चतुर्थं मण्डलम् - सूक्तम् 8

8 ऋचः

ऋषिः: वामदेवो गौतमः देवता: अग्निः छन्दः: गायत्री

सूक्तम् 4.8 - सम्पूर्णम्

1 / 8
ऋक्: 4.8.1
0:00 0:00
▶ सर्वाणि ऋक्कानि (8)
4.8.1
दू॒तं वो᳚ वि॒श्ववे᳚दसं हव्य॒वाह॒मम᳚र्त्यम् ।
यजि᳚ष्ठमृञ्जसे गि॒रा ॥
▶ पदपाठः (Word-by-word)
दू॒तम् । वः॒ । वि॒श्व॑वे᳚दसम् । ह॒व्य॒॑वाह᳚म् । अम᳚र्त्यम् ।
यजि᳚ष्ठम् । ऋ॒ञ्ज॒से॒ । गि॒रा ॥
▶ सायणभाष्यम् (Sayana Commentary)

दूतं व इत्यष्टर्चमष्टमं सूक्तं वामदेवस्यार्षं गायत्रीछन्दस्कमग्निदेवताकम् । तथा चानुक्रम्यते । दूतं वोऽष्टौ गायत्रं त्विति । व्यूळ्हे दशरात्रे प्रथमे छन्दोम इदं सूक्तं जातवेदस्यनिविद्धानीयम् । तथा च सुत्रितम् । दूतं व इत्याग्निमारुतम् । आ. ८-९ । इति । इदमादिके द्वे सूक्ते प्रातरनुवाकस्याग्नेये क्रतौ गायत्रे छन्दसि विनियुक्ते । सुत्रितं च । अग्ने पावक दूतं व इति सूक्ते । आ. ४-१३ । इति ॥

हे अग्ने विश्ववेदसम् । विश्वं समस्तं वेदो धनं यस्यासौ विश्ववेदाः । तं सर्वविदं वा हव्यवाहं देवेभ्यो हविषां वोढारममर्त्यममरणधर्माणं यजिष्थमतिशयेन यष्तारं दूतं देवानां वस्त्वाङ्गिरा स्तुतिरूपया वाचा ऋञ्जसे । यजमानोऽहं प्रसाधयामि । वर्धयामीत्यर्थः । ऋञ्जतिः प्रसाधनकर्मेति यास्कः ॥ १ ॥

4.8.2
स हि वेदा॒ वसु᳚धितिं म॒हा{4} आ॒रोध᳚नं दि॒वः ।
स दे॒वा{4} एह व᳚क्षति ॥
▶ पदपाठः (Word-by-word)
सः । हि । वेद᳚ । वसु᳚॑धितिम् । म॒हान् । आ॒॑रोध᳚नम् । दि॒वः ।
सः । दे॒वान् । आ । इ॒ह । व॒क्ष॒ति॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

स हि प्रसिद्ध एवाग्निर्वसुधितिं यजमानाभीश्टफलरूपधनस्य दानं वेद । वेत्ति । महान् प्रभूतोऽग्निर्दिव आरोधनमारोहणं देवानां स्थानं वेत्ति । सोऽग्निरिहास्मिन्यज्ञे देवानिन्द्रादीना वक्शति । आवहतु । वहेर्धातोर्लिङर्थे लेटिति लेट् । तस्य तिप् । सिब्बहुलं लेटीति सिप् । लेटोऽडाटावित्यडागमश्च । हो ढ इति धत्वम् । ठत्वकत्वषत्वानि । तिङ तिङ इति निघातः ॥ २ ॥

4.8.3
स वे᳚द दे॒व आ॒नमं᳚ दे॒वा{4} ऋ᳚ताय॒ते दमे᳚ ।
दाति᳚ प्रि॒याणि᳚ चि॒द्वसु᳚ ॥
▶ पदपाठः (Word-by-word)
सः । वे॒द॒ । दे॒वः । आ॒॑नम᳚म् । दे॒वान् । ऋ॒त॒॑य॒ते । दमे᳚ ।
दाति᳚ । प्रि॒याणि᳚ । चि॒त् । वसु᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

देवो द्योतमानः सोऽग्निरानमं यजमानादीनानमयितुं नमस्कारतुं देवानिन्द्रादीन्वेद । क्रमेण वेत्ति । दमे यज्ञगृह ऋतायत ऋतं यज्ञमिच्छते यजमानाय प्रियाणि चिदभीष्टान्यपि वसु वसूनि पश्वादीनि धनानि दाति । ददाति । प्रयच्छति ॥ ३ ॥

4.8.4
स होता॒ सेदु᳚ दू॒त्यं᳚ चिकि॒त्वा{4} अ॒न्तरी᳚यते ।
वि॒द्वा{4} आ॒रोध᳚नं दि॒वः ॥
▶ पदपाठः (Word-by-word)
सः । होता᳚ । सः । इत् । ऊं॒ इति᳚ । दू॒त्य᳚म् । चि॒कि॒त्वान् । अ॒न्तः । ई॒य॒ते॒ ।
वि॒द्वान् । आ॒॑रोध᳚नम् । दि॒वः ॥
▶ सायणभाष्यम् (Sayana Commentary)

