चतुर्थं मण्डलम् - सूक्तम् 6

11 ऋचः

ऋषिः: वामदेवो गौतमः देवता: अग्निः छन्दः: त्रिष्टुप्

सूक्तम् 4.6 - सम्पूर्णम्

1 / 11
ऋक्: 4.6.1
0:00 0:00
▶ सर्वाणि ऋक्कानि (11)
4.6.1
ऊ॒र्ध्व ऊ॒ षु णो᳚ अध्वरस्य होत॒रग्ने॒ तिष्ठ᳚ दे॒वता᳚ता॒ यजी᳚यान् ।
त्वं हि विश्व᳚म॒भ्यसि॒ मन्म॒ प्र वे॒धस᳚श्चित्तिरसि मनी॒षाम् ॥
▶ पदपाठः (Word-by-word)
ऊ॒र्ध्वः । ऊं॒ इति᳚ । सु । नः॒ । अ॒ध्व॒र॒स्य॒ । हो॒तः॒ । अग्ने᳚ । तिष्ठ᳚ । दे॒व॑ता᳚ता । यजी᳚यान् ।
त्वम् । हि । विश्व᳚म् । अ॒भि । असि᳚ । मन्म᳚ । प्र । वे॒धसः᳚ । चि॒त् । ति॒र॒सि॒ । म॒नी॒षाम् ॥
▶ सायणभाष्यम् (Sayana Commentary)

ऊर्ध्व ऊषुण इत्येकादशर्चम् षष्ठं सूक्तं वामदेवस्यार्षं त्रैष्टुभमाग्नेयम् । ऊर्ध्व ऊ ष्वेकादशेत्यनुक्रान्तम् । प्रातरनुवाकाश्विनशस्त्रयोराग्नेये क्रतौ त्रैष्टुभे छन्दसीदम् । सूत्रितं च । ऊर्ध्व ऊ षु णः ससस्य यद्वियुतेति पञ्च । आ. ४-१३ । इति ॥

हे अध्वरस्य होतर्यागसम्बन्धिनां देवानामाह्वातः । यद्वा । होतरित्यत्र प्रकृत्यंशोऽनुवादः । हे होमनिश्पादकाग्ने यजीयान्यष्टृतमस्त्वं नोऽस्माकमूर्ध्व ऊ षु तीष्ठ । उन्नत एव तिष्थ । नित्यमुन्नतो भवेत्यर्थः । कुत्रेति तदुच्यते । देवताता देवतातौ । देवास्तायन्ते विस्तीर्यन्तेऽत्रेति देवतातिर्यज्ञः । तस्मिन् । त्वं हि त्वं खलु विश्वं सर्वं मन्म मननीयं शत्रूणां धनमभ्यसि । अभिभवसि । किञ्च वेधसश्चित् । चित्पूजायाम् । स्तोतुरयजमानादेर्मनीषां मतिं स्तुतिं प्रतिरसि । प्रवर्धयसि । प्रपूर्वस्तिरतिर्वर्धनार्थः ॥ १ ॥

4.6.2 समानपद
अमू᳚रो॒ होता॒ न्य᳚सादि वि॒क्ष्व१॒᳚ग्निर्म॒न्द्रो वि॒दथे᳚षु॒ प्रचे᳚ताः ।
ऊ॒र्ध्वं भा॒नुं स᳚वि॒तेवा᳚श्रे॒न्मेते᳚व धू॒मं स्त᳚भाय॒दुप॒ द्याम् ॥
▶ पदपाठः (Word-by-word)
अमू᳚रः । होता᳚ । नि । अ॒सा॒दि॒ । वि॒क्षु । अ॒ग्निः । म॒न्द्रः । वि॒दथे᳚षु । प्र॑चे᳚ताः ।
ऊ॒र्ध्वम् । भा॒नुम् । स॒वि॒ता॑इ᳚व । अ॒श्रे॒त् । मेता᳚॑इव । धू॒मम् । स्त॒भा॒य॒त् । उप᳚ । द्याम् ॥
▶ सायणभाष्यम् (Sayana Commentary)

