वि नो᳚ वाजा ऋभुक्षणः प॒थश्चि᳚तन॒ यष्ट᳚वे ।
अ॒स्मभ्यं᳚ सूरयः स्तु॒ता विश्वा॒ आशा᳚स्तरी॒षणि᳚ ॥
अ॒स्मभ्यं᳚ सूरयः स्तु॒ता विश्वा॒ आशा᳚स्तरी॒षणि᳚ ॥
पदपाठः (Word-by-word)
वि । नः॒ । वा॒जाः॒ । ऋ॒भु॒क्ष॒णः॒ । प॒थः । चि॒त॒न॒ । यष्ट᳚वे ।
अ॒स्मभ्य᳚म् । सू॒र॒यः॒ । स्तु॒ताः । विश्वाः᳚ । आशाः᳚ । त॒री॒षणि᳚ ॥
अ॒स्मभ्य᳚म् । सू॒र॒यः॒ । स्तु॒ताः । विश्वाः᳚ । आशाः᳚ । त॒री॒षणि᳚ ॥
सायणभाष्यम् (Sayana Commentary)
हे वाजा हे ऋभुक्षण ऋभवो नोऽस्माकं पथो वार्गान् यष्टवे यष्टुं यज्ञमार्गान्वि चितन । विचेतयत । पाज्ञापयतेत्यर्थः । अस्मभ्यं हे सूरयो मेधाविनो यूयं स्तुताः सन्तो विश्वा आशाः सर्वा दिशस्तरीषणि तरीतुं सामर्थ्यम् । वितरतेति शेषः ॥ ७ ॥