आ या᳚हि॒ सोम᳚पीतये स्पा॒र्हो दे᳚व नि॒युत्व᳚ता ॥
पदपाठः (Word-by-word)
आ । या॒हि॒ । सोम᳚॑पीतये । स्पा॒र्हः । दे॒व॒ । नि॒युत्व᳚ता ॥
सायणभाष्यम् (Sayana Commentary)
वायो शुक्र इति चतुऋचं द्वितीयं सूक्तमानुष्टुभं वामदेवस्यार्षमैन्द्रवायवम् । आद्या केवलवायव्या । अत्रानुक्रमणिका । वायो चतुष्कमाद्या वायव्यानुष्तुभं त्विति । सूक्तविनियोगो लैङ्गिकः । आद्या दशरात्रे चतुर्थेऽहनि प्रौगशस्त्रे वायव्यतृचे प्रथमा । वायो शुक्रो अयामि ते विहि होत्रा अवीताः । आ. ७-११ । इति सूत्रितम् ॥
हे वायो ते तुभ्यं शुक्रो व्रतचर्यादिना दीप्तोऽहं मध्वो मधुरं सोमरसम् । कर्मणि षष्ठी । अग्रमितरेभ्यः पूर्वमयामि । अययामि । अयतिरन्तर्भावितण्यर्थः । किमर्थम् । दिविषिषु दिवो द्युलोकस्यैषणेषु सत्सु हे देव वायो स्पार्हः स्पृहणीयस्त्वं नियुत्वता । नियुद्वायोः प्रतिनियुतोऽश्वः । तेन साधनेना याहि सोमपीतये सोमपानाय ॥ १ ॥