अमूरोऽमूढः । प्रगल्भ इत्यर्थः । होता होमनिष्पादको मन्द्रो मदनीयो मादयिता वा प्रचेताः प्रकृष्टज्ञानोऽग्निर्देवो विक्वृत्विग्रूपासु प्रजासु मध्ये विदथेषु यागेषु निमित्तभूतेषु न्यसादि । नितरां स्थापितः । अथ तथाभूतोऽग्निर्भानुं दीप्तिं सवितेवोदितः सूर्य इवोर्द्य्ह्वमश्रेत् । ऊर्ध्वमुखमाश्रयति । किञ्च मेतेव स्थूणेव । सा यथा स्वाधिष्ठितं विंशादिकं स्तभ्नाति तद्वदयमग्निर्धूमं स्वोत्थितं द्यामुप द्युलोकस्योपरि स्तभायत् । स्तभ्नाति । ॥ २ ॥

4.6.3
य॒ता सु᳚जू॒र्णी रा॒तिनी᳚ घृ॒ताची᳚ प्रदक्षि॒णिद्दे॒वता᳚तिमुरा॒णः ।
उदु॒ स्वरु᳚र्नव॒जा नाक्रः प॒श्वो अ᳚नक्ति॒ सुधि᳚तः सु॒मेकः᳚ ॥
▶ पदपाठः (Word-by-word)
य॒ता । सु॒॑जू॒र्णिः । रा॒तिनी᳚ । घृ॒ताची᳚ । प्र॒॑द॒क्षि॒णित् । दे॒व॑ता᳚तिम् । उ॒रा॒णः ।
उत् । ऊं॒ इति᳚ । स्वरुः᳚ । न॒व॒॑जाः । न । अ॒क्रः । प॒श्वः । अ॒न॒क्ति॒ । सु॑धि᳚तः । सु॒॑मेकः᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

याता संयता सुजूर्णिः शोभनजवा सुष्ठु जीर्णा पुराणी वा । घृताची घृतमञ्चतीति घृताची जुहोः । रातिनी । रातिर्धनम् । हविर्लक्षणधनवती । आज्यपूर्णा भवतीत्यर्थः । देवतातिं यज्ञं तथोराण उरु कुर्वाणोऽध्वर्युरग्निर्वा प्रदक्षिणित् । अप्रदक्षिणमेतीति प्रदक्षिणित् । प्रदक्षिणगमनो भवति । अकारलोपश्छान्दसः । नवजा नवजातस्तदानीमेवोत्पादितः स्वरुर्न । यूपशकलवाची स्परुरत्र यूपं लक्षयति । चषालवन्तः स्वरवः पृथिवाम् । ऋग्वे. ३-८-१० । इत्यादिषु स्वरुशब्देन यूपाभिधानाच्च । नकारः समुच्चये । यूपोऽप्युदु उपसर्गश्रुतेर्योग्यक्रियाध्याहारः । उन्नतो भवति । किञ्च अक्र आक्रमिता । सुमेकः सुदीप्तः सुधितः स्वधितिरित्यर्थः । सोऽपि पश्वः पशूननक्ति । गच्छति । यद्वा । सुधितः स्वरुरेवोदु उत्कृष्टः पश्वः पशूननक्ति । स्वरुणा पशुमनक्तीति श्रुतेः ॥ ३ ॥

4.6.4
स्ती॒र्णे ब॒र्हिषि᳚ समिधा॒ने अ॒ग्ना ऊ॒र्ध्वो अ᳚ध्व॒र्युर्जु᳚जुषा॒णो अ᳚स्थात् ।
पर्य॒ग्निः प᳚शु॒पा न होता᳚ त्रिवि॒ष्ट्ये᳚ति प्र॒दिव᳚ उरा॒णः ॥
▶ पदपाठः (Word-by-word)
स्ती॒र्णे । ब॒र्हिषि᳚ । स॒म्॑इ॒धा॒ने । अ॒ग्नौ । ऊ॒र्ध्वः । अ॒ध्व॒र्युः । जु॒जु॒षा॒णः । अ॒स्था॒त् ।
परि᳚ । अ॒ग्निः । प॒शु॒॑पाः । न । होता᳚ । त्रि॒॑वि॒ष्टि । ए॒ति॒ । प्र॒॑दिवः᳚ । उ॒रा॒णः ॥
▶ सायणभाष्यम् (Sayana Commentary)

