श्रवणम्

4.9.7
अ॒स्माकं᳚ जोष्यध्व॒रम॒स्माकं᳚ य॒ज्ञम᳚ङ्गिरः ।
अ॒स्माकं᳚ शृणुधी॒ हव᳚म् ॥
▶ पदपाठः (Word-by-word)
अ॒स्माक᳚म् । जो॒षि॒ । अ॒ध्व॒रम् । अ॒स्माक᳚म् । य॒ज्ञम् । अ॒ङ्गि॒रः॒ ।
अ॒स्माक᳚म् । शृ॒णु॒धि॒ । हव᳚म् ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे अङ्गिरोऽग्ने त्वमस्माकमध्वरमस्मदीयं यागं जोषि । जुषस्व । सेवस्व । अस्माकमस्मदीयं यज्ञं यजनसाधनं हविश्च जुषस्व । अस्माकमस्मदीयं हवमाह्वानरूपं स्तोत्रं च शृणुधि । शृणु । शृणोतेर्लोण्मध्यमैकवचने सिप् । तस्य हिरादेशे श्रुवः शृचेति धातोः श्नुप्रत्ययः शृभावश्च । श्रुशृणोपॄकृवृभ्यश्छन्दसीति हेर्धिरादेशः ॥ ७ ॥