चतुर्थं मण्डलम् - सूक्तम् 33

11 ऋचः

ऋषिः: वामदेवो गौतमः देवता: ऋभवः छन्दः: त्रिष्टुप्

सूक्तम् 4.33 - सम्पूर्णम्

1 / 11
ऋक्: 4.33.1
0:00 0:00
▶ सर्वाणि ऋक्कानि (11)
4.33.1 समानपद
प्र ऋ॒भुभ्यो᳚ दू॒तमि᳚व॒ वाच᳚मिष्य उप॒स्तिरे॒ श्वैत᳚रीं धे॒नुमी᳚ळे ।
ये वात᳚जूतास्त॒रणि᳚भि॒रेवै॒ः परि॒ द्यां स॒द्यो अ॒पसो᳚ बभू॒वुः ॥
▶ पदपाठः (Word-by-word)
प्र । ऋ॒भु॑भ्यः᳚ । दू॒तम्॑इ᳚व । वाच᳚म् । इ॒ष्ये॒ । उ॒प॒॑स्तिरे᳚ । श्वैत᳚रीम् । धे॒नुम् । ई॒ळे॒ ।
ये । वात᳚॑जूताः । त॒रणि᳚॑भिः । एवैः᳚ । परि᳚ । द्याम् । स॒द्यः । अ॒पसः᳚ । ब॒भू॒वुः ॥
▶ सायणभाष्यम् (Sayana Commentary)

चतुर्थेऽनुवाके त्रयोदश सूक्तानि । तत्र प्र ऋभुभ्य इत्येकादशर्चं प्रथमं सूक्तं वामदेवस्यार्षं त्रैष्टुभम् । त्य्ह्यादिपरिभाषयेदमादिसूक्तपञ्चकमृभुदेवताकम् । अत्रानुक्रमणिका । प्र ऋभुभ्य एकादशार्भवं वा इति । व्यूढे दशरात्रे चतुर्थेऽहनि वैश्वदेवशस्त्र आर्भवनिविद्धानीयमिदम् । तथा च सूत्रितम् । प्र ऋभुभ्य प्र शुक्रैत्विति वैश्वदेवम् । आ. ८-८ । इति ॥

तत्र ऋभूणां पूर्वं मनुष्याणामेव सतां तपसा देवत्वप्राप्तिरार्भवं शंसत्यृभवो वै देवेभ्यः । ऐ. ब्रा. ३-३० । इत्यत्र ब्राह्मणे स्पष्टमाम्नाता । केचन ऋभवो नाम सूर्यरश्मय इत्याचक्षते । अहं यजमान ऋभुभ्य उरुभासमानेभ्य एतन्नामकेभ्यो देवेभ्यो वाचं स्तुतिरूपां प्रेष्ये । प्रेरयामि । किमिव । दूतमिव । यथा दूतं स्वकार्यं प्रति प्रेषयन्ति तद्वत् । किञ्च उपस्थिरे सोमोपस्तरणाय श्वैतरीं पयोयुक्तां श्वेततरां वां धेनुमीळे । याचाम्यृभून् । य ऋभवो वातजूत वातसमानगतयोऽषसो जगदुपकारिकर्माणः सन्तस्तरणिभिस्तारकैरेवैर्गमनशीलैरश्वैर्द्यामन्तरिक्षं सद्यस्तदानीमीव परि बभूवुः । परिभवन्ति । सर्वतो व्याप्नुवन्ति । अथ रश्मय एव ऋभव इत्युक्तत्वादादित्यं वा रश्मयः परितो व्याप्नुवन्ति ॥ १ ॥

4.33.2
य॒दार॒मक्र᳚न्नृ॒भवः᳚ पि॒तृभ्यां॒ परि᳚विष्टी वे॒षणा᳚ दं॒सना᳚भिः ।
आदिद्दे॒वाना॒मुप᳚ स॒ख्यमा᳚य॒न्धीरा᳚सः पु॒ष्टिम᳚वहन्म॒नायै᳚ ॥
▶ पदपाठः (Word-by-word)
य॒दा । अर᳚म् । अक्र᳚न् । ऋ॒भवः᳚ । पि॒तृ॑भ्या᳚म् । परि᳚॑विष्टी । वे॒षणा᳚ । दं॒सना᳚भिः ।
आत् । इत् । दे॒वाना᳚म् । उप᳚ । स॒ख्यम् । आ॒य॒न् । धीरा᳚सः । पु॒ष्टिम् । अ॒व॒ह॒न् । म॒नायै᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

