श्रवणम्

4.47.3
वाय॒विन्द्र᳚श्च शु॒ष्मिणा᳚ स॒रथं᳚ शवसस्पती ।
नि॒युत्व᳚न्ता न ऊ॒तय॒ आ या᳚तं॒ सोम᳚पीतये ॥
▶ पदपाठः (Word-by-word)
वायो॒ इति᳚ । इन्द्रः᳚ । च॒ । शु॒ष्मिणा᳚ । स॒॑रथ᳚म् । श॒व॒सः॒ । प॒ती॒ इति᳚ ।
नि॒युत्व᳚न्ता । नः॒ । ऊ॒तये᳚ । आ । या॒त॒म् । सोम᳚॑पीतये ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे वायो त्वमिन्द्रश्च हे शवसस्पती बलस्य पती शुष्मिणा बलवन्तौ नियुत्वन्ता नियुत्सञ्ज्ञिकाश्ववन्तौ युवां सरथं समानमेव रथमारुह्येति शेषः । न ऊतये रक्षणाय सोमपितये सोमपानायात्रा यातम् । आगच्छतम् । यद्वा । सरथमधितिष्ठतमारुह्य चायातमिति च वाक्यद्वयं ॥ ३ ॥