चतुर्थं मण्डलम् - सूक्तम् 31

15 ऋचः

ऋषिः: वामदेवो गौतमः देवता: इंद्रः छन्दः: गायत्री

सूक्तम् 4.31 - सम्पूर्णम्

1 / 15
ऋक्: 4.31.1
0:00 0:00
▶ सर्वाणि ऋक्कानि (15)
4.31.1
कया᳚ नश्चि॒त्र आ भु᳚वदू॒ती स॒दावृ᳚ध॒ः सखा᳚ ।
कया॒ शचि᳚ष्ठया वृ॒ता ॥
▶ पदपाठः (Word-by-word)
कया᳚ । नः॒ । चि॒त्रः । आ । भु॒व॒त् । ऊ॒ती । स॒दा॑वृ᳚धः । सखा᳚ ।
कया᳚ । शचि᳚ष्ठया । वृ॒ता ॥
▶ सायणभाष्यम् (Sayana Commentary)

कया न इति पञ्चदशर्चं दशमं सूक्तं वामदेवस्यार्षमैन्द्रं गायत्रम् । अभी षु ण इत्येषा पादनिचृन्नाम गायत्री त्रयः सप्तकाः पादनिचृदिति तल्लक्षणयुक्तत्वात् । तथा चानुक्रमणिका । कया पञ्चोनाभी षु पादनिचृदिति ॥ सूक्तविनियोगो लैङ्गिकः । अग्निष्टोमे चातुर्विंशिकेऽहनि च माध्यन्दिने सवने मैत्रावरुणस्य कया न इत्याद्यस्तृचः स्तोत्रियः । सूत्रितं च । होत्रकाणां कया नश्चित्र आ भुवत् । आ. ७-४ । इति । वरुण प्रघासेषु कायस्य हविषोऽनुवाक्या कयान इत्येषा । तथा च सूत्रितम् । कया नश्चित्र आ भुवद्धिरण्यगर्भः समवर्तताग्रे ॥ आ. २-१७ । इति ॥

सदावृधः सदा वर्थमानश्चित्रश्चायनीयः पूजनीयः सखा मित्रभूत इन्द्रः कयोती ऊत्या तर्पणेन नोऽस्माना भुवत् । अभिमुख्येन भवेत् । शचिष्थया प्रज्ञावत्तमया प्रज्ञासहितमनुष्ठीयमानेन कया वृता केन वर्तनेन कर्मणा चाभिमुखो भवेत् ॥ १ ॥

4.31.2
कस्त्वा᳚ स॒त्यो मदा᳚नां॒ मंहि᳚ष्ठो मत्स॒दन्ध᳚सः ।
दृ॒ळ्हा चि᳚दा॒रुजे॒ वसु᳚ ॥
▶ पदपाठः (Word-by-word)
कः । त्वा॒ । स॒त्यः । मदा᳚नाम् । मंहि᳚ष्ठः । म॒त्स॒त् । अन्ध᳚सः ।
दृ॒ळ्हा । चि॒त् । आ॒॑रुजे᳚ । वसु᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

मंहिष्ठः पूजनीयः सत्यः सत्यभूतो मदानां मादयितॄणां मध्ये को मदकरोऽन्धसः सोमस्य रसो दृळ्हा चित् दृढान्यपि वसु वसूनि शत्रूणां धननन्यारुज आ समन्ताद्भंक्तुं हे इन्द्र त्वा त्वां मत्सत् । मादयेत् ॥ २ ॥

4.31.3
अ॒भी षु ण॒ः सखी᳚नामवि॒ता ज᳚रितॄ॒णाम् ।
श॒तं भ᳚वास्यू॒तिभि᳚ः ॥
▶ पदपाठः (Word-by-word)
अ॒भि । सु । नः॒ । सखी᳚नाम् । अ॒वि॒ता । ज॒रि॒तॄ॒णाम् ।
श॒तम् । भ॒वा॒सि॒ । ऊ॒ति॑भिः᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे इन्द्र त्वं सखीनां समानख्यातीनां जरितॄणां स्तोतॄणामिविता रक्षिता त्वं शतं शतेन बह्वीभिरूतिभी रक्षाभिः सह नोऽस्माकं सु सुष्ठ्वभि भवासि । अभिमुखो भव ॥ ३ ॥

