चतुर्थं मण्डलम् - सूक्तम् 28

5 ऋचः

ऋषिः: वामदेवो गौतमः देवता: इंद्रासोमौ छन्दः: त्रिष्टुप्

सूक्तम् 4.28 - सम्पूर्णम्

1 / 5
ऋक्: 4.28.1
0:00 0:00
▶ सर्वाणि ऋक्कानि (5)
4.28.1
त्वा यु॒जा तव॒ तत्सो᳚म स॒ख्य इन्द्रो᳚ अ॒पो मन᳚वे स॒स्रुत᳚स्कः ।
अह॒न्नहि॒मरि᳚णात्स॒प्त सिन्धू॒नपा᳚वृणो॒दपि᳚हितेव॒ खानि᳚ ॥
▶ पदपाठः (Word-by-word)
त्वा । यु॒जा । तव᳚ । तत् । सो॒म॒ । स॒ख्ये । इन्द्रः᳚ । अ॒पः । मन᳚वे । स॒॑स्रुतः᳚ । क॒रिति᳚ कः ।
अह᳚न् । अहि᳚म् । अरि᳚णात् । स॒प्त । सिन्धू᳚न् । अप᳚ । अ॒वृ॒णो॒त् । अपि᳚हिता॑इव । खानि᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

त्वा युजेति पञ्चर्चं सप्तमं सूक्तं वामदेवस्यार्षं त्रैष्टुभमिन्द्रासोमदेवताकम् । अनुक्रान्तं च । त्वा युजैन्द्रासोममिति । विनियोगो लैङ्गिकः ॥

हे सोम तव त्वदीये तत्तस्मिन् सख्ये सखित्वे सति त्वा त्वया युजा सहायेनेन्द्रः सस्रुतः सरणशीला अपो वृष्तिलक्षणान्युदकानि मनवे मनुष्येभ्यः कः । अकरोत् । किञ्च अहिं व्रुत्रमसुरमहन् । हतवान् । सप्त सर्पणशीलाः सिन्धूनपोऽरिणात् । प्रैरयत् । अपिहितेवापिहितानीव वृत्रेण तिरोहितानि च । अत्रेवशब्दश्चार्थे । खानि स्रोतसां द्वाराण्यपावृणोत् । उद्घाटीतवान् ॥ १ ॥

4.28.2
त्वा यु॒जा नि खि᳚द॒त्सूर्य॒स्येन्द्र᳚श्च॒क्रं सह᳚सा स॒द्य इ᳚न्दो ।
अधि॒ ष्णुना᳚ बृह॒ता वर्त᳚मानं म॒हो द्रु॒हो अप᳚ वि॒श्वायु᳚ धायि ॥
▶ पदपाठः (Word-by-word)
त्वा । यु॒जा । नि । खि॒द॒त् । सूर्य᳚स्य । इन्द्रः᳚ । च॒क्रम् । सह᳚सा । स॒द्यः । इ॒न्दो॒ इति᳚ ।
अधि᳚ । स्नुना᳚ । बृ॒ह॒ता । वर्त᳚मानम् । म॒हः । द्रु॒हः । अप᳚ । वि॒श्व॑आ᳚यु । धा॒यि॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे इन्दो सोम इन्द्रः सद्यः सपदि त्वा त्वया युजा सहायेन सूर्यस्य प्रेरकस्य सवितुः सम्बन्धिनः पूर्वं द्विचक्रस्य रथस्यैकं चक्रं सहसाभिभावुकेन बलेन नि खिदत् । आच्छिनत् । कीदृशम् । अधि उपरि स्नुना स्थितेन बृहता महतान्तरिक्षेन वर्तमानम् । किञ्च महो महतः प्रभूतस्य द्रुहो द्रोग्धुः सूर्यस्य सम्बन्धि विश्वायु सर्वतो गन्तृ चक्रमप धायि । इन्द्रेणापाहारि ॥ २ ॥

