परि᳚ त्रिवि॒ष्ट्य᳚ध्व॒रं यात्य॒ग्नी र॒थीरि᳚व ।
आ दे॒वेषु॒ प्रयो॒ दध᳚त् ॥
आ दे॒वेषु॒ प्रयो॒ दध᳚त् ॥
पदपाठः (Word-by-word)
परि᳚ । त्रि॒॑वि॒ष्टि । अ॒ध्व॒रम् । याति᳚ । अ॒ग्निः । र॒थीः॑इ᳚व ।
आ । दे॒वेषु᳚ । प्रयः᳚ । दध᳚त् ॥
आ । दे॒वेषु᳚ । प्रयः᳚ । दध᳚त् ॥
सायणभाष्यम् (Sayana Commentary)
देवेषु द्योतमानेष्विन्द्रादिषु । प्रय इत्यन्ननामेदम् । प्रयो यजमानैर्दत्तं हवीरुपमन्नमा दधत् आ समन्ताद्धारयन्नग्निरङ्गनादिगुणविशिष्टोऽग्निस्त्रिविष्टि त्रिवारम् । सवनत्रयेपीत्यर्थः । परि परितः । समन्तादध्वरं यजमानैः कृतं यागं याति । गच्छति । परिगमने दृष्टान्तः । रथीरिव । रथवान्पुरुषो यथा शीघ्रं याति तद्वत् । तथा च ब्राह्मनम् । परि त्रिविष्ट्यध्वरं यात्यग्नी रथीरिवेत्येष हि रथीरिवाध्वरं पर्येति । ऐ. ब्रा. २-५ । इति ॥ २ ॥