बर्हिषि वेद्यां स्तीर्ण आस्तृते सत्यग्नावाहवनीयादिके समिधाने सम्यगिध्यमाने च सत्यध्वर्युरध्वरस्य नेता जुजुषाणो देवान्प्रीणयन्नोर्ध्वोऽस्थात् । तिष्ठति । होता होमनिष्पादकः प्रदिवः । पुराणनामैतत् । पुरातन उराणः स्वल्पमपि हविर्देवहोग्यत्वं सम्पादनेनोरु कुर्वाणः । उराण उरु कुर्वाण इति निरुक्तम् । यद्वै देवैर्जोष्यते हविस्तद्गिरिमात्रं वर्धत इति श्रुतेरग्नेरुरुकरणमुचितम् । ईदृशोऽग्निः पशुपा न पशूनां पालक इव पशून् त्रिविष्टि त्रिरावृत्य पर्येति त्रिर्हि पर्यग्निः क्रियते ॥ ४ ॥

4.6.5
परि॒ त्मना᳚ मि॒तद्रु᳚रेति॒ होता॒ग्निर्म॒न्द्रो मधु᳚वचा ऋ॒तावा᳚ ।
द्रव᳚न्त्यस्य वा॒जिनो॒ न शोका॒ भय᳚न्ते॒ विश्वा॒ भुव᳚ना॒ यदभ्रा᳚ट् ॥
▶ पदपाठः (Word-by-word)
परि᳚ । त्मना᳚ । मि॒त॑द्रुः᳚ । ए॒ति॒ । होता᳚ । अ॒ग्निः । म॒न्द्रः । मधु᳚॑वचाः । ऋ॒त॑वा᳚ ।
द्रव᳚न्ति । अ॒स्य॒ । वा॒जिनः᳚ । न । शोकाः᳚ । भय᳚न्ते । विश्वा᳚ । भुव᳚ना । यत् । अभ्रा᳚ट् ॥
▶ सायणभाष्यम् (Sayana Commentary)

उक्तमेवार्थं स्पष्टयति । अयं होता होमनिष्पादकोऽग्निस्त्मनात्मना स्वरूपेणैव मितद्रुः परिमितगतिः सन् पर्येति । परितो गच्छति पशुम् । कीदृशोऽयम् । मन्द्रो मादनीयो मोदयिता वा मधुवचा मधुरवचन ऋतावा यज्ञवान् । वाजिनो हविष्मतोऽस्याग्नेः शोका न दीप्तयोऽपि । न शब्दोऽप्यर्थे । द्रवन्ति । गच्छन्ति परितः । यद्वा । नकार उपमार्थीयः । वाजिनो न अश्वा इव द्रवन्तीति योज्यम् । यद्यस्मादयमभ्राट् । भ्राजते । तस्माद्विश्वा भुवना सर्वाणि भूतजातानि भयन्ते । भीतानि भवन्ति ॥ ५ ॥

4.6.6
भ॒द्रा ते᳚ अग्ने स्वनीक सं॒दृग्घो॒रस्य᳚ स॒तो विषु᳚णस्य॒ चारु᳚ः ।
न यत्ते᳚ शो॒चिस्तम᳚सा॒ वर᳚न्त॒ न ध्व॒स्मान᳚स्त॒न्वी॒३॒᳚ रेप॒ आ धु᳚ः ॥
▶ पदपाठः (Word-by-word)
भ॒द्रा । ते॒ । अ॒ग्ने॒ । सु॒॑अ॒नी॒क॒ । स॒म्॑दृक् । घो॒रस्य᳚ । स॒तः । विषु᳚णस्य । चारुः᳚ ।
न । यत् । ते॒ । शो॒चिः । तम᳚सा । वर᳚न्त । न । ध्व॒स्मानः᳚ । त॒न्वि᳚ । रेपः᳚ । आ । धु॒रिति᳚ धुः ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे स्वनीक शोभनज्वालाग्ने घोरस्य भीतजनकस्यापि सतो विषुणस्य विष्वक् सर्वतो व्याप्तस्य ते तव चारू रमणीया भद्रा स्तुत्या कल्याणी वा मूर्तिः सन्दृक् संदृष्टिः । सम्यक् दृश्या भवतीत्यर्थः । यद्यस्मात्ते शोचिर्दीप्तिं तमसान्धकाररेण न वरन्त । वारयन्ति निशाः । यस्माच्च ध्वस्मानोध्वंसका राक्षसादयस्ते तन्वि तव शरीरे रेपः पापं ध्वंसनादिरूपं नाधुः । न दधति । न कुर्वन्ति । अतः संदृगिति संबन्धः ॥ ६ ॥

