चतुर्थं मण्डलम् - सूक्तम् 16

21 ऋचः

ऋषिः: वामदेवो गौतमः देवता: इंद्रः छन्दः: त्रिष्टुप्

सूक्तम् 4.16 - सम्पूर्णम्

1 / 21
ऋक्: 4.16.1
0:00 0:00
▶ सर्वाणि ऋक्कानि (21)
4.16.1
आ स॒त्यो या᳚तु म॒घवा{4}᳚ ऋजी॒षी द्रव᳚न्त्वस्य॒ हर᳚य॒ उप᳚ नः ।
तस्मा॒ इदन्ध᳚ः सुषुमा सु॒दक्ष᳚मि॒हाभि᳚पि॒त्वं क᳚रते गृणा॒नः ॥
▶ पदपाठः (Word-by-word)
आ । स॒त्यः । या॒तु॒ । म॒घ॑वा᳚न् । ऋ॒जी॒षी । द्रव᳚न्तु । अ॒स्य॒ । हर᳚यः । उप᳚ । नः॒ ।
तस्मै᳚ । इत् । अन्धः᳚ । सु॒सु॒म॒ । सु॒॑दक्ष᳚म् । इ॒ह । अ॒भि॒॑पि॒त्वम् । क॒र॒ते॒ । गृ॒णा॒नः ॥
▶ सायणभाष्यम् (Sayana Commentary)

आ सत्यो यात्वित्येकविंशत्यृचं षष्ठं सूक्तं त्रैषुभमैन्द्रम् । आत्रेयमनुक्रमणिका । आसत्यः सैकैन्द्रमिति । तत्रैन्द्रमित्युक्तत्वादग्न्यधिकारो निवृत्त इत्यवगम्यते । चतुर्विंशेऽहनि माध्यन्दिनसवने मैत्रावरुणशस्त्र इदं द्वितीयमहीन सूक्तम् । तथा च सूत्रितम् । आ सत्यो यात्वित्यहीनसूक्तं द्वीतीयं मैत्रावरुणः । आ. ७-४ । इति । समूळ्हे दशरत्रे नवमेऽहनि निश्केवल्यशस्त्र इदं सूक्तम् । तथा च सूत्रितम् । आ सत्यो यात्वहं भुवं तत्त इन्द्रियमिति निष्केवल्यम् । आ. ८-७ । इति ॥

ऋजीषी । ऋजीषब्देन निष्पिष्टो विगतसारः सोमोऽभिधीयते । तद्वान् सत्यः सत्यवान्मघवान्धनवानिन्द्रो नोऽस्माकमुप समीप आ यातु । आगच्छतु । किञ्च अस्येन्द्रस्य हरयोऽश्वा नोऽस्माकमुप समीपे द्रवन्तु । आगच्छन्तु । वयं यजमाना इहास्मिन्यज्ञे तस्मा इन्द्राय सुदक्षं शोभनबलम् । सारोपेतमित्यर्थः । इदिदं प्रत्यक्षेणोपलभ्यमानमन्धोऽन्नरूपं सोमं सुषुम । अभिषुतं कुर्याम । गृणानोऽस्माभिः स्तूयमान इन्द्रोऽभिपित्वमस्मदभिमतप्राप्तिं करते करोतु ॥ १ ॥

4.16.2
अव᳚ स्य शू॒राध्व᳚नो॒ नान्ते॒॑स्मिन्नो᳚ अ॒द्य सव᳚ने म॒न्दध्यै᳚ ।
शंसा᳚त्यु॒क्थमु॒शने᳚व वे॒धाश्चि᳚कि॒तुषे᳚ असु॒र्या᳚य॒ मन्म᳚ ॥
▶ पदपाठः (Word-by-word)
अव᳚ । स्य॒ । शू॒र॒ । अध्व᳚नः । न । अन्ते᳚ । अ॒स्मिन् । नः॒ । अ॒द्य । सव᳚ने । म॒न्दध्यै᳚ ।
शंसा᳚ति । उ॒क्थम् । उ॒शना᳚॑इव । वे॒धाः । चि॒कि॒तुषे᳚ । अ॒सु॒र्या᳚य । मन्म᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे शूर शत्रूणामभिभवसमर्थेन्द्र अद्येदानीमस्मिन् सवने माध्यन्दिनाख्ये मन्दध्यै त्वां मादयितुं नोऽस्मानव स्य । विमुञ्च । तत्र दृष्टान्तः । अध्वनो गन्तव्यस्य मार्गस्यान्ते समीपे नाश्वान्मनुष्या यथा मुञ्चन्ति तद्वत् । उशनेव काव्य इव वेधाः शम्सिता यजमानो हे इन्द्र चिकितुषे सर्वं जानतेऽसुर्याया सुरानां हिंसकाय तुभ्यं मन्म मननीयमुक्थं शस्त्ररूपं स्तोत्रं शंसाति शंसनं करोति ॥ २ ॥

