चतुर्थं मण्डलम् - सूक्तम् 54

6 ऋचः

ऋषिः: वामदेवो गौतमः देवता: सविता छन्दः: जगती

सूक्तम् 4.54 - सम्पूर्णम्

1 / 6
ऋक्: 4.54.1
0:00 0:00
▶ सर्वाणि ऋक्कानि (6)
4.54.1
अभू᳚द्दे॒वः स᳚वि॒ता वन्द्यो॒ नु न᳚ इ॒दानी॒मह्न᳚ उप॒वाच्यो॒ नृभि᳚ः ।
वि यो रत्ना॒ भज᳚ति मान॒वेभ्य॒ः श्रेष्ठं᳚ नो॒ अत्र॒ द्रवि᳚णं॒ यथा॒ दध᳚त् ॥
▶ पदपाठः (Word-by-word)
अभू᳚त् । दे॒वः । स॒वि॒ता । वन्द्यः᳚ । नु । नः॒ । इ॒दानी᳚म् । अह्नः᳚ । उ॒प॒॑वाच्यः᳚ । नृ॑भिः᳚ ।
वि । यः । रत्ना᳚ । भज᳚ति । मा॒न॒वेभ्यः᳚ । श्रेष्ठ᳚म् । नः॒ । अत्र᳚ । द्रवि᳚णम् । यथा᳚ । दध᳚त् ॥
▶ सायणभाष्यम् (Sayana Commentary)

अभूद्देव इति षडृचं नवमं सूक्तं वामदेवस्यार्षं सावित्रम् । अन्त्या त्रिष्टुप् शिष्तास्त्रिष्टुबन्तपरिभाषया जगत्यः । तथा चानुक्रमणिका । अभूद्देवः षट् त्रिष्टुबन्तमिति । अग्निष्तोमे वैश्वदेवशस्त्रे सावित्रनिविद्धानमिदम् । तथा च सूत्रम् । अभूद्देव एकया च दशभिश्च स्वभूते । आ. ५-१८ ॥ इति । आद्यासावित्रग्रहस्यानुवाक्या । तथा च सूत्रम् । सावित्रेण ग्रहेण चरन्त्यभूद्देवः सविता वन्द्यो नु नः । आ. ५-१८ । इति ॥

स सविता देवोऽभूत् । प्रादुरासीत् । अतो नु क्षिप्रमेव नोऽस्माकं वन्द्यो वन्दनीयो भवति । इदानीं यागकालेऽह्नस्तृतीयसवने नृभिरस्मदीयैर्होतृभिरुपवाच्यः स्तुत्यो भवति । यो देवो मानवेभ्यो मनोरपत्येभ्यो यजमानेभ्यस्तेषामर्थाय रत्ना रमणीयानि धनानि वि भजति स देवः श्रेष्ठं प्रशस्यं द्रविणं गवादिलक्षणं धनं नोऽस्मभ्यमत्रास्मिन्कर्मणि यथा दधत् । दद्यादित्यर्थः । तथा वन्द्य उपवाच्यश्चाभूदिति ॥ १ ॥

4.54.2
दे॒वेभ्यो॒ हि प्र᳚थ॒मं य॒ज्ञिये᳚भ्यो॑मृत॒त्वं सु॒वसि᳚ भा॒गमु᳚त्त॒मम् ।
आदिद्दा॒मानं᳚ सवित॒र्व्यू᳚र्णुषे॑नूची॒ना जी᳚वि॒ता मानु᳚षेभ्यः ॥
▶ पदपाठः (Word-by-word)
दे॒वेभ्यः᳚ । हि । प्र॒थ॒मम् । य॒ज्ञिये᳚भ्यः । अ॒मृ॒त॒॑त्वम् । सु॒वसि᳚ । भा॒गम् । उ॒त्॑त॒मम् ।
आत् । इत् । दा॒मान᳚म् । स॒वि॒तः॒ । वि । ऊ॒र्णु॒षे॒ । अ॒नू॒ची॒ना । जी॒वि॒ता । मानु᳚षेभ्यः ॥
▶ सायणभाष्यम् (Sayana Commentary)

