒क्थ्य᳚म् ॥
▶ पदपाठः (Word-by-word)
एक᳚म्् । वि । च॒क्र॒ । च॒म॒सम् । चतुः᳚॑वयम् । निः । चर्म᳚णः । गाम् । अ॒रि॒णी॒त॒ । धी॒ति॑भिः᳚ ।
अथ᳚ । दे॒वेषु᳚ । अ॒मृ॒त॒॑त्वम् । आ॒न॒श॒ । श्रु॒ष्टी । वा॒जाः॒ । ऋ॒भ॒वः॒ । तत् । वः॒ । उ॒क्थ्य᳚म् ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे ऋभव एकं चमसमेकवेव सन्तं पानसाधनं चमसं चतुर्वयम् । वयाः शाखाः । चतुः शाखं चतुरवयवं वि चक्र । व्यकुरुत । तथा धीतिभिः कर्मभिश्चर्मणो नूतनां गां निररिणीत । समस्कुरुत । निरित्येष समित्येतस्य स्थाने । अथ अतः कारणात् देवेषु मध्येऽम्रुतत्वमानश । प्राप्नुत । हे वाज हे ऋभवस्तत्तादृशं वो युष्माकं कर्म । श्रुष्टीति क्शिप्रनामैतत् । क्शिप्रमुक्थ्यं स्तुत्यं भवति ॥ ४ ॥

4.36.5
ऋ॒भु॒तो र॒यिः प्र᳚थ॒मश्र᳚वस्तमो॒ वाज᳚श्रुतासो॒ यमजी᳚जन॒न्नरः᳚ ।
वि॒भ्व॒त॒ष्टो वि॒दथे᳚षु प्र॒वाच्यो॒ यं दे᳚वा॒सो॑व᳚था॒ स विच᳚र्षणिः ॥
▶ पदपाठः (Word-by-word)
ऋ॒भु॒तः । र॒यिः । प्र॒थ॒मश्र᳚वः॑तमः । वाज᳚॑श्रुतासः । यम् । अजी᳚जनन् । नरः᳚ ।
वि॒भ्व॒॑त॒ष्टः । वि॒दथे᳚षु । प्र॒॑वाच्यः᳚ । यम् । दे॒वा॒सः॒ । अव᳚थ । सः । वि॑च᳚र्षणिः ॥
▶ सायणभाष्यम् (Sayana Commentary)

ऋभन्त ऋभूणां सकाशात्प्रथमश्रवस्तमः प्रथमं मुख्यमतिशयितमन्नं यशो वा यस्य धनस्य तद्रयिर्धनम् । अस्माकं भवत्विति शेषः । वाजश्रुतासो वाजैः सह विख्याता नरो नेतार ऋभवो यं रयिमजीजनन् । उत्पादितवन्तः । विभ्वतष्टो विभ्वभिर्यभुभिस्तष्टस्तक्षनसम्पन्नश्चमसोऽश्विनो रथो वा विदथेषु यज्ञेषु प्रवाच्यः । प्रकर्षेण स्तुत्यः । हे देवासो द्योतमाना यूयं यं रथं चमसं वावथ । रक्शथ । स विचर्षणिर्विविधं द्रष्टा भवति । द्रष्टव्यो भवतीत्यर्थः ॥ ५ ॥

4.36.6
स वा॒ज्यर्वा॒ स ऋषि᳚र्वच॒स्यया॒ स शूरो॒ अस्ता॒ पृत᳚नासु दु॒ष्टरः᳚ ।
स रा॒यस्पोषं॒ स सु॒वीर्यं᳚ दधे॒ यं वाजो॒ विभ्वा{4}᳚ ऋ॒भवो॒ यमावि᳚षुः ॥
▶ पदपाठः (Word-by-word)
सः । वा॒जी । अर्वा᳚ । सः । ऋषिः᳚ । व॒च॒स्यया᳚ । सः । शूरः᳚ । अस्ता᳚ । पृत᳚नासु । दु॒स्तरः᳚ ।
सः । रा॒यः । पोष᳚म् । सः । सु॒॑वीर्य᳚म् । द॒धे॒ । यम् । वाजः᳚ । वि॑भ्वा᳚ । ऋ॒भवः᳚ । यम् । आवि᳚षुः ॥
▶ सायणभाष्यम् (Sayana Commentary)

स वाजी वेजनवान् बलवान् सन् अर्वारनकुशलो भवति । स ऋषिरतीन्द्रियज्ञानी सन् वचस्यया स्तुत्या युक्तो भवति । स शूरो विक्रान्तः सन् अस्ता क्षेप्ता शत्रूणां भवति । स्वयं च पृतनासु सङ्ग्रामेषु दुष्टरो नाभिभाव्यो भवति । स एव रायस्पोषं धनपुष्टिं दधे । धत्ते । स सुवीर्यं सुवीरत्वं दधे । धत्ते । यं मनुष्यं वाजो विभ्वा ऋभवश्चाविषुः । अरक्षन् । स एवमेवं भवतीति । अन्त्यस्य बहुवन्निर्देशस्त्रयाणामृभुव्यवहारप्राचुर्याभिप्रायः ॥ ६ ॥