4.16.3 समानपद
क॒विर्न नि॒ण्यं वि॒दथा᳚नि॒ साध॒न्वृषा॒ यत्सेकं᳚ विपिपा॒नो अर्चा᳚त् ।
दि॒व इ॒त्था जी᳚जनत्स॒प्त का॒रूनह्ना᳚ चिच्चक्रुर्व॒युना᳚ गृ॒णन्त᳚ः ॥
▶ पदपाठः (Word-by-word)
क॒विः । न । नि॒ण्यम् । वि॒दथा᳚नि । साध᳚न् । वृषा᳚ । यत् । सेक᳚म् । वि॒॑पि॒पा॒नः । अर्चा᳚त् ।
दि॒वः । इ॒त्था । जी॒ज॒न॒त् । स॒प्त । का॒रून् । अह्ना᳚ । चि॒त् । च॒क्रुः॒ । व॒युना᳚ । गृ॒णन्तः᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

कविर्मेधावी निण्यं न । निण्यमित्यन्तर्हितनामैतत् । अन्तर्हितं गूढमर्थमिव विदथानि वेदनीयानि कार्यजातानि साधन् साधयन् बृषा कामानां वर्षितेन्द्रो यद्यदा सेकं सेचनीयं सोमं विपिपानोऽथर्थं पिबन् अर्चात् विशेषेणार्चति । सोमपाने श्रद्धां करोतीत्यर्थः । तदानीं दिवोऽमुष्माल्लोकादित्था सत्यमेव सप्त सप्तसंख्याकान् कारून्रश्मीन् जीजनत् । अजीजनत् । जनयति । गृणन्तः स्तूयमाना रश्मयो वयुना वयुनानि मनुष्याणां ज्ञानान्यह्ना चित् दिवसेनापि चक्रुः । कृतवन्तः । ॥ ३ ॥

4.16.4
स्व१॒᳚र्यद्वेदि᳚ सु॒दृशी᳚कम॒र्कैर्महि॒ ज्योती᳚ रुरुचु॒र्यद्ध॒ वस्तो᳚ः ।
अ॒न्धा तमां᳚सि॒ दुधि᳚ता वि॒चक्षे॒ नृभ्य᳚श्चकार॒ नृत᳚मो अ॒भिष्टौ᳚ ॥
▶ पदपाठः (Word-by-word)
स्वः᳚ । यत् । वेदि᳚ । सु॒॑दृशी᳚कम् । अ॒र्कैः । महि᳚ । ज्योतिः᳚ । रु॒रु॒चुः॒ । यत् । ह॒ । वस्तोः᳚ ।
अ॒न्धा । तमां᳚सि । दुधि᳚ता । वि॒॑चक्षे᳚ । नृ॑भ्यः᳚ । च॒का॒र॒ । नृ॑त᳚मः । अ॒भिष्टौ᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

यद्ध यदा खलु महि महत्प्रभूतं ज्योतिस्तेजोरूपं यत्स्वर्योद्युलोकोऽर्कै रश्मिभिः सुदृशीकं सुष्ठु दर्शनीयं वेदि । अवेदि । ज्ञायते । तदानीं देवास्तस्मिन् स्वर्गे वस्तोर्निवासार्थं रुरुचुः । दीप्तियुक्ता बभूवुः । नृतमि नेतृतमः सूर्योऽभिष्टावभ्यागमने नृभ्यो नॄणां विचक्षे विशेषेण दर्शनायान्धान्धकाररूपाणि निविडानि तमांसि दुधिता दुधितानि नाशितानि चकार । कृतवान् ॥ ४ ॥

4.16.5
व॒व॒क्ष इन्द्रो॒ अमि᳚तमृजी॒ष्यु१॒᳚भे आ प᳚प्रौ॒ रोद᳚सी महि॒त्वा ।
अत᳚श्चिदस्य महि॒मा वि रे᳚च्य॒भि यो विश्वा॒ भुव᳚ना ब॒भूव᳚ ॥
▶ पदपाठः (Word-by-word)
व॒व॒क्षे । इन्द्रः᳚ । अमि᳚तम् । ऋ॒जी॒षी । उ॒भे इति᳚ । आ । प॒प्रौ॒ । रोद᳚सी॒ इति᳚ । म॒हि॒॑त्वा ।
अतः᳚ । चि॒त् । अ॒स्य॒ । म॒हि॒मा । वि । रे॒चि॒ । अ॒भि । यः । विश्वा᳚ । भुव᳚ना । ब॒भूव᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

