चतुर्थं मण्डलम् - सूक्तम् 26

7 ऋचः

ऋषिः: वामदेवो गौतम इंद्रो वा देवता: इंद्र आत्मा वा छन्दः: त्रिष्टुप्

सूक्तम् 4.26 - सम्पूर्णम्

1 / 7
ऋक्: 4.26.1
0:00 0:00
▶ सर्वाणि ऋक्कानि (7)
4.26.1 समानपद
अ॒हं मनु᳚रभवं॒ सूर्य᳚श्चा॒हं क॒क्षीवा{4}॒ ऋषि᳚रस्मि॒ विप्र᳚ः ।
अ॒हं कुत्स᳚मार्जुने॒यं न्यृ᳚ञ्जे॒॑हं क॒विरु॒शना॒ पश्य᳚ता मा ॥
▶ पदपाठः (Word-by-word)
अ॒हम् । मनुः᳚ । अ॒भ॒व॒म् । सूर्यः᳚ । च॒ । अ॒हम् । क॒क्षीवा᳚न् । ऋषिः᳚ । अ॒स्मि॒ । विप्रः᳚ ।
अ॒हम् । कुत्स᳚म् । आ॒र्जु॒ने॒यम् । नि । ऋ॒ञ्जे॒ । अ॒हम् । क॒विः । उ॒शना᳚ । पश्य᳚त । मा॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

अहं मनुरिति सप्तर्चं पञ्चमं सूक्तं वामदेवस्यार्षम् । आत्रेयमनुक्रमणीका । अहं मनुः सप्ताद्याभिस्तिसृभिरिन्द्रमिवात्मानमृषिस्तुष्टावेन्द्रो वात्मानं परा नवाष्टौ वा श्येनस्तुतिरिति । अत्राहं मनुरित्याद्याभिस्तिसृभिरात्मानमिन्द्ररूपेण वामदेवः स्तुतवान् । यद्वा । इन्द्र एवात्मनं स्तुतवान् । अतो वामदेववाक्यपक्षे वामदेव ऋषिरिन्द्रो देवता । इन्द्रवाक्यपक्षे त्विन्द्र ऋशिः परमात्मा देवता । त्रिष्टुप् छन्दः । अवशिष्टानां वामदेव ऋषिः । अवशिष्टाभिरुत्तरसूक्तेन च सुपर्णात्मना ब्रह्म स्तूयते । अतस्तासां प्राब्रह्म देवता । श्येननाम्न्येकाहे माध्यन्दिनसवने मरुत्वतीयशस्त्र इदं सूक्तम् । सूत्रितं च । श्येनाजिराभ्यामभिचरन्यजेताहं मनुर्गर्भे नुसन् । आ. ९-७ । इति ॥

इदमादिमन्त्रत्रयेण गर्भे वसन्वामदेव उत्पन्नतत्त्वज्ञानः सन् सार्वात्म्यं स्वानुभवं मन्वादिरूपेण प्रदर्शयन्नाह । अहं वामदेव इन्द्रो वा मनुरभवम् । सर्वस्य मन्ता प्रजापतिरस्मि । अहमेव सूर्यश्च सर्वस्य प्रेरकः सविता चास्मि । विप्रो मेधावी कक्षीवान् दीर्घतमसः पुत्र एतत्संज्ञक ऋशिरप्यहमेवास्मि । अर्जुनेयमर्जुन्याः पुत्रं कुत्समेतन्नामकमृषिमहमेव न्यृञ्जे । नितरां प्रसाधयामि । कविः क्रान्तदर्श्युशनैतदाख्य ऋशिरहमेवास्मि । उक्तमुपलक्शणम् । परमार्थदृष्ट्या कृत्समप्यहमेवास्मीत्यर्थः । हे जना मा मां सर्वात्मकं पश्यत । यूयमप्येवमेव सस्वरूपमनुभवतेत्युक्तं भवति ॥ १ ॥

4.26.2
अ॒हं भूमि᳚मददा॒मार्या᳚या॒हं वृ॒ष्टिं दा॒शुषे॒ मर्त्या᳚य ।
अ॒हम॒पो अ᳚नयं वावशा॒ना मम᳚ दे॒वासो॒ अनु॒ केत᳚मायन् ॥
▶ पदपाठः (Word-by-word)
अ॒हम् । भूमि᳚म् । अ॒द॒दा॒म् । आर्या᳚य । अ॒हम् । वृ॒ष्टिम् । दा॒शुषे᳚ । मर्त्या᳚य ।
अ॒हम् । अ॒पः । अ॒न॒य॒म् । वा॒व॒शा॒नाः । मम᳚ । दे॒वासः᳚ । अनु᳚ । केत᳚म् । आ॒य॒न् ॥
▶ सायणभाष्यम् (Sayana Commentary)