यदा यस्मिन्काल ऋभवः पितृभ्यां मातापितृभ्यां परिविष्टी परिवेषणेन परिचर्यया वेषणा वेषनेन व्याप्त्या । यद्वा । वेषेण जरदूपयोर्युवत्वकरणेन दंअनाभिरन्यैश्च मसनिर्माणादिकर्मभिररमत्यर्थमक्रन् आदिदनन्तरमेव देवानामिन्द्रादीनां सख्यं सखित्वं समानख्यानत्वं देवतात्वमुपायन् । आगमन् । युवशा कर्त्वा । ऋग्वे. १-१६१-३ । इति देवत्वप्राप्तेरेकान्तत्वेन देवैरुक्तत्वादिति भावः । किञ्च धीरासो धीरा बुद्धिमन्तस्तेषां पुष्टिं गवादिविषयां मनायै मतिकृते यजमानायावहन् । वहन्ति । धारयन्ति । यद्वा । सविषयाम् पुष्टिं मनायै मनसे प्रक्शुष्तमनस्कत्वायावहन् ॥ २ ॥

4.33.3 समानपद
पुन॒र्ये च॒क्रुः पि॒तरा॒ युवा᳚ना॒ सना॒ यूपे᳚व जर॒णा शया᳚ना ।
ते वाजो॒ विभ्वा{4}᳚ ऋ॒भुरिन्द्र᳚वन्तो॒ मधु᳚प्सरसो नो॑वन्तु य॒ज्ञम् ॥
▶ पदपाठः (Word-by-word)
पुनः᳚ । ये । च॒क्रुः । पि॒तरा᳚ । युवा᳚ना । सना᳚ । यूपा᳚॑इव । ज॒र॒णा । शया᳚ना ।
ते । वाजः᳚ । वि॑भ्वा᳚ । ऋ॒भुः । इन्द्र᳚॑वन्तः᳚ । मधु᳚॑प्सरसः । नः॒ । अ॒व॒न्तु॒ । य॒ज्ञम् ॥
▶ सायणभाष्यम् (Sayana Commentary)

य ऋभवः पितरा माता पितरौ यूपेव छिन्नस्थाणू इव जरणा जीर्णौ शयाना शयानौ पुनः सना सदा युवाना युवानौ चक्रुः । नित्यतरुणवकुर्वन् । ते वाजो विभ्वा ऋभुश्च एतन्नामकास्त्रयह् सुधन्वन आङ्गिरसस्य पुत्रा ऋभव इन्द्रवन्तोऽनुग्राहकेणेन्द्रेण तद्वन्तो मधुप्सरसो मधुरस्य सोमरसस्य भक्षयितारो मनोहररूपा वा नोऽस्मदीयं यज्ञमवन्तु । रक्षन्तु गच्छन्तु वा ॥ ३ ॥

4.33.4
यत्सं॒वत्स᳚मृ॒भवो॒ गामर᳚क्ष॒न्यत्सं॒वत्स᳚मृ॒भवो॒ मा अपिं᳚शन् ।
यत्सं॒वत्स॒मभ᳚र॒न्भासो᳚ अस्या॒स्ताभि॒ः शमी᳚भिरमृत॒त्वमा᳚शुः ॥
▶ पदपाठः (Word-by-word)
यत् । स॒म्॑वत्स᳚म् । ऋ॒भवः᳚ । गाम् । अर᳚क्षन् । यत् । स॒म्॑वत्स᳚म् । ऋ॒भवः᳚ । माः । अपिं᳚शन् ।
यत् । स॒म्॑वत्स᳚म् । अ॒भ᳚रन् । भासः᳚ । अ॒स्याः॒ । ताभिः᳚ । शमी᳚भिः । अ॒मृ॒त॒॑त्वम् । आ॒शुः॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

संवत्सम् । संवसन्ति भूतान्यस्मिन्निति संवत्सः संवत्सरः । संवत्सरपर्यन्तमृभवो गां मृतामरक्षन्नपालयन् । स्वसामर्थ्यादिति यत् यदेतत्कर्मास्ति । तथा संवत्सं संवत्सरमृभवो मास्तस्या एव गोर्मांसमपिंशन् अवयवानकुर्वन्निति यत् किञ्च संवत्सं संवत्सरपर्यन्तमस्या भासोऽभरन् दीप्तीरवयवशोभा कुर्वन्निति यत् ताभिः शमीभिर्मृताया गोर्नवीकरणविशयैः कर्मभिरमृतत्वमाशुः । देवत्वं प्राप्ताः । धेनुः कर्त्वेति देवत्वप्राप्तिसाधनत्वेन देवैः प्रतिश्रुतत्वात् । यद्वा । अत्र संवत्समित्येतद्वत्सेन सहेति व्याख्येयं ॥ ४ ॥

