चतुर्थं मण्डलम् - सूक्तम् 7

11 ऋचः

ऋषिः: वामदेवो गौतमः देवता: अग्निः छन्दः: जगती

सूक्तम् 4.7 - सम्पूर्णम्

1 / 11
ऋक्: 4.7.1
0:00 0:00
▶ सर्वाणि ऋक्कानि (11)
4.7.1
अ॒यमि॒ह प्र᳚थ॒मो धा᳚यि धा॒तृभि॒र्होता॒ यजि᳚ष्ठो अध्व॒रेष्वीड्य᳚ः ।
यमप्न᳚वानो॒ भृग᳚वो विरुरु॒चुर्वने᳚षु चि॒त्रं वि॒भ्वं᳚ वि॒शेवि᳚शे ॥
▶ पदपाठः (Word-by-word)
अ॒यम् । इ॒ह । प्र॒थ॒मः । धा॒यि॒ । धा॒तृ॑भिः᳚ । होता᳚ । यजि᳚ष्ठः । अ॒ध्व॒रेषु᳚ । ईड्यः᳚ ।
यम् । अप्न᳚वानः । भृग᳚वः । वि॒॑रु॒रु॒चुः । वने᳚षु । चि॒त्रम् । वि॒॑भ्व᳚म् । वि॒शे॑वि᳚शे ॥
▶ सायणभाष्यम् (Sayana Commentary)

अयमिहेत्येकादशर्चं सप्तमं सूक्तं वामदेवस्यार्षमाग्नेयम् । आद्या जगती द्वितीयाद्याः पञ्चानुष्ठुभः शिष्टास्त्रिष्टुभम् । तथा चानुक्रान्तम् । अयमिहादौ जगती पञ्चानुष्तुभ इति । सूक्तविनियोगो लैङ्गिकः । अग्निप्रणयनेऽयमिहेति वैश्यस्य प्रतिपत् । तथा च सूत्रितम् । अयमिह प्रथमो धायि धातृभिरिति तु राजन्यवैश्ययोराद्ये । आ. २-१७ । इति ॥

धातृभिर्यज्ञार्थं कर्म कुर्वद्भिरध्वर्युभिरिहास्मिन्यज्ञे होता देवानामाह्वाता यजिष्ठोऽतिशयेन यष्टाध्वरेषु यागेष्वीड्य ऋत्विग्भिः स्तूयमानः प्रथमः सर्वेषां देवानां मुख्योऽयमाहवनीयादिस्थानेषु प्रत्यक्षेणोपलभ्यमानोऽग्निर्धायि । अधायि । निहितः । दधातेः कर्मणि लुङ् । बहुलं छन्दस्यमाङ्योग इत्यडभावः । तिङ्ङतिङ इति निघातः । अयमग्निरित्युक्तम् । कोऽसावग्निरित्यत आह । अप्नवानो भृगुसम्बन्धी कश्चिदृषिः स चान्ये भृगवश्च वनेष्वरण्येषु चित्रं दावाग्निरूपेण बहुधा दर्शनीयं विशे विशे । वीप्सया सर्वजनव्याप्तिर्गृह्यते । सर्वस्या विशव्ः प्रजाया विभ्वं विभुमीश्वरं यं देवानां हविर्वाहकत्वेन प्रसिद्धमग्निं विरुरुचुः । दीप्तियुक्तं कुर्वन्ति स्म । यमिति यच्छब्दस्यायमिती दंशब्देन सम्बन्धः ॥ १ ॥

4.7.2 समानपद
अग्ने᳚ क॒दा त᳚ आनु॒षग्भुव᳚द्दे॒वस्य॒ चेत᳚नम् ।
अधा॒ हि त्वा᳚ जगृभ्रि॒रे मर्ता᳚सो वि॒क्ष्वीड्य᳚म् ॥
▶ पदपाठः (Word-by-word)
अग्ने᳚ । क॒दा । ते॒ । आ॒नु॒षक् । भुव᳚त् । दे॒वस्य᳚ । चेत᳚नम् ।
अध᳚ । हि । त्वा॒ । ज॒गृ॒भ्रि॒रे । मर्ता᳚सः । वि॒क्षु । ईड्य᳚म् ॥
▶ सायणभाष्यम् (Sayana Commentary)

