श्रवणम्

4.8.2
स हि वेदा॒ वसु᳚धितिं म॒हा{4} आ॒रोध᳚नं दि॒वः ।
स दे॒वा{4} एह व᳚क्षति ॥
▶ पदपाठः (Word-by-word)
सः । हि । वेद᳚ । वसु᳚॑धितिम् । म॒हान् । आ॒॑रोध᳚नम् । दि॒वः ।
सः । दे॒वान् । आ । इ॒ह । व॒क्ष॒ति॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

स हि प्रसिद्ध एवाग्निर्वसुधितिं यजमानाभीश्टफलरूपधनस्य दानं वेद । वेत्ति । महान् प्रभूतोऽग्निर्दिव आरोधनमारोहणं देवानां स्थानं वेत्ति । सोऽग्निरिहास्मिन्यज्ञे देवानिन्द्रादीना वक्शति । आवहतु । वहेर्धातोर्लिङर्थे लेटिति लेट् । तस्य तिप् । सिब्बहुलं लेटीति सिप् । लेटोऽडाटावित्यडागमश्च । हो ढ इति धत्वम् । ठत्वकत्वषत्वानि । तिङ तिङ इति निघातः ॥ २ ॥