4.33.5 समानपद
ज्ये॒ष्ठ आ᳚ह चम॒सा द्वा क॒रेति॒ कनी᳚या॒न्त्रीन्कृ᳚णवा॒मेत्या᳚ह ।
क॒नि॒ष्ठ आ᳚ह च॒तुर᳚स्क॒रेति॒ त्वष्ट᳚ ऋभव॒स्तत्प᳚नय॒द्वचो᳚ वः ॥
▶ पदपाठः (Word-by-word)
ज्ये॒ष्ठः । आ॒ह॒ । च॒म॒सा । द्वा । क॒र॒ । इति᳚ । कनी᳚यान् । त्रीन् । कृ॒ण॒वा॒म॒ । इति᳚ । आ॒ह॒ ।
क॒नि॒ष्ठः । आ॒ह॒ । च॒तुरः᳚ । क॒र॒ । इति᳚ । त्वष्टा᳚ । ऋ॒भ॒वः॒ । तत् । प॒न॒य॒त् । वचः᳚ । वः॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

एकं चमसं चतुरस्कृणोतन । ऋग्वे. १-१६१-२ । इति यदा देवदूतोऽग्निरृभूनाह देवत्वप्राप्त्युक्थेन तदा तेषु मध्ये देवत्वप्राप्त्युत्क एको ज्येष्ठ ऋभुरिततावाह । किमिति । उच्यते । चमसा द्वा करेति । एकमेव सन्तं क्वौ कृणवामेति । कनीयान् तदनन्तरो विभ्वा त्रीन् कृणवाम करवामेत्याह । तदवरः कनिष्ठो वाजश्चतुरः कर चतुर्था करवामेत्याह । तदेव चतुष्करणरूपं हे ऋभवस्त्वष्टा युष्मद्गुरुः वो वचः युष्मद्वचनं पनयत् । अस्तौत् । अङ्गीचकारेत्यर्थः ॥ ५ ॥

4.33.6
स॒त्यमू᳚चु॒र्नर᳚ ए॒वा हि च॒क्रुरनु᳚ स्व॒धामृ॒भवो᳚ जग्मुरे॒ताम् ।
वि॒भ्राज᳚माना{4}श्चम॒सा{4} अहे॒वावे᳚न॒त्त्वष्टा᳚ च॒तुरो᳚ ददृ॒श्वान् ॥
▶ पदपाठः (Word-by-word)
स॒त्यम् । ऊ॒चुः॒ । नरः᳚ । ए॒व । हि । च॒क्रुः । अनु᳚ । स्व॒धाम् । ऋ॒भवः᳚ । ज॒ग्मुः॒ । ए॒ताम् ।
वि॒॑भ्राज᳚मानान् । च॒म॒सान् । अहा᳚॑इव । अवे᳚नत् । त्वष्टा᳚ । च॒तुरः᳚ । द॒दृ॒श्वान् ॥
▶ सायणभाष्यम् (Sayana Commentary)

नरो मनुष्यरूपा ऋभवः सत्यमूचुः । सत्यमेवाब्रुवन् । हि यस्मादेश एवैवं चक्रुः । चतुरोऽकुर्वन् । यथोक्तं तथैव कृतत्वादित्यभिप्रायः । अनुचतुर्धाकरनान्तरमेतां तृतीयसवनगतां स्वधां सोमाख्यममृतमृभवो जग्मुः । एकं चमसं चतुरस्कृणोतन साकं देवैर्यज्ञियासो भविष्यथेति श्रुतत्वात् । अथ त्वष्ट्वा देवो विभ्राजमानानहेवाहानीव दीप्यमानांश्च मसांश्चतुरो ददृश्वान्दृश्टवान् सन्नवेनत् । अकामयत । अङ्गीचकारेत्यर्थः ॥ ६ ॥