प्रथमं देवेभ्यो हि । हिशब्दः प्रसिद्धौ । देवेभ्यो यज्ञियेभ्यो यज्ञार्हेभ्योऽमृतत्वं तत्साधनमुत्तममुत्क्रुष्टतमं भागं सोमादिलक्षनं सुवसि । अनुजानासि । आदिदनन्तरमेव दामानं हविषां दातारं हे सवितर्व्यूर्णुषे । प्रकाशयसि । मानुषेभ्यो यजमानेभ्यो जीविता जीवितान्यनूचीनानुक्रमयुक्तानि । पित्रुपुत्रपौत्रा इत्यनुक्रमः । ईदृशानि जीवितानि पश्चाद्व्यूर्णुषे ॥ २ ॥

4.54.3
अचि᳚त्ती॒ यच्च᳚कृ॒मा दैव्ये॒ जने᳚ दी॒नैर्दक्षै॒ः प्रभू᳚ती पूरुष॒त्वता᳚ ।
दे॒वेषु᳚ च सवित॒र्मानु᳚षेषु च॒ त्वं नो॒ अत्र᳚ सुवता॒दना᳚गसः ॥
▶ पदपाठः (Word-by-word)
अचि᳚त्ती । यत् । च॒कृ॒म । दैव्ये᳚ । जने᳚ । दी॒नैः । दक्षः᳚ । प्र॑भू᳚ती । पु॒रु॒ष॒त्वता᳚ ।
दे॒वेषु᳚ । च॒ । स॒वि॒तः॒ । मानु᳚षेषु । च॒ । त्वम् । नः॒ । अत्र᳚ । सु॒व॒ता॒त् । अना᳚गसः ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे सवितर्वयमचित्ती अप्रज्ञया दैव्ये जने देवे त्वयि दीनैर्दुर्बलैः पुत्रादिभिऋत्विग्भिर्व तथा दक्षैः प्रव्रुद्धैर्वा तैह् प्रभूती प्रभूत्या । ऐश्वर्यमदेनेति यावत् । पुरुषत्वता पुरुषवत्तया च यदागमश्च कृम । न केवलं त्वय्येव कृतमपि तु देवेश्वन्येशु मानुषेषु चाज्ञानादिभिर्यच्च कृम नः क्रुतवतोऽस्मान् त्वमत्रास्मिन्कर्मण्यनागसः सुवतात् । अनुजानीहि ॥ ३ ॥

4.54.4
न प्र॒मिये᳚ सवि॒तुर्दैव्य᳚स्य॒ तद्यथा॒ विश्वं॒ भुव᳚नं धारयि॒ष्यति᳚ ।
यत्पृ᳚थि॒व्या वरि᳚म॒न्ना स्व᳚ङ्गु॒रिर्वर्ष्म᳚न्दि॒वः सु॒वति᳚ स॒त्यम᳚स्य॒ तत् ॥
▶ पदपाठः (Word-by-word)
न । प्र॒॑मिये᳚ । स॒वि॒तुः । दैव्य᳚स्य । तत् । यथा᳚ । विश्व᳚म् । भुव᳚नम् । धा॒र॒यि॒ष्यति᳚ ।
यत् । पृ॒थि॒व्याः । वरि᳚मन् । आ । सु॒॑अ॒ङ्गु॒रिः । वर्ष्म᳚न् । दि॒वः । सु॒वति᳚ । स॒त्यम् । अ॒स्य॒ । तत् ॥
▶ सायणभाष्यम् (Sayana Commentary)

देवसुवां हविःषु सवितुः सत्यप्रसवस्य न प्रमिय इति याज्या । सूत्रितं च । न प्रमीये सवितुर्दैव्यस्य तद्बृहस्पते प्रथमम् । आ. ४-११ । इति ॥

सवितुर्दैव्यस्य देवस्य तत्कर्म न प्रमिये । न प्रमीयेत । न प्रहिंस्येत । हिंसार्हं न भवतीत्यर्थः । कृत्यार्थे केन्प्रत्ययः । यद्वा । दैव्यैस्येत्यधिकरणे शष्ठी । सा च कर्मार्था । दैव्यं कर्मेत्यर्थः । कथमहिंस्यमित्यत आह । यथा विश्वं भुवनं धारयिष्यति । धारयति । विश्वधारणरूपं यत्कर्मास्ति तन्न प्रमिये । तथा स्वङ्गुरिः शोभनाङ्गुल्यपलक्षितहस्तो यत् यः पृथिव्या वरिमन्ना । आकारश्चार्थे । भूम्या उरुत्वे च सुवति । तथा दिवो द्युलोकस्य वर्ष्मन्नुरुत्वे च सुवति अस्य देवस्य तदुक्तं कर्म सत्यमबाध्यमिति ॥ ४ ॥