अग्ने कदा त इति । प्रातरनुवाकाश्विनशस्त्रयोराग्नेये क्रतावानुष्टुभे छन्दस्यग्ने कदा त इत्याद्याः पञ्चर्चः । सूत्रितं च । अग्ने कदा त इति पञ्च । आ. ४-१३ । इति

हे अग्ने अधातः कारणाद्देवस्य द्योतमानस्य ते तव सम्बन्धि चेतनं तेजः कदानुषक् अनुषक्तं भुवत् । भवेत् । लेट्यडागमः । बहुलं छन्दसीति विकरणस्य लुक् । भूसुवोस्तिङीति गुणप्रतिषेधः । अतः कारणादित्युक्तम् । कस्माद्धेतोरित्युच्यते । हि यस्मात्कारणान्मर्तासो मनुष्या विक्षु विड्भिः प्रजाभिरीड्यं स्तुत्यं त्वा त्वां जगृभ्रिरे । गगृहिरे । गृह्णन्ति । ग्रहेर्धातोर्लिटि हृग्रहोर्भ इति भत्वम् । बहुलं छन्दसीति रुडागमः ॥ २ ॥

4.7.3
ऋ॒तावा᳚नं॒ विचे᳚तसं॒ पश्य᳚न्तो॒ द्यामि᳚व॒ स्तृभि᳚ः ।
विश्वे᳚षामध्व॒राणां᳚ हस्क॒र्तारं॒ दमे᳚दमे ॥
▶ पदपाठः (Word-by-word)
ऋ॒त॑वा᳚नम् । वि॑चे᳚तसम् । पश्य᳚न्तः । द्याम्॑इ᳚व । स्तृ॑भिः᳚ ।
विश्वे᳚षाम् । अ॒ध्व॒राणा᳚म् । ह॒स्क॒र्तार᳚म् । दमे᳚॑दमे ॥
▶ सायणभाष्यम् (Sayana Commentary)

ऋतावानममायिनं विचेतसं विशिष्टज्ञानं स्तृभिर्नक्शत्रैः परिवृतं द्यामिव । विस्फुलिंगैः समेतं विश्वेषां सर्वेषामध्वराणां यज्ञानां हस्कर्तारं प्रभासकं वृद्धेः कर्तारं वाग्निं पश्यन्त ऋत्विगादयो दमे दमे सर्वस्मिन्यज्ञगृहे जगृभ्रिर इति पूर्वेण सम्बन्धः ॥ ३ ॥

4.7.4
आ॒शुं दू॒तं वि॒वस्व᳚तो॒ विश्वा॒ यश्च᳚र्ष॒णीर॒भि ।
आ ज᳚भ्रुः के॒तुमा॒यवो॒ भृग᳚वाणं वि॒शेवि᳚शे ॥
▶ पदपाठः (Word-by-word)
आ॒शुम् । दू॒तम् । वि॒वस्व᳚तः । विश्वाः᳚ । यः । च॒र्ष॒णीः । अ॒भि ।
आ । ज॒भ्रुः॒ । के॒तुम् । आ॒यवः᳚ । भृग᳚वाणम् । वि॒शे॑वि᳚शे ॥
▶ सायणभाष्यम् (Sayana Commentary)

योऽग्निर्विश्वाश्चर्षणीः सर्वाः प्रजा अभि भवति अयवो मनुष्याः । आयव इति मनुष्यनाम आयवो यदव इति मनुष्यनामसु नाठात् । आशुं क्षिप्रगामिनं विवस्वतो मनुष्यस्य यजमानस्य दूतम् । विवस्वत इति मनुष्यनामेदम् । केतुं प्रज्ञापकं भृगवाणं भृगुवदाचरन्तम् । दीप्यमानमित्यर्थः । सर्वपातिपदिकेभ्यः क्विब्वक्तव्य इति क्विप् । तदन्ताल्लटो व्यत्ययेन शानच् । अदुपदेशाल्लसार्वधातुकानुदात्तत्वे प्राप्ते वृषादेकारकृतिगणत्वादाद्युदात्तत्त्वम् । तमग्निं विशे विशे सर्वस्यै प्रजाया आ जभ्रुः । आजह्रुः । हृग्रहोर्भ इति भत्वं ॥ ४ ॥