अहं वामदेव इन्द्रो वा आर्याय मनवे भूमिं पृथ्वीमददाम् । दत्तवानस्मि । दाशुषे हविर्दत्तवते मर्त्याय मनुष्याय यजमानाय वृष्टिं सस्याद्यभिव्रुद्ध्यर्थं वृष्टिलक्शणमुदकमहमेवाददाम् । किञ्च अहं वावशानाः शब्दायमाना अप उदकान्यनयम् । सर्वमपि प्रदेशमगमयम् । देवासो वह्न्याअदयो देवा मम केतं मदीयं सङ्कल्पमन्वायन् । अनुयन्ति ॥ २ ॥

4.26.3
अ॒हं पुरो᳚ मन्दसा॒नो व्यै᳚रं॒ नव᳚ सा॒कं न᳚व॒तीः शम्ब᳚रस्य ।
श॒त॒त॒मं वे॒श्यं᳚ स॒र्वता᳚ता॒ दिवो᳚दासमतिथि॒ग्वं यदाव᳚म् ॥
▶ पदपाठः (Word-by-word)
अ॒हम् । पुरः᳚ । म॒न्द॒सा॒नः । वि । ऐ॒र॒म् । नव᳚ । सा॒कम् । न॒व॒तीः । शम्ब᳚रस्य ।
श॒त॒॑त॒मम् । वे॒श्य᳚म् । स॒र्व॑ता᳚ता । दिवः᳚॑दासम् । अ॒ति॒थि॒॑ग्वम् । यत् । आव᳚म् ॥
▶ सायणभाष्यम् (Sayana Commentary)

अहं वामदेव इन्द्रो वा मन्दसानः सोमेन माद्यन्नव नवसंख्याका नवतीर्नवतिसंख्याकाश्च शम्बरस्यैतत्नामकस्यासुरस्य संबन्धीनि पुरः पुराणि साकं युगपदेव व्यैरम् । अध्वंसयम् । शततमं शतसंख्यापूरणं पुरं वेश्यं दिवोदासनाम्ने प्रवेशार्हमकरवम् । सर्वताता सर्वतातौ यज्ञेऽतिथिग्वमतिथीनामभिगन्तारं दिवोदासं दिवोदासनामकं राजर्षिं यदावं अपालयम् । तदा पुरो व्यैरमिति पूर्वेण सम्बन्धः ॥ ३ ॥

4.26.4
प्र सु ष विभ्यो᳚ मरुतो॒ विर᳚स्तु॒ प्र श्ये॒नः श्ये॒नेभ्य᳚ आशु॒पत्वा᳚ ।
अ॒च॒क्रया॒ यत्स्व॒धया᳚ सुप॒र्णो ह॒व्यं भर॒न्मन᳚वे दे॒वजु᳚ष्टम् ॥
▶ पदपाठः (Word-by-word)
प्र । सु । सः । वि॑भ्यः᳚ । म॒रु॒तः॒ । विः । अ॒स्तु॒ । प्र । श्ये॒नः । श्ये॒नेभ्यः᳚ । आ॒शु॒॑पत्वा᳚ ।
अ॒च॒क्रया᳚ । यत् । स्व॒धया᳚ । सु॒॑प॒र्णः । ह॒व्यम् । भर᳚त् । मन᳚वे । दे॒व॑जु᳚ष्टम् ॥
▶ सायणभाष्यम् (Sayana Commentary)

अथैतदादिभिः श्येनः स्तूयते । हे मरुतो वेगेन मरुत्सदृशाः पक्षिणः स प्रसिद्धः श्येनाख्यो विः पक्षी विभ्यः पक्शिभ्यो युश्मत्तः प्र सु अस्तु । बलेन्द् प्रकृष्टो भवतु । किञ्च श्येनेभ्यः शंसनीयगमनेभ्यः स्वसमानजातिभ्यः पक्षिभ्यः सकाशादाशुपत्वातुपतनः शीघ्रगामी श्येनः प्रकृष्तो भवतु । सुपर्णः शोभनपतनो यद्यदा श्येनोऽचक्रया चक्रवर्जितया स्वधया रथेन देवजुष्ठं देवैः सेवितं हव्यं सोमलक्षणं हविर्मनवे प्रजापतये भरत् अहरत् द्युलोकसकाशादाहृतवान् । अत्र स्वधाशब्दो रथवाच्यचक्रया स्वधया वर्तमानमित्यादौ । ऋग्वे. १० ७-१९ । दर्शनात् ॥ ४ ॥