4.31.4
अ॒भी न॒ आ व᳚वृत्स्व च॒क्रं न वृ॒त्तमर्व᳚तः ।
नि॒युद्भि᳚श्चर्षणी॒नाम् ॥
▶ पदपाठः (Word-by-word)
अ॒भि । नः॒ । आ । व॒वृ॒त्स्व॒ । च॒क्रम् । न । वृ॒त्तम् । अर्व᳚तः ।
नि॒युत्॑भिः᳚ । च॒र्ष॒णी॒नाम् ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे इन्द्र त्वं वृत्तम् चक्रं न वर्तमानं चक्रमिवार्वत उपगंतॄन्नोऽस्मान् चर्षणीनामस्मदीयानां मनुष्यानां नियुद्भिः स्तुतिभिरभ्या ववृत्स्व । अभ्यावर्तस्व ॥ ४ ॥

4.31.5
प्र॒वता॒ हि क्रतू᳚ना॒मा हा᳚ प॒देव॒ गच्छ᳚सि ।
अभ᳚क्षि॒ सूर्ये॒ सचा᳚ ॥
▶ पदपाठः (Word-by-word)
प्र॒॑वता᳚ । हि । क्रतू᳚नाम् । आ । ह॒ । प॒दा॑इ᳚व । गच्छ᳚सि ।
अभ᳚क्षि । सूर्ये᳚ । सचा᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे इन्द्र त्वं क्रतूनां कर्मणां यजमानानां सम्बन्धिनः प्रवता प्रवतः प्रवणान्देशान्पदेव पदानि स्वकीयानि स्थानानीवा गच्छसि हि । आगतो भवसि खलु । हेति पूरणः । हे इन्द्र त्वामहं सूर्ये सूर्येण सचा सहाभक्षि । भजे ॥ ५ ॥

4.31.6
सं यत्त᳚ इन्द्र म॒न्यव॒ः सं च॒क्राणि᳚ दधन्वि॒रे ।
अध॒ त्वे अध॒ सूर्ये᳚ ॥
▶ पदपाठः (Word-by-word)
सम् । यत् । ते॒ । इ॒न्द्र॒ । म॒न्यवः᳚ । सम् । च॒क्राणि᳚ । द॒ध॒न्वि॒रे ।
अध᳚ । त्वे इति᳚ । अध᳚ । सूर्ये᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे इन्द्र ते त्वदर्थं मन्यवः स्तुतयो यद्यदा सं दधन्विरे । अस्माभिरनुमन्यन्ते । चक्राणि चंक्रमणानि कर्माणि च सं दधन्विरे अध तदानीं ताः स्तुतयस्तानि कर्माणि च त्वे त्वयि भवन्ति । अध तदनन्तरं सूर्ये च भवन्ति ॥ ६ ॥

4.31.7
उ॒त स्मा॒ हि त्वामा॒हुरिन्म॒घवा᳚नं शचीपते ।
दाता᳚र॒मवि᳚दीधयुम् ॥
▶ पदपाठः (Word-by-word)
उ॒त । स्म॒ । हि । त्वाम् । आ॒हुः । इत् । म॒घ॑वा᳚नम् । श॒ची॒॑प॒ते॒ ।
दाता᳚रम् । अवि᳚॑दीधयुम् ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे शचीपते कर्मपालकेन्द्र उतापि च मघवानं धनवन्तं दातारं स्तोतृभ्योऽभीष्टप्रदं त्वा त्वामविदीधयुम् । विदीधयुरदीप्यमानः । न विदीधयुरविदीधयुः । तं दीप्यमानमाहुः स्म । प्रवदन्ति खलु । हीदिति द्वयं पूरणार्थं ॥ ७ ॥