4.6.7
न यस्य॒ सातु॒र्जनि᳚तो॒रवा᳚रि॒ न मा॒तरा᳚पि॒तरा॒ नू चि᳚दि॒ष्टौ ।
अधा᳚ मि॒त्रो न सुधि᳚तः पाव॒को॒३॒᳚॑ग्निर्दी᳚दाय॒ मानु᳚षीषु वि॒क्षु ॥
▶ पदपाठः (Word-by-word)
न । यस्य᳚ । सातुः᳚ । जनि᳚तोः । अवा᳚रि । न । मा॒तरा᳚पि॒तरा᳚ । नु । चि॒त् । इ॒ष्टौ ।
अध᳚ । मि॒त्रः । न । सु॑धि᳚तः । पा॒व॒कः । अ॒ग्निः । दी॒दा॒य॒ । मानु᳚षीषु । वि॒क्षु ॥
▶ सायणभाष्यम् (Sayana Commentary)

जनितोर्जनयितुर्वृष्ट्युत्पादकस्य यस्य वैश्वानरस्य सातु सनिः पश्वदिलक्षणं दानं दीप्तिर्वा नावारि । केनापि न वार्यते । किञ्च मातरा पितरा माता पितरौ द्यावापृथिव्यौ यस्येष्टौ प्रेषने नू चित् क्षिप्रमेव न प्रभवतः । अधापि च मित्रो न सखेव सुधितः सुतृप्तः पावकः शोधकोऽग्निर्मानुषीषु मनोः सम्बन्धिनीषु विक्षु प्रजासु दीदाय । दीप्यते । दीपी दीप्तौ । पकारलोपश्छान्दसः । व्यत्ययेन परस्मैपदम् । लिट्यभ्यासस्य ह्रस्वे कृते तुजादित्वाद्दीर्घत्वं ॥ ७ ॥

4.6.8 समानपद
द्विर्यं पञ्च॒ जीज᳚नन्त्सं॒वसा᳚ना॒ः स्वसा᳚रो अ॒ग्निं मानु᳚षीषु वि॒क्षु ।
उ॒ष॒र्बुध᳚मथ॒र्यो॒३॒᳚ न दन्तं᳚ शु॒क्रं स्वासं᳚ पर॒शुं न ति॒ग्मम् ॥
▶ पदपाठः (Word-by-word)
द्विः । यम् । पञ्च᳚ । जीज᳚नन् । स॒म्॑वसा᳚नाः । स्वसा᳚रः । अ॒ग्निम् । मानु᳚षीषु । वि॒क्षु ।
उ॒षः॒॑बुध᳚म् । अ॒थ॒र्यः᳚ । न । दन्त᳚म् । शु॒क्रम् । सु॒॑आस᳚म् । प॒र॒शुम् । न । ति॒ग्मम् ॥
▶ सायणभाष्यम् (Sayana Commentary)

मानुषीषु मनोः सम्बन्धिनीषु विक्षु प्रजासु संवसानाः सङ्गच्छमाना द्विः पञ्च दश स्वसारोऽङ्गुलयो यमग्निं जीजनन् । मन्थनेनोदपादयन् । जनीप्रादुर्भावे । लुङि छान्दसत्वादडभावः । कीदृश्य अङ्गुलयः । अथर्यो न स्त्रिय इव । कीदृशमग्निम् । उषर्बुधमुषसि बुध्यमानं दन्तं हविषां भक्षकं शुक्रं रश्मिभिर्दीप्यमानं स्वासं शोभनास्यं तिग्मं तीक्ष्णं परशुं न परशुमिव रक्षसां हन्तारमिति शेषः ॥ ८ ॥

