यथा᳚ य॒ज्ञं मनु᳚षो वि॒क्ष्वा॒३॒᳚सु द᳚धि॒ध्वे र᳚ण्वाः सु॒दिने॒ष्वह्ना᳚म् ॥
पदपाठः (Word-by-word)
यथा᳚ । य॒ज्ञम् । मनु᳚षः । वि॒क्षु । आ॒सु । द॒धि॒ध्वे । र॒ण्वाः॒ । सु॒॑दिने᳚षु । अह्ना᳚म् ॥
सायणभाष्यम् (Sayana Commentary)
उप नो वाजा इत्यष्टर्चं पञ्चमं सूक्तं वामदेवस्यार्षमार्भवं त्रैष्टुभम् । पञ्चम्याद्याश्चतस्त्रोऽनुष्तुभः । तथा चानुक्रान्तम् । उप नोऽष्टौ चतुरनुष्तुबन्तमिति । व्यूढे दशरात्रे षष्ठेऽहनि वैश्वदेवशस्त्र आद्याश्चतस्त्रः शस्याः । उप नो वाजा इति त्रयोदशार्भवं चतस्रश्च । आ. ८-८ । इति हि सूत्रितं ॥
हे वाजा हे ऋभुक्षा ऋभवो हे देवा नोऽध्वरं यागमुप यत । उपगच्छत । देवयानैर्देवैर्गन्तव्यैः पथिभिर्मार्गैः । यथा येन प्रकारेण मनुषो मनोः सम्बन्धिनीष्वासु विक्षु प्रजासु यजमानेषु मध्ये हे रण्वा रमणीया ऋभवोऽह्नां सुदिनेषु सुदिनत्वनिमित्तेषु यज्ञमस्मदीयं दधिध्वे । धारयथ । यथा येन प्रकारेण यज्ञमागत्य सुदिनत्वं कुरुथ तथा यज्ञमायतेति ॥ १ ॥