4.36.7 समानपद
श्रेष्ठं᳚ व॒ः पेशो॒ अधि᳚ धायि दर्श॒तं स्तोमो᳚ वाजा ऋभव॒स्तं जु᳚जुष्टन ।
धीरा᳚सो॒ हि ष्ठा क॒वयो᳚ विप॒श्चित॒स्तान्व᳚ ए॒ना ब्रह्म॒णा वे᳚दयामसि ॥
▶ पदपाठः (Word-by-word)
श्रेष्ठ᳚म् । वः॒ । पेशः᳚ । अधि᳚ । धा॒यि॒ । द॒र्श॒तम् । स्तोमः᳚ । वा॒जाः॒ । ऋ॒भ॒वः॒ । तम् । जु॒जु॒ष्ट॒न॒ ।
धीरा᳚सः । हि । स्थ । क॒वयः᳚ । वि॒पः॒॑चितः᳚ । तान् । वः॒ । ए॒ना । ब्रह्म᳚णा । आ । वे॒द॒या॒म॒सि॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

श्रेष्ठमत्युत्कृष्टमत एव दर्शतं दर्शनीयं वो युष्माकं पेशो रूपमधि धायि । अधिनिहितम् । अतस्तदुचितो यः स्तोमः स्तोत्रमस्मत्कृतमस्ति हे वाजा ऋभवस्तं स्तोमं स्तोत्रं जुजुष्टन । सेवध्वम् । ये यूयं धीरासो हि धीमन्तः प्रसिद्धाः कवयो मेधाविनो विपश्चितो ज्ञानवन्तः स्थ तान्वो युष्मानेनैनेन ब्रह्मणा मन्त्रेण शस्त्रात्मकेना वेदयामसि । अथवोक्तलक्शना विपश्चितः स्तोतारो यान् । स्तुवन्तीति शेशः । तान्ब्रह्मणा आ वेदयामसि । प्रज्ञापयामः ॥ ७ ॥

4.36.8
यू॒यम॒स्मभ्यं᳚ धि॒षणा᳚भ्य॒स्परि᳚ वि॒द्वांसो॒ विश्वा॒ नर्या᳚णि॒ भोज᳚ना ।
द्यु॒मन्तं॒ वाजं॒ वृष᳚शुष्ममुत्त॒ममा नो᳚ र॒यिमृ᳚भवस्तक्ष॒ता वयः᳚ ॥
▶ पदपाठः (Word-by-word)
यू॒यम् । अ॒स्मभ्य᳚म् । धि॒षणा᳚भ्यः । परि᳚ । वि॒द्वांसः᳚ । विश्वा᳚ । नर्या᳚णि । भोज᳚ना ।
द्यु॒॑मन्त᳚म् । वाज᳚म् । वृष᳚॑शुष्मम् । उ॒त्॑त॒मम् । आ । नः॒ । र॒यिम् । ऋ॒भ॒वः॒ । त॒क्ष॒त॒ । आ । वयः᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हेऋभवो यूयमस्मभ्यं धिषणाभ्यस्परि स्तुतिभ्यो निमित्तभुताभ्यः । परीति पञ्चम्यर्थानुवादी । यद्वा । अस्मन्मतिभ्योऽधिकानि नर्यानि नृभ्यो हितानि विश्वा सर्वाणि भोजना भोग्यानि विद्वांसो जानन्तः सन्त आ तक्षत । सम्पादयत । किञ्च द्युमन्तं दीप्तिमन्तं हिरण्यादिरूपं वाजं बलवन्तं वृषशुष्मं सेक्तॄणां बलवतां शोषकमुत्तमं रयिं नोऽस्माकं वयोऽन्नं चा तक्षत हे ऋभवः ॥ ८ ॥

4.36.9
इ॒ह प्र॒जामि॒ह र॒यिं ररा᳚णा इ॒ह श्रवो᳚ वी॒रव᳚त्तक्षता नः ।
येन᳚ व॒यं चि॒तये॒मात्य॒न्यान्तं वाजं᳚ चि॒त्रमृ᳚भवो ददा नः ॥
▶ पदपाठः (Word-by-word)
इ॒ह । प्र॒॑जाम् । इ॒ह । र॒यिम् । ररा᳚णाः । इ॒ह । श्रवः᳚ । वी॒र॑व᳚त् । त॒क्ष॒त॒ । नः॒ ।
येन᳚ । व॒यम् । चि॒तये᳚म । अति᳚ । अ॒न्यान् । तम् । वाज᳚म् । चि॒त्रम् । ऋ॒भ॒वः॒ । द॒द॒ । नः॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

नो अस्माकमिह यज्ञे रराणा रममानाः प्रजां पुत्रपौत्रादिरूपां तक्षत । सम्पादयत । इहैव यज्ञे रयिं च तक्षत । इहैव यज्ञे श्रवो यशो वीरवद्वीरैर्भृत्यादिभिरुपेतं तक्षत । किञ्च वयं येन वाजेनान्यानस्मत्समानति चितयेम । अतिक्रम्य ज्ञायेमहि । तं चित्रं चायनीयं वाजमन्नं हे ऋभवो नो दद । अस्मभ्यं दत्त ॥ ९ ॥