श्रवणम्

4.6.5
परि॒ त्मना᳚ मि॒तद्रु᳚रेति॒ होता॒ग्निर्म॒न्द्रो मधु᳚वचा ऋ॒तावा᳚ ।
द्रव᳚न्त्यस्य वा॒जिनो॒ न शोका॒ भय᳚न्ते॒ विश्वा॒ भुव᳚ना॒ यदभ्रा᳚ट् ॥
▶ पदपाठः (Word-by-word)
परि᳚ । त्मना᳚ । मि॒त॑द्रुः᳚ । ए॒ति॒ । होता᳚ । अ॒ग्निः । म॒न्द्रः । मधु᳚॑वचाः । ऋ॒त॑वा᳚ ।
द्रव᳚न्ति । अ॒स्य॒ । वा॒जिनः᳚ । न । शोकाः᳚ । भय᳚न्ते । विश्वा᳚ । भुव᳚ना । यत् । अभ्रा᳚ट् ॥
▶ सायणभाष्यम् (Sayana Commentary)

उक्तमेवार्थं स्पष्टयति । अयं होता होमनिष्पादकोऽग्निस्त्मनात्मना स्वरूपेणैव मितद्रुः परिमितगतिः सन् पर्येति । परितो गच्छति पशुम् । कीदृशोऽयम् । मन्द्रो मादनीयो मोदयिता वा मधुवचा मधुरवचन ऋतावा यज्ञवान् । वाजिनो हविष्मतोऽस्याग्नेः शोका न दीप्तयोऽपि । न शब्दोऽप्यर्थे । द्रवन्ति । गच्छन्ति परितः । यद्वा । नकार उपमार्थीयः । वाजिनो न अश्वा इव द्रवन्तीति योज्यम् । यद्यस्मादयमभ्राट् । भ्राजते । तस्माद्विश्वा भुवना सर्वाणि भूतजातानि भयन्ते । भीतानि भवन्ति ॥ ५ ॥