सोऽग्निर्होत देवानामाह्वाता भवति । सेचु स एवाग्निर्द्यूत्यं देवानां दूतकर्म चिकित्वान् जानन् दिवः स्वर्नस्यारोधनमारोहणमारोहणार्हं देवानां स्थानं च विद्वान् जानन् अन्तर्द्यावापृथिव्योर्मध्य ईयते । गच्छति । ईङ् गतौ । दिवादिभ्यः श्यन् । तिङ्ग तिङ इति निघातः ॥ ४ ॥

4.8.5
ते स्या᳚म॒ ये अ॒ग्नये᳚ ददा॒शुर्ह॒व्यदा᳚तिभिः ।
य ईं॒ पुष्य᳚न्त इन्ध॒ते ॥
▶ पदपाठः (Word-by-word)
ते । स्या॒म॒ । ये । अ॒ग्नये᳚ । द॒दा॒शुः । ह॒व्य॑दा᳚तिभिः ।
ये । ई॒म् । पुष्य᳚न्तः । इ॒न्ध॒ते ॥
▶ सायणभाष्यम् (Sayana Commentary)

ते तव यजमानाः स्याम । भूयाम । त इत्युक्तम् । क इत्युच्यते । ये यजमाना अग्नये हव्यदातिभिर्हविर्दानैर्ददाशुः । प्रीतिं कुर्वन्ति । ईमेनमग्निं पुष्यन्तो वर्धयन्तो ये यजमाना इन्धते । समिद्भिर्दीप्तियुक्तं कुर्वन्ति ॥ ५ ॥

4.8.6
ते रा॒या ते सु॒वीर्यै᳚ः सस॒वांसो॒ वि शृ᳚ण्विरे ।
ये अ॒ग्ना द᳚धि॒रे दुवः᳚ ॥
▶ पदपाठः (Word-by-word)
ते । रा॒या । ते । सु॒॑वीर्यैः᳚ । स॒स॒॑वांसः᳚ । वि । शृ॒ण्वि॒रे॒ ।
ये । अ॒ग्ना । द॒धि॒रे । दुवः᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

ये यजमाना अग्नाग्नौ । सुपां सुलुगित्याकारः । दुवः परिचर्यां दधिरे । धारयन्ति । कुर्वन्तित्यर्थः । ते ससवांसोऽग्निं सम्भजमाना राया पश्वादिलक्षणेन धनेन वि शृण्विरे । विश्रूयन्ते । प्रख्यायन्ते । ते सुवीर्यैः शोभनवीर्योपेतैः पुत्रादिभिश्च विश्रूयन्ते ॥ ६ ॥

4.8.7
अ॒स्मे रायो᳚ दि॒वेदि᳚वे॒ सं च᳚रन्तु पुरु॒स्पृहः᳚ ।
अ॒स्मे वाजा᳚स ईरताम् ॥
▶ पदपाठः (Word-by-word)
अ॒स्मे इति᳚ । रायः᳚ । दि॒वे॑दि᳚वे । सम् । च॒र॒न्तु॒ । पु॒रु॒॑स्पृहः᳚ ।
अ॒स्मे इति᳚ । वाजा᳚सः । ई॒र॒ता॒म् ॥
▶ सायणभाष्यम् (Sayana Commentary)

पुरुस्पृह ऋत्विगादिभिरभिलष्यमाणा रायः पश्वादिधनान्यस्मे अस्मासु यजमानेषु दिवे दिवे प्रतिदिनं सं चरन्तु । प्रचरन्त्यो भवन्तु । दिव्यब्दादुत्तरस्याः सप्तम्याः सुपां सुलुगित्यादिना शे आदेश ऊडिदमित्यादिना च तस्योदात्तत्वम् । नित्यवीप्सयोरिति द्विर्भावे सत्युत्तरभागस्यानुदात्तं चेत्यनुदात्तत्वम् । वाजासोऽन्नानिचास्मे अस्मानीरताम् । यज्ञार्थं प्रेरयन्तु ॥ ७ ॥

4.8.8
स विप्र᳚श्चर्षणी॒नां शव᳚सा॒ मानु᳚षाणाम् ।
अति᳚ क्षि॒प्रेव᳚ विध्यति ॥
▶ पदपाठः (Word-by-word)
सः । विप्रः᳚ । च॒र्ष॒णी॒नाम् । शव᳚सा । मानु᳚षाणाम् ।
अति᳚ । क्षि॒प्रा॑इ᳚व । वि॒ध्य॒ति॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

विप्रो मेधावी । विप्र इति मेधाविनाम विप्रो धीर इति तन्नामसु पाठात् । सोऽग्निः शवसा बलेन । शव इति बलनाम पाजः शव इति तन्नामसु पाठात् । मानुषाणां मनुसम्बन्धिनां चर्षणीनां प्रजानां क्षिप्रेव क्षेप्याण्येव विनाशयितुमर्हाणि । दुरितानीति शेषः । अति विध्यति । अति विध्यतु । अतिशयेन नाशयतु ॥ ८ ॥