ऋजीषी । ऋजीषशब्देन निष्पिष्टो विगतसारः सोमोऽभिधीयते । तद्वानिन्द्रः परमैश्वर्ययुक्तोऽमितमियत्तारहितं महिमानं ववक्षे । उवाह । किञ्च महित्वा महत्त्वेन स्वेन महिम्नोधे रोदसी उभे द्यावापृथिव्यावा पप्रौ । समन्तादपूरयत् । य निद्रो विध्वा भुवना सर्वाणि भुवनान्यभि बभूव । तिरश्चकार । अतश्चिदेभ्योऽपि विश्वेभ्यो भुवनेभ्योऽस्येन्द्रस्य महिमा वि रेचि । अतिरिरिचे । अधिको बभूवेत्यर्थः ॥ ५ ॥

4.16.6
विश्वा᳚नि श॒क्रो नर्या᳚णि वि॒द्वान॒पो रि᳚रेच॒ सखि᳚भि॒र्निका᳚मैः ।
अश्मा᳚नं चि॒द्ये बि᳚भि॒दुर्वचो᳚भिर्व्र॒जं गोम᳚न्तमु॒शिजो॒ वि व᳚व्रुः ॥
▶ पदपाठः (Word-by-word)
विश्वा᳚नि । श॒क्रः । नर्या᳚णि । वि॒द्वान् । अ॒पः । रि॒रे॒च॒ । सखि᳚॑भिः । नि॑का᳚मैः ।
अश्मा᳚नम् । चि॒त् । ये । बि॒भि॒दुः । वचः᳚॑भिः । व्र॒जम् । गो॑म᳚न्तम् । उ॒शिजः᳚ । वि । व॒व्रु॒रिति᳚ वव्रुः ॥
▶ सायणभाष्यम् (Sayana Commentary)

विश्वानि समस्तानि नर्याणि मनुष्याणां हितानि वृष्ट्यादीनि कार्याणि विद्वान् जानन् शक्रः समर्थ इन्द्रो निकामैर्निइकामयमानेभ्यः सखिभिर्मित्रभूतेभ्यो मरुद्भ्यः । व्यत्ययेन चतुर्थ्यर्थे तृतीया । आपो वृष्टिलक्षणान्युदकानि रिरेच । रिक्तीचकार । इन्द्रः सस्यादिफलसिद्ध्यर्थं मेघस्थान्युदकानि मरुद्भ्यो दत्तवानित्यर्थः । यद्वा । निकामैर्निकामयमानैः सखिभिर्मरुद्भिः सहितः सन् अपो नभसः सकाशात् । आप इत्यन्तरिक्षनामैतत् । अत्र विभक्ति व्यत्ययः । रिरेच । व्यतिरिक्तो बभूव । ये मरुतो वचोभिर्वाग्रूपैर्ध्वनिभिरश्मानं चित् पर्वतमपि मेघं वा । अश्मेति मेघनामैतत् । बिभिदुः । अभैत्सुः । उशिजः कामयमानास्ते मरुतो गोमन्तं गोभिरुपेतं वज्रमङ्गिरसां सम्बन्धि गोस्थानं वि वव्रुः । आच्छादयामासुः ॥ ६ ॥

4.16.7
अ॒पो वृ॒त्रं व᳚व्रि॒वांसं॒ परा᳚ह॒न्प्राव᳚त्ते॒ वज्रं᳚ पृथि॒वी सचे᳚ताः ।
प्रार्णां᳚सि समु॒द्रिया᳚ण्यैनो॒ः पति॒र्भव॒ञ्छव᳚सा शूर धृष्णो ॥
▶ पदपाठः (Word-by-word)
अ॒पः । वृ॒त्रम् । व॒व्रि॒॑वांस᳚म् । परा᳚ । अ॒ह॒न् । प्र । आ॒व॒त् । ते॒ । वज्र᳚म् । पृ॒थि॒वी । स॑चे᳚ताः ।
प्र । अर्णां᳚सि । स॒मु॒द्रिया᳚णि । ऐ॒नोः॒ । पतिः᳚ । भव᳚न् । शव᳚सा । शू॒र॒ । धृ॒ष्णो॒ इति᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे इन्द्र प्रावत् राक्षसादिभ्यः प्रकर्षेण पालयितृ ते त्वदीयं वज्रमपो वृष्टिलक्षणान्युदकानि वव्रिवांसमावरकं वृत्रं मेघं पराहन् । प्रकर्षेण प्रेरयति स्म । पृथिवी भूमिः सचेताश्चेतनावती । त्वया सङ्गता बभूव । धृष्णो धर्षणशील हे शूर विक्रान्तेन्द्र त्वं शवसा बलेन परित्भवन् लोकानां पालकः सन् समुद्रियाणि समुद्रसंबन्धीन्यर्नांसि नभसि स्थितान्युदकानि प्रैणोः प्रेरकोऽभूः ॥ ७ ॥

