चतुर्थं मण्डलम् - सूक्तम् 15

10 ऋचः

ऋषिः: वामदेवो गौतमः देवता: अग्निः छन्दः: गायत्री

सूक्तम् 4.15 - सम्पूर्णम्

1 / 10
ऋक्: 4.15.1
0:00 0:00
▶ सर्वाणि ऋक्कानि (10)
4.15.1
अ॒ग्निर्होता᳚ नो अध्व॒रे वा॒जी सन्परि᳚ णीयते ।
दे॒वो दे॒वेषु᳚ य॒ज्ञियः᳚ ॥
▶ पदपाठः (Word-by-word)
अ॒ग्निः । होता᳚ । नः॒ । अ॒ध्व॒रे । वा॒जी । सन् । परि᳚ । नी॒य॒ते॒ ।
दे॒वः । दे॒वेषु᳚ । य॒ज्ञियः᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

अग्निर्होतेति दशर्चं पञ्चमं सूक्तं वामदेवस्यार्षं गायत्रम् । अत्रेय मनुक्रमणिका । अग्निर्होता दश गायत्रमृषिर्बोधदित्याभ्यां सोमकं साहदेव्यमभ्यवदत्पराभ्यामस्याश्विनावायुरयाचतेति । बोधद्यदिति द्वृचेन सोमक राजा स्तूयत एष वामिति द्वृचेनाश्विनौ शिष्टाभिः षड्भिरग्निः स्तूयते । अतस्ता एव क्रमेन देवताः । सूक्तविनियोगो लैङ्गिकः । पशोः पर्यग्निकरणेऽग्निर्होता न इत्याद्यस्तृचोऽनुवचनीयः । तथा च सूत्रितम् । अग्निर्होता न इति तृचं पर्यग्नयेऽन्वाह । आ. ३-२ । इति । प्रातरनुवाकेऽप्याग्नेये क्रतौ गायत्रे छन्दस्याश्विन शस्त्रे चायं तृचो विनियुक्तः तथा च सूत्रितं अग्निर्होता नो अध्वर इति तिस्रः आ-४-१३ ॥ इति ॥

होता देवानामाह्वाता होमनिश्पादको वाग्निर्नोऽस्मदीयेऽध्वरे यागे । वाजीत्येतल्लुप्तोपमाकम् । वाजी शीघ्रगामी वोढाश्व इव तथा देवेभ्यो हविर्वाहकः सन् परिणियते । परितः समन्तात्प्राप्यते । तथा ब्राह्मणं च भवति । वाजी सन्परि णियत इति वाजिनमिव ह्येनं सन्तं परिणयन्ति । ऐ . ब्रा. २-५ । इति । कीदृशोऽग्निः । देवेशु द्योतमानेष्विन्द्रादिषु मध्ये देवो द्योतमानो यज्ञियो यज्ञार्हः । ॥ १ ॥

4.15.2
परि᳚ त्रिवि॒ष्ट्य᳚ध्व॒रं यात्य॒ग्नी र॒थीरि᳚व ।
आ दे॒वेषु॒ प्रयो॒ दध᳚त् ॥
▶ पदपाठः (Word-by-word)
परि᳚ । त्रि॒॑वि॒ष्टि । अ॒ध्व॒रम् । याति᳚ । अ॒ग्निः । र॒थीः॑इ᳚व ।
आ । दे॒वेषु᳚ । प्रयः᳚ । दध᳚त् ॥
▶ सायणभाष्यम् (Sayana Commentary)

देवेषु द्योतमानेष्विन्द्रादिषु । प्रय इत्यन्ननामेदम् । प्रयो यजमानैर्दत्तं हवीरुपमन्नमा दधत् आ समन्ताद्धारयन्नग्निरङ्गनादिगुणविशिष्टोऽग्निस्त्रिविष्टि त्रिवारम् । सवनत्रये‍पीत्यर्थः । परि परितः । समन्तादध्वरं यजमानैः कृतं यागं याति । गच्छति । परिगमने दृष्टान्तः । रथीरिव । रथवान्पुरुषो यथा शीघ्रं याति तद्वत् । तथा च ब्राह्मनम् । परि त्रिविष्ट्यध्वरं यात्यग्नी रथीरिवेत्येष हि रथीरिवाध्वरं पर्येति । ऐ. ब्रा. २-५ । इति ॥ २ ॥