4.6.9
तव॒ त्ये अ᳚ग्ने ह॒रितो᳚ घृत॒स्ना रोहि᳚तास ऋ॒ज्वञ्च॒ः स्वञ्च᳚ः ।
अ॒रु॒षासो॒ वृष᳚ण ऋजुमु॒ष्का आ दे॒वता᳚तिमह्वन्त द॒स्माः ॥
▶ पदपाठः (Word-by-word)
तव᳚ । त्ये । अ॒ग्ने॒ । ह॒रितः᳚ । घृ॒त॒॑स्नाः । रोहि᳚तासः । ऋ॒जु॒॑अञ्चः᳚ । सु॒॑अञ्चः᳚ ।
अ॒रु॒षासः᳚ । वृष᳚णः । ऋ॒जु॒॑मु॒ष्काः । आ । दे॒व॑ता᳚तिम् । अ॒ह्व॒न्त॒ । द॒स्माः ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे अगेन् त्ये ते प्रसिद्धास्तव हरितस्त्वत्सम्बन्धिनोऽश्वा देवतातिमस्मदीयं यागं प्रत्याह्वन्त । ऋत्विग्भिराहूयन्ते । लुङि लिपोसिचिह्वश्चेत्यङादेशः । कीदृशाः । घृतस्ना घृतस्नुवो बलातिशयान्नासापुटादिस्थानेभ्य उदकं क्शरन्तो रोहितासो रोहिता लोहितवर्णा ऋज्वञ्चः । ऋज्वकुटिलमञ्चन्ति गाच्छन्तीत्यृज्वञ्चः । स्वञ्च सुष्ठु गच्छन्तः । अरुषास आरोचमाना वृषणो युवानो वर्षितारो वा । वाषपूर्वस्य निगम इति विकल्पेन दीर्घविधानादत्र दीर्घाभावः । ऋजुमुष्काः साधनमुष्का दस्मा दर्शनीयाः ॥ ९ ॥

4.6.10
ये ह॒ त्ये ते॒ सह᳚माना अ॒यास᳚स्त्वे॒षासो᳚ अग्ने अ॒र्चय॒श्चर᳚न्ति ।
श्ये॒नासो॒ न दु᳚वस॒नासो॒ अर्थं᳚ तुविष्व॒णसो॒ मारु᳚तं॒ न शर्ध᳚ः ॥
▶ पदपाठः (Word-by-word)
ये । ह॒ । त्ये । ते॒ । सह᳚मानाः । अ॒यासः᳚ । त्वे॒षासः᳚ । अ॒ग्ने॒ । अ॒र्चयः᳚ । चर᳚न्ति ।
श्ये॒नासः᳚ । न । दु॒व॒स॒नासः᳚ । अर्थ᳚म् । तु॒वि॒॑स्व॒नसः᳚ । मारु᳚तम् । न । शर्धः᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे अग्ने ये ह खलु त्ये ते प्रसिद्धाः सहमानाः शत्रूनभिभवन्तोऽयासो गमनशीलास्त्वेषासो दीप्ता दुवसनासः परिचरणीयास्त्ते त्वदीया अर्चयो रश्मयः श्येनासो न अश्वा इवार्थं गन्तव्यं चरन्ति । गच्छन्ति । कीदृशाः । मारुतं शर्धो न मरुत्सम्बन्धी गण इव तुविष्वणसस्तुविस्वना अधिकध्वनयो भवन्ति ॥ १० ॥

4.6.11
अका᳚रि॒ ब्रह्म᳚ समिधान॒ तुभ्यं॒ शंसा᳚त्यु॒क्थं यज᳚ते॒ व्यू᳚ धाः ।
होता᳚रम॒ग्निं मनु᳚षो॒ नि षे᳚दुर्नम॒स्यन्त᳚ उ॒शिज॒ः शंस᳚मा॒योः ॥
▶ पदपाठः (Word-by-word)
अका᳚रि । ब्रह्म᳚ । स॒म्॑इ॒धा॒न॒ । तुभ्य᳚म् । शंसा᳚ति । उ॒क्थम् । यज᳚ते । वि । ऊं॒ इति᳚ । धाः॒ ।
होता᳚रम् । अ॒ग्निम् । मनु᳚षः । नि । से॒दुः॒ । न॒म॒स्यन्तः᳚ । उ॒शिजः᳚ । शंस᳚म् । आ॒योः ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे समिधान समिध्यमानाग्ने तुभ्यं त्वदर्थं ब्रह्म स्तोत्रमकारि । अस्माभिः कृतम् । होतोक्थं शस्त्ररूपं स्तोत्रं शंसाति । शंसति । शन्सु स्तुतौ । लेटोऽडाटावित्याडगमः । त्वां यजमानो यजते । अतः कारणादस्मभ्यं धनं वि धाः । विधेहि । दधातेश्छान्दसे लुङि बहुलं छन्दसीत्यडभावः । उ इति पादपुरणः । किञ्च आयोर्मनुष्यस्य शंसं शंसनीयं होतारं देवानामाह्वातारमग्निं त्वां नमस्यन्तः पूजयन्त उशिजः पश्वादिलक्षणं धनं कामयमाना मनुषो मनुष्या ऋत्विजो नि षेदुः । उपाविशन् । सेवन्त इत्यर्थः ॥ ११ ॥