4.16.8
अ॒पो यदद्रिं᳚ पुरुहूत॒ दर्द᳚रा॒विर्भु᳚वत्स॒रमा᳚ पू॒र्व्यं ते᳚ ।
स नो᳚ ने॒ता वाज॒मा द᳚र्षि॒ भूरिं᳚ गो॒त्रा रु॒जन्नङ्गि᳚रोभिर्गृणा॒नः ॥
▶ पदपाठः (Word-by-word)
अ॒पः । यत् । अद्रि᳚म् । पु॒रु॒॑हू॒त॒ । दर्दः᳚ । आ॒विः । भु॒व॒त् । स॒रमा᳚ । पू॒र्व्यम् । ते॒ ।
सः । नः॒ । ने॒ता । वाज᳚म् । आ । द॒र्षि॒ । भूरि᳚म् । गो॒त्रा । रु॒जन् । अङ्गि᳚रः॑भिः । गृ॒णा॒नः ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे पुरुहूत बहुभिराहुतेन्द्र यद्यदापः प्रति वृष्टिलक्शणान्युदकानि लक्षीकृत्याद्रिं मेघं दर्दः । विदारितवानसि । सरमा देवशुनी पूर्व्यं पुरा ते तुभ्यं पणिभिरपहृतं गोधनमाविर्भुवत् । प्रकाशयामस । अङ्गिरोभिरृषिभिर्गृणानः स्तूयमानः सन् गोत्रा गोत्राण्यभ्राणि रुजन् नोऽस्मान् भूरिं प्रभूतं वाजमन्नं नेता प्रापयिता स त्वमा दर्षि । आदरं कृतवानसि ॥ ८ ॥

4.16.9
अच्छा᳚ क॒विं नृ᳚मणो गा अ॒भिष्टौ॒ स्व᳚र्षाता मघव॒न्नाध᳚मानम् ।
ऊ॒तिभि॒स्तमि᳚षणो द्यु॒म्नहू᳚तौ॒ नि मा॒यावा॒नब्र᳚ह्मा॒ दस्यु᳚रर्त ॥
▶ पदपाठः (Word-by-word)
अच्छ᳚ । क॒विम् । नृ॒॑म॒नः॒ । गाः॒ । अ॒भिष्टौ᳚ । स्वः᳚॑साता । म॒घ॒॑व॒न् । नाध᳚मानम् ।
ऊ॒ति॑भिः᳚ । तम् । इ॒ष॒णः॒ । द्यु॒म्न॑हू᳚तौ । नि । मा॒या॑वा᳚न् । अब्र᳚ह्मा । दस्युः᳚ । अ॒र्त॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे मघवन्धनवन्निन्द्र नृमणः । नृभिर्मनुष्यैर्मन्यत इति नृमनः । त्वं कविं मेधाविनं कुत्समच्छगाः । अभ्यगाः । किञ्च स्वर्षाता । स्वर्धनम् । तस्य सातौ दाने निमित्तेऽभिष्टौ कवेरभिगमे सति नाधमानं युद्धार्थं त्वां याचमानं कुत्समूतिभिः शत्रुकृतोपद्रवपरिहाररूपै रक्षणैरिषनः । प्रेरितवानसि । मायावान् कपटवानब्रह्मा । ऋत्विग्भिः क्रियमाणं सर्वं कर्मजातमनुज्ञारूपेण् जानन् ऋत्विग्विशेशो ब्रह्मशब्देनोच्यते । स न विद्यते यस्य सोऽब्रह्मा । वेदोक्तकर्मस्वास्तिक्यरहित इत्यर्थः । दस्युः कुत्सस्य शत्रुर्द्युम्नहूतौ द्युम्नं धनं हूतिराह्वानं यस्यां युधि तस्यां न्यर्त । विनष्टो बभूव । इन्द्रः कुत्सेनाहुतः सन् तस्य शत्रुं हतवानित्यर्थः ॥ ९ ॥