4.15.3
परि॒ वाज᳚पतिः क॒विर॒ग्निर्ह॒व्यान्य᳚क्रमीत् ।
दध॒द्रत्ना᳚नि दा॒शुषे᳚ ॥
▶ पदपाठः (Word-by-word)
परि᳚ । वाज᳚॑पतिः । क॒विः । अ॒ग्निः । ह॒व्यानि᳚ । अ॒क्र॒मी॒त् ।
दध᳚त् । रत्ना᳚नि । दा॒शुषे᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

वाजपतिर्वाजानामन्नानां पतिः पालकः । परि वाजपतिः कविरित्येष हि वाजानां पतिः । ऐ. ब्रा. २-५ । इति ब्राह्मनम् । कविः क्रान्तदर्शी मेधावी वा दाशुषे हविर्दत्तवते यजमानाय रत्नानि रमणीयानि धनानि दधत् प्रयच्छन्नग्निर्हव्यानि हवींषि पर्यक्रमीत् । परितः क्रामति । व्याप्नोति ॥ ३ ॥

4.15.4
अ॒यं यः सृञ्ज᳚ये पु॒रो दै᳚ववा॒ते स᳚मि॒ध्यते᳚ ।
द्यु॒मा{4} अ᳚मित्र॒दम्भ᳚नः ॥
▶ पदपाठः (Word-by-word)
अ॒यम् । यः । सृञ्ज᳚ये । पु॒रः । दै॒व॒॑वा॒ते । स॒म्॑इ॒ध्यते᳚ ।
द्यु॒॑मान् । अ॒मि॒त्र॒॑दम्भ᳚नः ॥
▶ सायणभाष्यम् (Sayana Commentary)

यः प्रसिद्धोऽयं प्रत्यक्शेणोपलभ्यमानोऽग्निर्दैववाते देववातस्य पुत्रे सृञ्जये । सृञ्जयो नाम कश्चित्सोमयाची । तस्मिन्निमित्तभूते सति तद्यागार्थमित्यर्थः । सृञ्जयस्य यष्टृत्वं तैत्तिरीया आमनन्ति । वासिष्ठो ह सात्यहव्यो देवभागं पप्रच्छ यत्सृ‘ज्जयान्बहुयाजिनोऽयीयजः । तै. स. ६-६-२-२ । इति । पुरः पुर्वस्यां दिशि स्थितायामुत्तरवेद्यां समिध्यते । सम्यग्दीप्यते । अमित्रदम्भनः शत्रूणां हिंसकः सोऽग्निर्द्युमान् दीप्तिमान् भवतीति शेषः ॥ ४ ॥

4.15.5
अस्य᳚ घा वी॒र ईव᳚तो॒॑ग्नेरी᳚शीत॒ मर्त्य᳚ः ।
ति॒ग्मज᳚म्भस्य मी॒ळ्हुषः᳚ ॥
▶ पदपाठः (Word-by-word)
अस्य᳚ । घ॒ । वी॒रः । ईव᳚तः । अ॒ग्नेः । ई॒शी॒त॒ । मर्त्यः᳚ ।
ति॒ग्म॑ज᳚म्भस्य । मी॒ळ्हुषः᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

वीरः स्तुतौ विक्रान्तो मर्त्यो मरण धर्माः यजमानस्तिग्मजम्भस्य तीक्ष्ण तेजसो मीळ्हुषोऽभिलषितफलानां सेक्तुरीवतो गमनवतोऽस्काग्नेरीशीत । ईश्वरो भवेत् । घेति पादपूरनः । एतेन यजमान आत्माभीष्टफल कारयितुं समर्थो भवतीत्यर्थः ॥ ५ ॥

4.15.6
तमर्व᳚न्तं॒ न सा᳚न॒सिम᳚रु॒षं न दि॒वः शिशु᳚म् ।
म॒र्मृ॒ज्यन्ते᳚ दि॒वेदि᳚वे ॥
▶ पदपाठः (Word-by-word)
तम् । अर्व᳚न्तम् । न । सा॒न॒सिम् । अ॒रु॒षम् । न । दि॒वः । शिशु᳚म् ।
म॒र्मृ॒ज्यन्ते᳚ । दि॒वे॑दि᳚वे ॥
▶ सायणभाष्यम् (Sayana Commentary)

यजमाना अर्वन्तं न शीघ्रगामिनमश्वमिव सानसिं सम्भजनीयं दिवः शिशुं न द्युलोकस्य पुत्रभूतं सूर्यमिवारुषमारोचमानं तमग्निं दिवे दिवे प्रतिदिनं मर्मृज्यन्ते । भृशं परिचरणं कुर्वन्ति ॥ ६ ॥