4.33.7
द्वाद᳚श॒ द्यून्यदगो᳚ह्यस्याति॒थ्ये रण᳚न्नृ॒भवः᳚ स॒सन्त᳚ः ।
सु॒क्षेत्रा᳚कृण्व॒न्नन᳚यन्त॒ सिन्धू॒न्धन्वाति᳚ष्ठ॒न्नोष᳚धीर्नि॒म्नमापः᳚ ॥
▶ पदपाठः (Word-by-word)
द्वाद᳚श । द्यून् । यत् । अगो᳚ह्यस्य । आ॒ति॒थ्ये । रण᳚न् । ऋ॒भवः᳚ । स॒सन्तः᳚ ।
सु॒॑क्षेत्रा᳚ । अ॒कृ॒ण्व॒न् । अन᳚यन्त । सिन्धू᳚न् । धन्व᳚ । आ । अ॒ति॒ष्ठ॒न् । ओष᳚धीः । नि॒म्नम् । आपः᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

तत्र रश्मय एव ऋभव इत्युक्तत्वात्तद्रूपेण स्तूयन्ते । यद्यदा द्वादशद्यून्दिवसान् । आर्द्रादिद्वादशवृष्टिनक्षत्राणीत्यर्थः । अगोह्यस्यागोप्यस्यादित्यस्य गृह आतिथ्ये । अकस्माक्दागतोऽतिथिः । तदुचितं सत्काररूपं कर्मातिथ्यम् । तदर्थं ससंतः स्वपन्तः सुखेन निवसन्त ऋभवो रणन् रमन्ते । अगोह्यस्य यदसस्तना गृहे । ऋग्वे. १-१६१-११ । इत्युक्तम् । तदानीं सुक्षेत्राकृण्वन् । अकृष्तानि शून्यानि क्षेत्राणि वृष्ट्या सस्यादिसमृद्धान्यकुर्वन् । स्निधून्नदीरनयन्त । प्रैरयन् । तस्मिन् काल ओषधीरोषधयो धन्व निरुदकस्थानमाश्रित्यातिष्ठन् । निम्नं नीचस्थानमाप्नोऽतिष्ठन् । उद्वत्स्वस्मा अकृणोतना तृणं निवत्स्वप इत्युक्तं ॥ ७ ॥

4.33.8 समानपद
रथं॒ ये च॒क्रुः सु॒वृतं᳚ नरे॒ष्ठां ये धे॒नुं वि᳚श्व॒जुवं᳚ वि॒श्वरू᳚पाम् ।
त आ त᳚क्षन्त्वृ॒भवो᳚ र॒यिं न॒ः स्वव᳚स॒ः स्वप᳚सः सु॒हस्ता᳚ः ॥
▶ पदपाठः (Word-by-word)
रथ᳚म् । ये । च॒क्रुः । सु॒॑वृत᳚म् । न॒रे॒॑स्थाम् । ये । धे॒नुम् । वि॒श्व॒॑जुव᳚म् । वि॒श्व॑रू᳚पाम् ।
ते । आ । त॒क्ष॒न्तु॒ । ऋ॒भवः᳚ । र॒यिम् । नः॒ । सु॒॑अव᳚सः । सु॒॑अप᳚सः । सु॒॑हस्ताः᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

य ऋभवः सुवृतं सुचक्रं सुष्ठु वर्तमानं वा नरेष्ठां नेतरि चक्रे वर्तमानं रथम् चक्रुः । ये च विश्वजुवं विश्वस्य प्रेरयित्रीं विश्वरूपां बहुरूपामेतन्नामिकां वा धेनुं गां चक्रुः । अकुर्वन् । बृअह्स्पतिर्विश्वरूपामुपाजत । ऋग्वे/ १-१६१-६ । इतिह्युक्तम् । ते महान्त ऋभवो नोऽस्माकं रयिं धनमा तक्षन्तु । सर्वतो निष्पादयन्तु । कीदृशास्त ऋभवः । स्वपसः सुकर्माणः स्ववसः शोभनान्नोपेताः सुरक्षणा वा सुहस्ताः शोभनहस्ताः कुशलहस्ताः ॥ ८ ॥

4.33.9
अपो॒ ह्ये᳚षा॒मजु᳚षन्त दे॒वा अ॒भि क्रत्वा॒ मन᳚सा॒ दीध्या᳚नाः ।
वाजो᳚ दे॒वाना᳚मभवत्सु॒कर्मेन्द्र᳚स्य ऋभु॒क्षा वरु᳚णस्य॒ विभ्वा᳚ ॥
▶ पदपाठः (Word-by-word)
अपः᳚ । हि । ए॒षा॒म् । अजु᳚षन्त । दे॒वाः । अ॒भि । क्रत्वा᳚ । मन᳚सा । दीध्या᳚नाः ।
वाजः᳚ । दे॒वाना᳚म् । अ॒भ॒व॒त् । सु॒॑कर्मा᳚ । इन्द्र᳚स्य । ऋ॒भु॒क्षाः । वरु᳚णस्य । वि॑भ्वा᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