4.54.5
इन्द्र᳚ज्येष्ठान्बृ॒हद्भ्य॒ः पर्व᳚तेभ्य॒ः क्षया{4}᳚ एभ्यः सुवसि प॒स्त्या᳚वतः ।
यथा᳚यथा प॒तय᳚न्तो वियेमि॒र ए॒वैव त᳚स्थुः सवितः स॒वाय᳚ ते ॥
▶ पदपाठः (Word-by-word)
इन्द्र᳚॑ज्येष्ठान् । बृ॒हत्॑भ्यः᳚ । पर्व᳚तेभ्यः । क्षया᳚न् । ए॒भ्यः॒ । सु॒व॒सि॒ । प॒स्त्य᳚॑वतः ।
यथा᳚॑यथा । प॒तय᳚न्तः । वि॒॑ये॒मि॒रे । ए॒व । ए॒व । त॒स्थुः॒ । स॒वि॒त॒रिति᳚ । स॒वाय᳚ । ते॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे सवितरिन्द्रज्येष्थान् । इन्द्रः परमैश्वर्ययुक्तस्त्वमेवेन्द्रो वा ज्येष्थो ज्यायान् पूज्यो येशां ते तादृशाः । तानस्मान्बृहद्भ्यो महद्भ्यः पर्वतेभ्योऽप्यधिकान् सुवसि । प्रेरयसि । किञ्च एभ्यो यजमानेभ्यः पस्त्यावतो ग्रुहवतः क्षयान्निवासान् ग्रामनगरादीन् सुवसि । प्रेरयसि । यथा यथा पतयन्तो गच्छन्तस्त्वां वियेमिरे । विनियम्यन्ते त्वया । ते तव सवायानुज्ञाया एवैवैवमेव नियमनमनतिक्रम्य तस्थुः । तिष्थन्ति ॥ ५ ॥

4.54.6 समानपद
ये ते॒ त्रिरह᳚न्त्सवितः स॒वासो᳚ दि॒वेदि᳚वे॒ सौभ᳚गमासु॒वन्ति᳚ ।
इन्द्रो॒ द्यावा᳚पृथि॒वी सिन्धु᳚र॒द्भिरा᳚दि॒त्यैर्नो॒ अदि᳚ति॒ः शर्म᳚ यंसत् ॥
▶ पदपाठः (Word-by-word)
ये । ते॒ । त्रिः । अह᳚न् । स॒वि॒त॒रिति᳚ । स॒वासः᳚ । दि॒वे॑दि᳚वे । सौभ᳚गम् । आ॒॑सु॒वन्ति᳚ ।
इन्द्रः᳚ । द्यावा᳚पृथि॒वी इति᳚ । सिन्धुः᳚ । अ॒त्॑भिः । आ॒दि॒त्यैः । नः॒ । अदि᳚तिः । शर्म᳚ । यं॒स॒त् ॥
▶ सायणभाष्यम् (Sayana Commentary)

ये यजमाना हे सवितस्ते त्वदर्थं सवासः सवाः सोमाः । द्वितीयार्थ प्रथमा । सोमान् । यद्वा । सवासः सवनानि प्रातरादीनि प्रति त्रिरहन्नभिषुण्वन्ति । न केवलमेकस्मिन्नेवाहनि सवनत्रयेषु अपि तु दिवे दिवे प्रतिदिनं सौभागं सौभाग्यजनकमासुवन्ति । अभिषुन्वन्ति । तेभ्यो नोऽस्मभ्यमिन्द्रः शर्म यंसत् । यच्छतु । द्यावापृथिव्यौ चा द्भिर्विशिष्टा सिन्धुः सिन्ध्वभिमानिदेवता चादित्यैः सहितादितिश्च शर्म यंसत् । सावित्रे सूक्त इन्द्रादीनां निपातमिक्त्वा तेषां प्रार्थना न विरुध्यते ॥ ६ ॥