4.31.8
उ॒त स्मा᳚ स॒द्य इत्परि᳚ शशमा॒नाय᳚ सुन्व॒ते ।
पु॒रू चि᳚न्मंहसे॒ वसु᳚ ॥
▶ पदपाठः (Word-by-word)
उ॒त । स्म॒ । स॒द्यः । इत् । परि᳚ । श॒श॒मा॒नाय᳚ । सु॒न्व॒ते ।
पु॒रु । चि॒त् । मं॒ह॒से॒ । वसु᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

उतापि च हे इन्द्र त्वं सद्य इत्सद्य एव शशमानाय स्तुतिं कुर्वते । शशमानः शंसमानः । नि. ६-८ । इति यास्केनोक्तत्वात् । सुन्वते सोमाभिषवं कुर्वते यजमानाय पुरु चित्पुरूणि बहून्यपि वसु वसूनि धनानि परि परितो मंहसे स्म । प्रयच्छसि खलु ॥ ८ ॥

4.31.9
न॒हि ष्मा᳚ ते श॒तं च॒न राधो॒ वर᳚न्त आ॒मुरः᳚ ।
न च्यौ॒त्नानि᳚ करिष्य॒तः ॥
▶ पदपाठः (Word-by-word)
न॒हि । स्म॒ । ते॒ । श॒तम् । च॒न । राधः᳚ । वर᳚न्ते । आ॒॑मुरः᳚ ।
न । च्यौ॒त्नानि᳚ । क॒रि॒ष्य॒तः ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे इन्द्र आमुरो भादका राक्शसादयस्ते त्वदीयं शतं चन शतपरिमितमपि राधो धनं नहि वरन्ति स्म । न वारयन्ति खलु । किञ्च शत्रूणां हिंसनं करिष्यतस्तवच्यौत्नानि बलानि न वारयन्ति ॥ ९ ॥

4.31.10
अ॒स्मा{4} अ᳚वन्तु ते श॒तम॒स्मान्त्स॒हस्र᳚मू॒तयः᳚ ।
अ॒स्मान्विश्वा᳚ अ॒भिष्ट᳚यः ॥
▶ पदपाठः (Word-by-word)
अ॒स्मान् । अ॒व॒न्तु॒ । ते॒ । श॒तम् । अ॒स्मान् । स॒हस्र᳚म् । ऊ॒तयः᳚ ।
अ॒स्मान् । विश्वाः᳚ । अ॒भिष्ट᳚यः ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे इन्द्र ते त्वदीयाः शतं शतसंख्याका ऊतयो रक्षा अस्मानवन्तु । रक्षण्तु । सहस्रं सहस्रसंख्याकास्त्वदीया रक्षा अस्मानवन्तु । विश्वाः सर्वाण्यभिष्टयस्त्वदीयान्यभिगमनान्यस्मानवन्तु ॥ १० ॥

4.31.11
अ॒स्मा{4} इ॒हा वृ᳚णीष्व स॒ख्याय᳚ स्व॒स्तये᳚ ।
म॒हो रा॒ये दि॒वित्म᳚ते ॥
▶ पदपाठः (Word-by-word)
अ॒स्मान् । इ॒ह । वृ॒णी॒ष्व॒ । स॒ख्याय᳚ । स्व॒स्तये᳚ ।
म॒हः । रा॒ये । दि॒वित्म᳚ते ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे इन्द्र त्वमिहास्मिन्यज्ञेऽस्मान्यजमानान् सख्याय सखिभावाय स्वस्तयेऽविनाशाय च महो महते दिवित्मते दीप्तिमते राये धनाय च वृणीष्व । सम्भजस्व ॥ ११ ॥