4.7.5
तमीं॒ होता᳚रमानु॒षक्चि᳚कि॒त्वांसं॒ नि षे᳚दिरे ।
र॒ण्वं पा᳚व॒कशो᳚चिषं॒ यजि᳚ष्ठं स॒प्त धाम᳚भिः ॥
▶ पदपाठः (Word-by-word)
तम् । ई॒म् । होता᳚रम् । आ॒नु॒षक् । चि॒कि॒त्वांस᳚म् । नि । से॒दि॒रे॒ ।
र॒ण्वम् । पा॒व॒क॑शो᳚चिषम् । यजि᳚ष्ठम् । स॒प्त । धाम᳚॑भिः ॥
▶ सायणभाष्यम् (Sayana Commentary)

ऋत्विगादयो मनुष्या आनुषक् आनुपुर्व्येण होतारं देवानामाह्वातारं चिकित्वांसं जानन्तम् । कित ज्ञाने । लिटः क्वसुः । द्विर्भावहलादिशेशचुत्वदीर्घाः । प्रत्ययस्वरः । तमीं तमिममग्निं नि षेदिरे । निशादयन्ति स्म । कीदृशम् । रण्वं रमणीयं पावकशोचिषं शोधकदीप्तिं यजिष्टं यष्टृतमं सप्त सप्तभिर्धामभिस्तेजोभिर्युक्तं ॥ ५ ॥

4.7.6
तं शश्व᳚तीषु मा॒तृषु॒ वन॒ आ वी॒तमश्रि᳚तम् ।
चि॒त्रं सन्तं॒ गुहा᳚ हि॒तं सु॒वेदं᳚ कूचिद॒र्थिन᳚म् ॥
▶ पदपाठः (Word-by-word)
तम् । शश्व᳚तीषु । मा॒तृषु᳚ । वने᳚ । आ । वी॒तम् । अश्रि᳚तम् ।
चि॒त्रम् । सन्त᳚म् । गुहा᳚ । हि॒तम् । सु॒॑वेद᳚म् । कू॒चि॒त्॑अ॒र्थिन᳚म् ॥
▶ सायणभाष्यम् (Sayana Commentary)

शश्वतीषु बह्वीषु मातृष्वप्सु । ताः सस्यादिनिर्मातृकत्वान्मातर इत्युच्यन्ते । वन आ वृक्षसमूहे च । आकारश्चार्थे । सन्तं विद्यमानं वीतं कान्तमश्रितं प्राणिभिर्वाहभयादसेवितम् । दुरासदमित्यर्थः । चित्रं चायनीयं गुहा गुहायां हितं निहितं सुवेदं सुविज्ञानं सुधनं वा कूचिदर्थिनं क्वापि हविष्यर्थिनं समिदाज्यपुरोडाशादि हविः स्वीकुर्वन्तम् । क्वेत्यत्र वकारस्य छान्दसे सम्प्रसारने परपूर्वत्वे च हल इत्यदीर्घत्वम् । एवंभूतमग्निं निषेदिर इति पूर्वेन सम्बन्धः ॥ ६ ॥

4.7.7 समानपद
स॒सस्य॒ यद्वियु᳚ता॒ सस्मि॒न्नूध᳚न्नृ॒तस्य॒ धाम᳚न्र॒णय᳚न्त दे॒वाः ।
म॒हा{4} अ॒ग्निर्नम᳚सा रा॒तह᳚व्यो॒ वेर᳚ध्व॒राय॒ सद॒मिदृ॒तावा᳚ ॥
▶ पदपाठः (Word-by-word)
स॒सस्य᳚ । यत् । वि॑यु᳚ता । सस्मि᳚न् । ऊध᳚न् । ऋ॒तस्य᳚ । धाम᳚न् । र॒णय᳚न्त । दे॒वाः ।
म॒हान् । अ॒ग्निः । नम᳚सा । रा॒त॑ह᳚व्यः । वेः । अ॒ध्व॒राय᳚ । सद᳚म् । इत् । ऋ॒त॑वा᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

प्रातरनुवाकाश्विनशस्त्रयोस्त्रैष्टुभे छन्दसि ससस्य यद्वियुतेत्याद्याः पञ्चर्चः । सूत्रितं च । ससस्य यद्वियुतेति पञ्च । आ. ४-१३ । इति ।