4.26.5 समानपद
भर॒द्यदि॒ विरतो॒ वेवि᳚जानः प॒थोरुणा॒ मनो᳚जवा असर्जि ।
तूयं᳚ ययौ॒ मधु᳚ना सो॒म्येनो॒त श्रवो᳚ विविदे श्ये॒नो अत्र᳚ ॥
▶ पदपाठः (Word-by-word)
भर᳚त् । यदि᳚ । विः । अतः᳚ । वेवि᳚जानः । प॒था । उ॒रुणा᳚ । मनः᳚॑जवाः । अ॒स॒र्जि॒ ।
तूय᳚म् । य॒यौ॒ । मधु᳚ना । सो॒म्येन᳚ । उ॒त । श्रवः᳚ । वि॒वि॒दे॒ । श्ये॒नः । अत्र᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

यदि यदा विः पक्शी श्येनोऽतोऽमुश्माद्द्युलोकाद्वेविजानः सोमपालकान् भीशयन् भरत् । अहरत् । सोममाहृतवान् । तदोरुणा विस्तीर्णेन पथान्तरिक्षमार्गेण मनोजवा मनोवद्वेगयुक्तः सन् असर्जि । संसृष्ट आसीत् । सोम्येन सोममयेन मधुनान्नेन सह तूयं क्शिप्रं ययौ । जगाम । उतापि च अत्रास्मिन् लोके त्येनः सुपर्णः श्रवः सोमाहरननिमित्तं यशो विविदे । लेभे ॥ ५ ॥

4.26.6 समानपद
ऋ॒जी॒पी श्ये॒नो दद᳚मानो अं॒शुं प᳚रा॒वतः᳚ शकु॒नो म॒न्द्रं मद᳚म् ।
सोमं᳚ भरद्दादृहा॒णो दे॒वावा᳚न्दि॒वो अ॒मुष्मा॒दुत्त᳚रादा॒दाय᳚ ॥
▶ पदपाठः (Word-by-word)
ऋ॒जी॒पी । श्ये॒नः । दद᳚मानः । अं॒शुम् । प॒रा॒॑वतः᳚ । श॒कु॒नः । म॒न्द्रम् । मद᳚म् ।
सोम᳚म् । भ॒र॒त् । द॒दृ॒हा॒णः । दे॒व॑वा᳚न् । दि॒वः । अ॒मुष्मा᳚त् । उत्॑त᳚रात् । आ॒॑दाय᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

ऋजीप्यृजुगामी परावतो दूरादंशुं सोमं ददमानो धारयन् श्येनः शंसनीयगमनो देववान्देवैः सहितः शकुनः पक्षी मन्द्रं मदनीयं स्तुत्यं मदं मदकरं सोममुत्तरादुद्गततरादमुष्माद्दिवो द्युलोकादादाय स्वीकृत्य ददृहानो दृढीभवन् भरत् । अहरत् ॥ ६ ॥

4.26.7
आ॒दाय᳚ श्ये॒नो अ᳚भर॒त्सोमं᳚ स॒हस्रं᳚ स॒वा{4} अ॒युतं᳚ च सा॒कम् ।
अत्रा॒ पुरं᳚धिरजहा॒दरा᳚ती॒र्मदे॒ सोम᳚स्य मू॒रा अमू᳚रः ॥
▶ पदपाठः (Word-by-word)
आ॒॑दाय᳚ । श्ये॒नः । अ॒भ॒र॒त् । सोम᳚म् । स॒हस्र᳚म् । स॒वान् । अ॒युत᳚म् । च॒ । सा॒कम् ।
अत्र᳚ । पुर᳚म्॑धिः । अ॒ज॒हा॒त् । अरा᳚तीः । मदे᳚ । सोम᳚स्य । मू॒राः । अमू᳚रः ॥
▶ सायणभाष्यम् (Sayana Commentary)

श्येनः शंसनीयगमनः पक्शी सवान् सवानां यज्ञानां सहस्रं सहस्रसंख्याकमयुतं चायुतसंख्याकम् । अपरिमितसंख्याकमित्यर्थः । साकं सह सोमं सोमलक्षणमन्नमादायादानं कृत्वाभरत् । अहरत् । आजहात । अत्रास्मिन् सोम आहृते सति पुरन्धिः पुरन्धीर्बहुकर्मामूरोऽमूढः प्राज्ञः इन्द्रः सोमस्य सम्बन्धिनि मदे हर्षे सति मूरा मूढा अरातीः शत्रूनजहात् । अत्यजत् । जघानेत्यर्थः ॥ अत्रारातिशब्दः स्त्रीलङ्गः ॥ ७ ॥