चतुर्थं मण्डलम् - सूक्तम् 9

8 ऋचः

ऋषिः: वामदेवो गौतमः देवता: अग्निः छन्दः: गायत्री

सूक्तम् 4.9 - सम्पूर्णम्

1 / 8
ऋक्: 4.9.1
0:00 0:00
▶ सर्वाणि ऋक्कानि (8)
4.9.1
अग्ने᳚ मृ॒ळ म॒हा{4} अ᳚सि॒ य ई॒मा दे᳚व॒युं जन᳚म् ।
इ॒येथ᳚ ब॒र्हिरा॒सद᳚म् ॥
▶ पदपाठः (Word-by-word)
अग्ने᳚ । मृ॒ळ । म॒हान् । अ॒सि॒ । यः । ई॒म् । आ । दे॒व॒॑युम् । जन᳚म् ।
इ॒येथ᳚ । ब॒र्हिः । आ॒॑सद᳚म् ॥
▶ सायणभाष्यम् (Sayana Commentary)

अग्ने मृळेत्यष्टर्चं नवमं सूक्तं वामदेवस्यार्षं गायत्रीछन्दस्कमग्निदेवताकम् । अनुक्रान्तं च । अग्ने मृळेति । द्वितीये छन्दोम इदं सूक्तं जातवेदस्यनिविद्धानीयम् । सूत्रितं च । क्रीळं वः शर्धोऽग्ने मृळेत्याग्निमारुतम् । आ. ८-१० । इति ॥

हे अग्ग्ने मृळ । अस्मान् सुखय । सत्वं महानसि । प्रभुतो भवसि । यस्त्वमीमिमं देवयुं देवानां कामयितारं जनं यजमानं बर्हिर्दर्भमासदं यज्ञ आसत्तुमा इयेथ । आगच्छसि ॥ १ ॥

4.9.2
स मानु᳚षीषु दू॒ळभो᳚ वि॒क्षु प्रा॒वीरम᳚र्त्यः ।
दू॒तो विश्वे᳚षां भुवत् ॥
▶ पदपाठः (Word-by-word)
सः । मानु᳚षीषु । दुः॒॑दभः᳚ । वि॒क्षु । प्र॒॑अ॒वीः । अम᳚र्त्यः ।
दू॒तः । विश्वे᳚षाम् । भु॒व॒त् ॥
▶ सायणभाष्यम् (Sayana Commentary)

दूळभो दुर्दभो राक्षसादिना दुर्हिंसो मानुषीषु मनुसम्बन्धिनीषु विक्षु प्रजासु प्रावीः प्रकर्षेण गन्तामर्त्योऽमरणधर्मा सोऽग्निर्विश्वेषां सर्वेषां देवानां दूतो भुवत् । भवतु ॥ २ ॥

4.9.3
स सद्म॒ परि᳚ णीयते॒ होता᳚ म॒न्द्रो दिवि᳚ष्टिषु ।
उ॒त पोता॒ नि षी᳚दति ॥
▶ पदपाठः (Word-by-word)
सः । सद्म᳚ । परि᳚ । नी॒य॒ते॒ । होता᳚ । म॒न्द्रः । दिवि᳚ष्टिषु ।
उ॒त । पोता᳚ । नि । सी॒द॒ति॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

सोऽग्निः सद्म यज्ञगृहं परि णीयते । ऋत्विग्भिः परितो नीयते । नीयमानः सन् दिविष्टिषु यागेषु मन्द्रो मदनीयः स्तुत्यः सोऽग्निर्होता च भवति । उतापि च पोता सन्नि षीदति । यज्ञगृह उपविशति ॥ ३ ॥

4.9.4
उ॒त ग्ना अ॒ग्निर᳚ध्व॒र उ॒तो गृ॒हप᳚ति॒र्दमे᳚ ।
उ॒त ब्र॒ह्मा नि षी᳚दति ॥
▶ पदपाठः (Word-by-word)
उ॒त । ग्नाः । अ॒ग्निः । अ॒ध्व॒रे । उ॒तो इति᳚ । गृ॒ह॑प᳚तिः । दमे᳚ ।
उ॒त । ब्र॒ह्मा । नि । सी॒द॒ति॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

उतापि चाग्निरध्वरे यागे ग्ना देवपत्नीर्यजति । यष्टा भवतीत्यर्थः । यद्वा । ग्ना गच्छन्नध्वर्युर्भवति । उतो अपि च सोऽग्निर्दमे यज्ञगृहे गृहपतिर्यजमानश्च भवति । उतापि च ब्रह्मा ब्राह्मणाच्छन् सी सन्नि षीदति । उपविशति ॥ ४ ॥