यद्यमग्निं देवाः स्तोतारः ससस्य स्वप्नस्य वियुता वियुते वियोते । उषसीत्यर्थः । ऋतस्योदकस्य धामन् धामानि स्थाने सस्मिन् सर्वास्मिन्नूधन्नूधनि यज्ञे रणयन्त । रमयन्ति । स्तोत्रैरिति शेषः । महान्प्रभुतो नमसा नमस्कारेन रातहव्यो दत्तहविष्क ऋतावा सत्यवान् सोऽग्निः सदमित्सदैवाध्वरायाध्वरं यजमानैः कृतंयज्ञम् । सुपां सुपो भवन्तीति व्यक्तव्यम् । म. ७-१-३९ । इति वचनादत्र द्वितीयार्थे चतुर्थी । वेः । वेत्ति । जानाति । यद्वा । देवा इन्द्रादयः ससस्य ऋत्विग्भिः सेव्यस्य यद्यस्याग्नेर्वियुता विशिष्टे सस्मिन् भजनीय ऋतस्य सत्यस्य धामन् धामनि योनावूधन्नूधनि यज्ञे रणयन्त । रमयन्ते । महान्प्रभूतो नमसा हविषा रातहव्यो दत्तहविष्क ऋतावा सत्यवान् सोऽग्निरध्वराय यज्ञार्थं सदमित्यदैव वेः । गन्ता भवति । अध्वराय यज्ञं वेः कामयते वा ॥ ७ ॥

4.7.8
वेर᳚ध्व॒रस्य᳚ दू॒त्या᳚नि वि॒द्वानु॒भे अ॒न्ता रोद᳚सी संचिकि॒त्वान् ।
दू॒त ई᳚यसे प्र॒दिव᳚ उरा॒णो वि॒दुष्ट᳚रो दि॒व आ॒रोध᳚नानि ॥
▶ पदपाठः (Word-by-word)
वेः । अ॒ध्व॒रस्य᳚ । दू॒त्या᳚नि । वि॒द्वान् । उ॒भे इति᳚ । अ॒न्तरिति᳚ । रोद᳚सी॒ इति᳚ । स॒म्॑चि॒कि॒त्वान् ।
दू॒तः । ई॒य॒से॒ । प्र॒॑दिवः᳚ । उ॒रा॒णः । वि॒दुः॑त᳚रः । दि॒वः । आ॒॑रोध᳚नानि ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे अग्ने विद्वान् सर्वं जानानस्त्वमध्वरस्य यज्ञस्य सम्बन्धीनि दूत्यानि दूतकर्माणि वेः । वेत्सि कामयसे वा । यद्वा । वेरिति यज्ञविशेषणम् । वेर्यजमानस्याभीष्टफलजनकस्याध्वरस्य यागस्य सम्बन्धीनि दूत्यानि दूतकर्माणि विद्वान् जानन् उभे रोदसी उभयो रोदस्योर्द्यावापृथिव्योरन्तर्मध्ये स्थितमन्तरिक्षम् सञ्चिकित्वान् सम्यक् जानन् प्रदिवः पुराणः । पुराणानामेदं प्रत्नं प्रदिव इति पुराणनामसु पाठात् । उराणोऽल्पमपि हविरुरु बहुकुर्वाणः । उराण उरु कुर्वाण इति यास्केनोक्तत्वात् । वुदुष्तरो विद्वत्तरो देवानां दूतस्त्वं दिवः स्वर्गस्यारोधनान्यारोहणानि । आरोहणार्हाणि स्थानानीत्यर्थः । देवानां हवींष्यर्पयितुमीयसे । गच्छसि ॥ ८ ॥

4.7.9
कृ॒ष्णं त॒ एम॒ रुश᳚तः पु॒रो भाश्च᳚रि॒ष्ण्व१॒᳚र्चिर्वपु᳚षा॒मिदेक᳚म् ।
यदप्र᳚वीता॒ दध᳚ते ह॒ गर्भं᳚ स॒द्यश्चि᳚ज्जा॒तो भव॒सीदु᳚ दू॒तः ॥
▶ पदपाठः (Word-by-word)
कृ॒ष्णम् । ते॒ । एम᳚ । रुश᳚तः । पु॒रः । भाः । च॒रि॒ष्णु । अ॒र्चिः । वपु᳚षाम् । इत् । एक᳚म् ।
यत् । अप्र᳚॑वीता । दध᳚ते । ह॒ । गर्भ᳚म् । स॒द्यः । चि॒त् । जा॒तः । भव᳚सि । इत् । ऊं॒ इति᳚ । दू॒तः ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे अग्ने रुशतो रोचमानस्य ते तव सम्बध्यत्रैम । एमञ् शब्देन गमन मार्ग उच्यते । एम वर्त्म कृष्णं कृष्णवर्णं भवति । भास्तव संबन्धीनि दीप्तिः पुरः पुरस्ताद्भवति । चरिष्णु सञ्चरणशीलमर्चिस्त्वदीयं तेजो वपुषां वपुष्मतां रूपवताम् । तेजस्विनामित्यर्थः । एकमिन्मुख्येमेव भवति । यद्यं त्वामप्रवीता अनुपगता यजमाना गर्भं त्वज्जननहेतुमरणिं दधते ह । धारयन्ति खलु । स त्वं सद्यश्चित्सद्य एव जात उत्पन्नः सन् दूतो भवसीदु । यजमानस्य दूतो भवस्येव ॥ ९ ॥

