श्रवणम्

4.37.8 समानपद
तं नो᳚ वाजा ऋभुक्षण॒ इन्द्र॒ नास᳚त्या र॒यिम् ।
समश्वं᳚ चर्ष॒णिभ्य॒ आ पु॒रु श᳚स्त म॒घत्त᳚ये ॥
▶ पदपाठः (Word-by-word)
तम् । नः॒ । वा॒जाः॒ । ऋ॒भु॒क्ष॒णः॒ । इन्द्र᳚ । नास᳚त्या । र॒यिम् ।
सम् । अश्व᳚म् । च॒र्ष॒णि॑भ्यः᳚ । आ । पु॒रु । श॒स्त॒ । म॒घत्त᳚ये ॥
▶ सायणभाष्यम् (Sayana Commentary)

अनया स्तुतिमुपसंहृत्याभिमतमाशास्ते । हे वाजा हे ऋभुक्षण ऋभवो हे इन्द्र हे नासत्याश्विनौ ते यूयं नोऽस्मभ्यं चर्षणिभ्यो मनुष्येभ्यः स्तोतृभ्यस्तं पुरु प्रभूतं रयिं धनमश्वं च पुरु प्रभूतं मघत्तये धनदानाय समा शस्त । सम्यगाशासनं कुरुत ॥ ८ ॥