4.28.3
अह॒न्निन्द्रो॒ अद᳚हद॒ग्निरि᳚न्दो पु॒रा दस्यू᳚न्म॒ध्यंदि᳚नाद॒भीके᳚ ।
दु॒र्गे दु᳚रो॒णे क्रत्वा॒ न या॒तां पु॒रू स॒हस्रा॒ शर्वा॒ नि ब᳚र्हीत् ॥
▶ पदपाठः (Word-by-word)
अह᳚न् । इन्द्रः᳚ । अद᳚हत् । अ॒ग्निः । इ॒न्दो॒ इति᳚ । पु॒रा । दस्यू᳚न् । म॒ध्यन्दि᳚नात् । अ॒भीके᳚ ।
दुः॒॑गे । दु॒रो॒णे । क्रत्वा᳚ । न । या॒ताम् । पु॒रु । स॒हस्रा᳚ । शर्वा᳚ । नि । ब॒र्ही॒त् ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे इन्दो सोम अभीके सङ्ग्रामे दस्यून् शत्रूनिन्द्रोऽहन् । अवधीत् । अग्निः कांश्चिच्छत्रूनदहत् । ददाह । कीदृशाविन्द्राग्नी । मध्यन्दिनान्मध्याह्नात्पुरा पुरस्तात्पूर्वाह्णे तव पानाल्लब्धबलाविति शेशः । यातां गच्छतामसुरानां पुरु पुरूणि बहूनि सर्वा सर्वाणि निरवशेषाणि सहस्रा सहस्राण्यपरिमितानि नि हर्हीत् । न्यबर्हीत् । इन्द्रोऽवधीत् । तत्र दृष्टान्तः । दुरोणे दुरवने रक्षितुमशक्ये दुर्गे दुरवगाहे देशे क्रत्वा न कर्मणा स्वकीयं कार्यमुद्दिश्य गच्छतः पथिकान्यथा धनलोलुपश्चोरो हन्ति तद्वत् ॥ ३ ॥

4.28.4
विश्व᳚स्मात्सीमध॒मा{4} इ᳚न्द्र॒ दस्यू॒न्विशो॒ दासी᳚रकृणोरप्रश॒स्ताः ।
अबा᳚धेथा॒ममृ᳚णतं॒ नि शत्रू॒नवि᳚न्देथा॒मप᳚चितिं॒ वध᳚त्रैः ॥
▶ पदपाठः (Word-by-word)
विश्व᳚स्मात् । सी॒म् । अ॒ध॒मान् । इ॒न्द्र॒ । दस्यू᳚न् । विशः᳚ । दासीः᳚ । अ॒कृ॒णोः॒ । अ॒प्र॒॑श॒स्ताः ।
अबा᳚धेथाम् । अमृ᳚णतम् । नि । शत्रू᳚न् । अवि᳚न्देथाम् । अप᳚॑चितिम् । वध᳚त्रैः ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे इन्द्र तवम् । सीमेनान्दस्यून्विश्वस्मात्सर्वस्माध्गुणादधमान् हीनानकृणोः । अकरोः । किञ्च दासीः कर्महीना विशो मानुषीः प्रजा अप्रशस्ता गर्हिता अकृणोः । हे इन्द्रासोमौ युवां शत्रूनबाधेथाम् । न्यमृणतम् । नितरां हिंसितवन्तौ । अपि च वधत्रैस्तेषां शत्रूणां प्रहारैरपिचितिं पूजां जनेभ्योऽविन्देथाम् । अलभेथां ॥ ४ ॥

4.28.5
ए॒वा स॒त्यं म᳚घवाना यु॒वं तदिन्द्र᳚श्च सोमो॒र्वमश्व्यं॒ गोः ।
आद᳚र्दृत॒मपि᳚हिता॒न्यश्ना᳚ रिरि॒चथु॒ः क्षाश्चि᳚त्ततृदा॒ना ॥
▶ पदपाठः (Word-by-word)
ए॒व । स॒त्यम् । म॒घ॒॑वा॒ना॒ । यु॒वम् । तत् । इन्द्रः᳚ । च॒ । सो॒म॒ । ऊ॒र्वम् । अश्व्य᳚म् । गोः ।
आ । अ॒द॒र्दृ॒त॒म् । अपि᳚॑हितानि । अश्ना᳚ । रि॒रि॒चथुः᳚ । क्षाः । चि॒त् । त॒तृ॒दा॒ना ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे सोम त्वं चेन्द्रश्चेति युवामुभापूर्वं महान्तमश्व्यमश्वसमूहं गोर्गवां समूहं चादर्दृतम् । आदरयतम् । अपिहितानि पणिभिराच्छादितानि गवां वृन्दानि क्षाश्चित् पणीनां भूमिश्चाश्नाशनपरेण बलेन रिरिचधुः । रेचितवन्तौ । हे मघवानौ धनवन्ताविन्द्रासोमौ ततृदाना शत्रूणां हिंसकौ युवं युवामेवैवमुक्तप्रकारेण यत्कृतवन्तौ तत्सर्वं सत्यमेव ॥ ५ ॥