4.15.7
बोध॒द्यन्मा॒ हरि᳚भ्यां कुमा॒रः सा᳚हदे॒व्यः ।
अच्छा॒ न हू॒त उद᳚रम् ॥
▶ पदपाठः (Word-by-word)
बोध᳚त् । यत् । मा॒ । हरि᳚॑भ्याम् । कु॒मा॒रः । सा॒ह॒॑दे॒व्यः ।
अच्छ᳚ । न । हू॒तः । उत् । अ॒र॒म् ॥
▶ सायणभाष्यम् (Sayana Commentary)

साहदेव्यः सहदेवनाम्नो राज्ञः पुत्रः कुमारः सोमकाभिधो राजा हरिभ्यामश्वाभ्यामश्वौ दातुं मा मां यद्यदा बोधत् । बोधयामासेमौ तावाश्वाविति । तदाहमच्छभिमुख्येन कुमारेण हूतः सन् नोदरम् । तावश्वालब्ध्वा न निर्गतवानस्मि ॥ ७ ॥

4.15.8
उ॒त त्या य᳚ज॒ता हरी᳚ कुमा॒रात्सा᳚हदे॒व्यात् ।
प्रय᳚ता स॒द्य आ द᳚दे ॥
▶ पदपाठः (Word-by-word)
उ॒त । त्या । य॒ज॒ता । हरी॒ इति᳚ । कु॒मा॒रात् । सा॒ह॒दे॒व्यात् ।
प्र॑य᳚ता । स॒द्यः । आ । द॒दे॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

उतापि च साहदेव्यात्सहदेवस्य पुत्रात्कुमारात्सोमकाद्राज्ञो यजता पूजनीयौ प्रयता प्रयतौ त्या त्यौ तौ प्रसिद्धौ हरी अश्वौ सद्यो ऋस्मिन्दिने तेनाहूतस्तस्मिन्नेव दिन आ ददे । आदत्तवानस्मि । मन्त्रद्रष्टा ऋषिर्बोधदित्यृग्द्वयेन कुमारमश्वेप्सयाभ्युपगम्याश्वावेतस्माल्लब्ध्वा प्रीतोऽभवदित्यर्थः ॥ ८ ॥

4.15.9
ए॒ष वां᳚ देवावश्विना कुमा॒रः सा᳚हदे॒व्यः ।
दी॒र्घायु᳚रस्तु॒ सोम᳚कः ॥
▶ पदपाठः (Word-by-word)
ए॒षः । वा॒म् । दे॒वौ॒ । अ॒श्वि॒ना॒ । कु॒मा॒रः । सा॒ह॒॑दे॒व्यः ।
दी॒र्घ॑आ᳚युः । अ॒स्तु॒ । सोम᳚कः ॥
▶ सायणभाष्यम् (Sayana Commentary)

देवौ द्योतमानौ हे आश्विनौ वां युवां तर्पकः साहदेव्यः सहदेवस्य पुत्रः कुमारः सोमकः सोमकाभिधान एष राजा दीर्घायुरस्तु । शतायुष्को भवतु । एतमु हैव प्रोचतुः पर्वतनारदौ सोमकायेत्यादिना सर्वे हैव महाराजा आसुः । ऐ. ब्रा. ७-३४ । इत्यनेन ब्राह्मणेन सोमकस्य राजत्वं स्पष्टीकृतं ॥ ९ ॥

4.15.10
तं यु॒वं दे᳚वावश्विना कुमा॒रं सा᳚हदे॒व्यम् ।
दी॒र्घायु᳚षं कृणोतन ॥
▶ पदपाठः (Word-by-word)
तम् । यु॒वम् । दे॒वौ॒ । अ॒श्वि॒ना॒ । कु॒मा॒रम् । सा॒ह॒॑दे॒व्यम् ।
दी॒र्घ॑आ᳚युषम् । कृ॒णो॒त॒न॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे देवावश्विना द्योतमानावश्विनौ युवं युवां साहदेव्यं सहदेवस्य पुत्रं कुमारं सोमकाख्यं राजानं दीर्घायुशं शतायुश्कं कृणोतन । कुरुतम् । अनेन द्वृचेनास्य कुमारस्य दीर्घमायुरश्विनावृषिरयाचतेत्यर्थः ॥ १० ॥