4.9.5
वेषि॒ ह्य᳚ध्वरीय॒तामु᳚पव॒क्ता जना᳚नाम् ।
ह॒व्या च॒ मानु᳚षाणाम् ॥
▶ पदपाठः (Word-by-word)
वेषि᳚ । हि । अ॒ध्व॒रि॒॑य॒ताम् । उ॒प॒॑व॒क्ता । जना᳚नाम् ।
ह॒व्या । च॒ । मानु᳚षाणाम् ॥
▶ सायणभाष्यम् (Sayana Commentary)

अध्वरीयतां यज्ञमिच्छतां मानुषानां मनुसम्बन्धिनां जनानां हव्या च हव्यानि हवींषि हे अग्ने वेषि हि । कामयसे खलु । उपवक्ताध्वर्युप्रभृतीनां सर्वेषां कर्मणामनुज्ञार्थं मां प्रनयेत्यादिरूपस्य वाक्यस्य वक्ता सन् ब्रह्मा चासि । ब्रह्मा त्वो वदति जातविद्याम् । ऋग्वे. १०-७१-११ । इति श्रुतेः । उपवक्ता सर्वेषां कर्मणामवैकल्यार्थमुपद्रष्टा वा सदस्योऽसि । स हि सप्तदशः कर्मणामुपद्रष्टा भवतीत्यापस्तम्बेनोक्तत्वात् ॥ ५ ॥

4.9.6
वेषीद्व᳚स्य दू॒त्यं१॒᳚ यस्य॒ जुजो᳚षो अध्व॒रम् ।
ह॒व्यं मर्त᳚स्य॒ वोळ्ह᳚वे ॥
▶ पदपाठः (Word-by-word)
वेषि᳚ । इत् । ऊं॒ इति᳚ । अ॒स्य॒ । दू॒त्य᳚म् । यस्य᳚ । जुजो᳚षः । अ॒ध्व॒रम् ।
ह॒व्यम् । मर्त᳚स्य । वोळ्ह᳚वे ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे अग्ने त्वं मर्तस्य मनुष्यस्य यस्य यजमानस्याध्वरं यागं हव्यं हविर्वोळ्हवे वोढुम् । वहेर्धातोस्तुमर्थे सेसेनस इति तवेन्प्रत्ययः । ञ्नत्यादिर्नित्यमित्याद्युदात्तत्वम् । जुजोषः सेवेथाः । जुषी प्रीतिसेवनयोः । लेट् । बहुलं छन्दसीति शपः श्लुर्द्विर्भावश्च । लेटोऽडाटावित्यडागमः । अस्य यजमानस्य दूत्यं दूतकर्म वेषीदु । कामयस एव ॥ ६ ॥

4.9.7
अ॒स्माकं᳚ जोष्यध्व॒रम॒स्माकं᳚ य॒ज्ञम᳚ङ्गिरः ।
अ॒स्माकं᳚ शृणुधी॒ हव᳚म् ॥
▶ पदपाठः (Word-by-word)
अ॒स्माक᳚म् । जो॒षि॒ । अ॒ध्व॒रम् । अ॒स्माक᳚म् । य॒ज्ञम् । अ॒ङ्गि॒रः॒ ।
अ॒स्माक᳚म् । शृ॒णु॒धि॒ । हव᳚म् ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे अङ्गिरोऽग्ने त्वमस्माकमध्वरमस्मदीयं यागं जोषि । जुषस्व । सेवस्व । अस्माकमस्मदीयं यज्ञं यजनसाधनं हविश्च जुषस्व । अस्माकमस्मदीयं हवमाह्वानरूपं स्तोत्रं च शृणुधि । शृणु । शृणोतेर्लोण्मध्यमैकवचने सिप् । तस्य हिरादेशे श्रुवः शृचेति धातोः श्नुप्रत्ययः शृभावश्च । श्रुशृणोपॄकृवृभ्यश्छन्दसीति हेर्धिरादेशः ॥ ७ ॥

4.9.8
परि᳚ ते दू॒ळभो॒ रथो॒॑स्मा{4} अ᳚श्नोतु वि॒श्वतः᳚ ।
येन॒ रक्ष᳚सि दा॒शुषः᳚ ॥
▶ पदपाठः (Word-by-word)
परि᳚ । ते॒ । दुः॒॑दभः᳚ । रथः᳚ । अ॒स्मान् । अ॒श्नो॒तु॒ । वि॒श्वतः᳚ ।
येन᳚ । रक्ष᳚सि । दा॒शुषः᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे अग्ने त्वं येन रथेन विश्वतो विश्वासु सर्वासु दिक्षु गच्छन् दाशुषो हविष्प्रदातॄन्यजमानान्रक्षसि । विघ्नेभ्यः पालयसि । त्वदीयो दूळभो दुर्दभो दुर्हिंसः स रथोऽस्मान्यजमानान् परि परितः सर्वतोऽश्नोतु । व्याप्नोतु । अश्नोतेर्व्यत्ययेन परस्मैपदं ॥ ८ ॥