4.31.12
अ॒स्मा{4} अ᳚विड्ढि वि॒श्वहेन्द्र᳚ रा॒या परी᳚णसा ।
अ॒स्मान्विश्वा᳚भिरू॒तिभि᳚ः ॥
▶ पदपाठः (Word-by-word)
अ॒स्मान् । अ॒वि॒ड्ढि॒ । वि॒श्वहा᳚ । इन्द्र᳚ । रा॒या । परी᳚णसा ।
अ॒स्मान् । विश्वा᳚भिः । ऊ॒ति॑भिः᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे इन्द्र त्वं विश्वहा सर्वेष्वहःसु परीणसा महता राया धनेनास्मान्यजमानानविड्ढि । रक्ष । किञ्च विश्वाभिः सर्वाभिरूतिभी रक्शाभिरस्मानविड्ढी ॥ १२ ॥

4.31.13
अ॒स्मभ्यं॒ ता{4} अपा᳚ वृधि व्र॒जा{4} अस्ते᳚व॒ गोम᳚तः ।
नवा᳚भिरिन्द्रो॒तिभि᳚ः ॥
▶ पदपाठः (Word-by-word)
अ॒स्मभ्य᳚म् । तान् । अप᳚ । वृ॒धि॒ । व्र॒जान् । अस्ता᳚॑इव । गो॑म᳚तः ।
नवा᳚भिः । इ॒न्द्र॒ । ऊ॒ति॑भिः᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे इन्द्र त्वं नवाभिनूतनाभिरूतिभी रक्षाभिरस्तेव क्षेप्ता शूर इव गोमतो गोभिर्युक्तान् तान् प्रसिद्धान्रजान् गोनिवासानस्मभ्यमपा वृधि । उद्घाटय ॥ १३ ॥

4.31.14
अ॒स्माकं᳚ धृष्णु॒या रथो᳚ द्यु॒मा{4} इ॒न्द्रान᳚पच्युतः ।
ग॒व्युर᳚श्व॒युरी᳚यते ॥
▶ पदपाठः (Word-by-word)
अ॒स्माक᳚म् । धृ॒ष्णु॒॑या । रथः᳚ । द्यु॒॑मान् । इ॒न्द्र॒ । अन᳚प॑च्युतः ।
ग॒व्युः । अ॒श्व॒॑युः । ई॒य॒ते॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे इन्द्र धृष्णुया धृष्णुः शत्रूणां धर्षको द्युमान्दीप्तिमाननपच्युतो विनाशरहितो गव्युर्गोमानश्वयुरश्ववानस्माकमस्मत्सम्बन्धी रथ ईयते । सर्वत्र गच्छतु । तेन रथेनास्मान्रक्शेत्यर्थः ॥ १४ ॥

4.31.15
अ॒स्माक᳚मुत्त॒मं कृ᳚धि॒ श्रवो᳚ दे॒वेषु᳚ सूर्य ।
वर्षि᳚ष्ठं॒ द्यामि᳚वो॒परि᳚ ॥
▶ पदपाठः (Word-by-word)
अ॒स्माक᳚म् । उ॒त्॑त॒मम् । कृ॒धि॒ । श्रवः᳚ । दे॒वेषु᳚ । सू॒र्य॒ ।
वर्षि᳚ष्ठम् । द्याम्॑इ᳚व । उ॒परि᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

अस्माकमुत्तमं कृधीत्यनयादित्यं दृष्ट्वा रथादवरोहेत् । तथा च सूत्रितम् । अस्माकमत्तमं कृधीत्यादित्यमीक्षमाणो जपित्वावरोहेत् । आ. गृ. २-६-१२ । इति

हे सूर्य सर्वस्य प्रेरकेन्द्र हे आदित्य वा त्वं देवेषु द्योतमानेषु वह्न्यादिषु मध्येऽस्माकमस्मत्सम्बन्धि श्रवो यश उत्तममुत्कृष्टं कृधि । कुरु । तत्र दृष्टान्तः । वर्षिष्थमतिशयेन प्रवृद्धं सेचनसमर्थं वा द्यामिव द्युलोकं यथा सर्वेषां लोकानामुपरि स्थितमुत्कृष्टमकरोस्तद्वत् ॥ १५ ॥