एषामृभूणामपोऽश्वरथनिर्माणादिरूपं कर्म देवा इन्द्रादयोऽजुषन्त । आसेवन्त । इन्द्रो हरी युयुजे अश्विना रथमित्यादिमन्त्रोक्तप्रकारेण स्वीकृतवन्त इत्यर्थः । कीदृशास्ते । क्रत्वा वरप्रदानरूपेण कर्मणा मनसा शोभनेन चित्तेनानुग्रहयुक्तेनाभि दीध्याना दीप्यमानाः । देवानामनुग्रहेण किं लब्धमित्याह । सुकर्माशोभनव्यापारो वाजः कनीयान्देवानां सर्वेषां सम्बन्ध्यभवत् । तथेन्द्रस्य संबन्ध्यृभुक्षा ऋभुज्येष्ठः । व्भ्वा मध्यमो वरुणस्य सम्बन्ध्यभवत् ॥ ९ ॥

4.33.10 समानपद
ये हरी᳚ मे॒धयो॒क्था मद᳚न्त॒ इन्द्रा᳚य च॒क्रुः सु॒युजा॒ ये अश्वा᳚ ।
ते रा॒यस्पोषं॒ द्रवि᳚णान्य॒स्मे ध॒त्त ऋ᳚भवः क्षेम॒यन्तो॒ न मि॒त्रम् ॥
▶ पदपाठः (Word-by-word)
ये । हरी॒ इति᳚ । मे॒धया᳚ । उ॒क्था । मद᳚न्तः । इन्द्रा᳚य । च॒क्रुः । सु॒॑युजा᳚ । ये । अश्वा᳚ ।
ते । रा॒यः । पोष᳚म् । द्रवि᳚णानि । अ॒स्मे इति᳚ । ध॒त्त । ऋ॒भ॒वः॒ । क्षे॒म॒॑यन्तः᳚ । न । मि॒त्रम् ॥
▶ सायणभाष्यम् (Sayana Commentary)

य ऋभवो हरी अश्वौ मेधया प्रज्ञयोखा उक्थैः स्तुतिभिर्मदन्तो हर्षयन्तश्चक्रुः । ये च तौ सुयुजा सुयुजौ सुयोजनावश्वाविन्द्रायेन्द्रार्थं चक्रुः । अकुर्वन् । हे ऋबवस्ते यूयं रायस्पोषं धनपुष्तिं द्रविणानि गवादिधनानि च सुखानि वास्मे अस्मासु धत्त । धारयत । किमिव । क्षेमयन्तः क्षेममिच्छन्तो मित्रं न मित्रमिव । अत्र यद्यप्येक एव ऋभुनामा तत्सम्बन्धादितरेऽप्यृभव उच्यन्ते प्राणभृन्न्यायेन ॥ १० ॥

4.33.11
इ॒दाह्न᳚ः पी॒तिमु॒त वो॒ मदं᳚ धु॒र्न ऋ॒ते श्रा॒न्तस्य᳚ स॒ख्याय᳚ दे॒वाः ।
ते नू॒नम॒स्मे ऋ᳚भवो॒ वसू᳚नि तृ॒तीये᳚ अ॒स्मिन्त्सव᳚ने दधात ॥
▶ पदपाठः (Word-by-word)
इ॒दा । अह्नः᳚ । पी॒तिम् । उ॒त । वः॒ । मद᳚म् । धुः॒ । न । ऋ॒ते । श्रा॒न्तस्य᳚ । स॒ख्याय᳚ । दे॒वाः ।
ते । नू॒नम् । अ॒स्मे इति᳚ । ऋ॒भ॒वः॒ । वसू᳚नि । तृ॒तीये᳚ । अ॒स्मिन् । सव᳚ने । द॒धा॒त॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

इदेदानीं चमसादिनिर्माणानन्तरमह्नः सुत्याहसम्बन्धिनस्तृतीये सवने पीतिं सोमपानमुतापि च मदं तज्जनितं वो युष्माकं धुः । ददुर्देवाः । श्रान्तस्य श्रान्तात्तपोयुक्तादृते सख्याय सखित्वाय न भवन्ति देवाः । यत एते श्रान्ता अतो ददुरित्यर्थः । हे ऋभवस्ते महान्तो यूयं नूनं निश्चयमस्मे अस्मास्वस्मिन् तृतीये सवने वसूनि धनानि दधात । धारयत ॥ ११ ॥