4.7.10
स॒द्यो जा॒तस्य॒ ददृ᳚शान॒मोजो॒ यद᳚स्य॒ वातो᳚ अनु॒वाति᳚ शो॒चिः ।
वृ॒णक्ति᳚ ति॒ग्माम᳚त॒सेषु᳚ जि॒ह्वां स्थि॒रा चि॒दन्ना᳚ दयते॒ वि जम्भै᳚ः ॥
▶ पदपाठः (Word-by-word)
स॒द्यः । जा॒तस्य᳚ । ददृ᳚शानम् । ओजः᳚ । यत् । अ॒स्य॒ । वातः᳚ । अ॒नु॒॑वाति᳚ । शो॒चिः ।
वृ॒णक्ति᳚ । ति॒ग्माम् । अ॒त॒सेषु᳚ । जि॒ह्वाम् । स्थि॒रा । चि॒त् । अन्ना᳚ । द॒य॒ते॒ । वि । जम्भैः᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

सद्यो जातस्यारणिनिर्मन्थनादनन्तरमेवोत्पन्नस्याग्नेरोजस्तेजो ददृशानम् । ऋत्विगादिभिर्दृश्यमानं भवतीति शेषः । वातो वायुर्यद्यदास्याग्नेः शोचिर्दीप्तिमनु लक्षीकृत्य वाति गच्छति तदा सोऽयमग्निरतसेषु वृक्षसङ्घेषु तिग्मां तीक्ष्णां जिह्वां ज्वालां वृणक्ति । संयोजयति । स्थिरा चित् स्थिराण्यप्यन्नान्नरूपाणि काष्थादीनि जंभैस्तेजोभिर्विदयते । विखण्डयति । भक्षयतीत्यर्थः ॥ १० ॥

4.7.11
तृ॒षु यदन्ना᳚ तृ॒षुणा᳚ व॒वक्ष᳚ तृ॒षुं दू॒तं कृ᳚णुते य॒ह्वो अ॒ग्निः ।
वात᳚स्य मे॒ळिं स᳚चते नि॒जूर्व᳚न्ना॒शुं न वा᳚जयते हि॒न्वे अर्वा᳚ ॥
▶ पदपाठः (Word-by-word)
तृ॒षु । यत् । अन्ना᳚ । तृ॒षुणा᳚ । व॒वक्ष᳚ । तृ॒षुम् । दू॒तम् । कृ॒णु॒ते॒ । य॒ह्वः । अ॒ग्निः ।
वात᳚स्य । मे॒ळिम् । स॒च॒ते॒ । नि॒॑जूर्व᳚न् । आ॒शुम् । न । वा॒ज॒य॒ते॒ । हि॒न्वे । अर्वा᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

यद्योऽग्निस्त्रिषु क्षिप्रमेवान्नान्नानि काष्ठादीनि तृषुणा क्षिप्रेण रश्मिसमूहेन ववक्ष । वहति । दहतीत्यर्थः । यह्वो महान् सोऽग्निस्तृषुमात्मानं दूतं कृणुते । यजमानदूतं करोति । निजूर्वन् काष्ठानि निःशेषेण दहन्नग्निर्वातस्य वायोर्मेळिं बलं सचते । सेवते । आशुं न । अश्वसादी यथाश्वं तथार्वा गमनशीलोऽग्निः स्वरश्मिं वाजयते । वाजिनं बलवन्तं करोति । हिन्वे । प्रेरयति च ॥ ११ ॥