4.16.10
आ द᳚स्यु॒घ्ना मन᳚सा या॒ह्यस्तं॒ भुव᳚त्ते॒ कुत्स᳚ः स॒ख्ये निका᳚मः ।
स्वे योनौ॒ नि ष᳚दतं॒ सरू᳚पा॒ वि वां᳚ चिकित्सदृत॒चिद्ध॒ नारी᳚ ॥
▶ पदपाठः (Word-by-word)
आ । द॒स्यु॒॑घ्ना । मन᳚सा । या॒हि॒ । अस्त᳚म् । भुव᳚त् । ते॒ । कुत्सः᳚ । स॒ख्ये । नि॑का᳚मः ।
स्वे । योनौ᳚ । नि । स॒द॒त॒म् । स॑रू᳚पा । वि । वा॒म् । चि॒कि॒त्स॒त् । ऋ॒त॒॑चित् । ह॒ । नारी᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

अत्र काचिदाख्यायिका श्रूयते । कथम् । रुरुनामकः कश्चिद्राजर्षिः । तस्य पुत्रः कुत्साख्यो राजर्षिरासीत् । स च कदाचिच्छत्रुभिः सह युयुत्सुः सङ्ग्रामे स्वयमशक्तः सन् शत्रुणां हननार्थमिन्द्रस्याह्वानं चकार । स चेन्द्रः कुत्सस्य गृहमागत्य तस्य शत्रून् जघान । तदनन्तरमतिप्रीत्या तयोः सख्यमभवत् । सख्यानन्तरमिन्द्र एनमपि स्वकीयं गृहं प्रापयामास । तत्र शचीन्द्रं प्राप्तुमागता सती तौ समानरूपौ दृष्ट्वायमिन्द्रोऽयं कुत्स इति विवेकाभावेन संशयं चकारेति । अनयाख्यायिकया प्रतीयमानोऽर्थोऽत्र प्रतिपाद्यते । हे इन्द्र दस्युघ्नादस्यूनां शत्रूणां हन्त्रा मनसा युक्तस्त्वमस्तं कुत्सस्य गृहम् । अस्तमिति गृहनामैतत् । आ याहि । आगाः । लुङर्थे लोट् ॥ कुत्सश्च ते तव सम्बन्धिनि सख्ये निकामो नितरां कामयमानो भुवत् । अभवत् । ततस्तौ युवां स्वे योनौ स्वकीये स्थाने नि षदतम् । न्यसीदतम् । उपविष्टावभूतम् । ऋतचित्सत्यदर्शिनी नारीन्द्रस्य भार्या शची सरूपा समानरूपौ वांयुवां वि चिकित्सत् । संशयं चकार ॥ १० ॥

4.16.11
यासि॒ कुत्से᳚न स॒रथ᳚मव॒स्युस्तो॒दो वात᳚स्य॒ हर्यो॒रीशा᳚नः ।
ऋ॒ज्रा वाजं॒ न गध्यं॒ युयू᳚षन्क॒विर्यदह॒न्पार्या᳚य॒ भूषा᳚त् ॥
▶ पदपाठः (Word-by-word)
यासि᳚ । कुत्से᳚न । स॒॑रथ᳚म् । अ॒व॒स्युः । तो॒दः । वात᳚स्य । हर्योः᳚ । ईशा᳚नः ।
ऋ॒ज्रा । वाज᳚म् । न । गध्य᳚म् । युयू᳚षन् । क॒विः । यत् । अह᳚न् । पार्या᳚य । भूषा᳚त् ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे इन्द्र अवस्युः कुत्सस्य रक्षणमिच्छन् । छन्दसि क्यच् परेच्छायामपि दृश्यते । तोदस्तोदकः शत्रूणां हिंसको वातस्य वायुसदृशयोर्वेगवतोर्हर्योरश्वयोरीशान ईश्वरस्त्वं कुत्सेन कुत्साख्येन राजर्षिणा सरथं समानरथं यासि । गच्छसि । गध्यं ग्राह्यम् । गध्यं गृण्हातेः । ऋज्रा वाजं न गध्यं युयूषन्नित्यपि निगमो भवतीति निरुक्तम् । ५-१५ । वाजं नान्नमिव ऋज्रा ऋजुगामिनावश्वौ युयूशन् स्वकीये रथे योजयन् कविः प्राज्ञः कुत्सो यद्यस्मिन्नहन्नहनि दिवसे पार्याय पारणाय आपन्निस्तरणाय भूशात् । प्रभवते । तस्मिन्नेव दिने कुत्सेन सरथं यासीति पूर्वेन सम्बन्धः ॥ ११ ॥

4.16.12
कुत्सा᳚य॒ शुष्ण᳚म॒शुषं॒ नि ब᳚र्हीः प्रपि॒त्वे अह्न॒ः कुय᳚वं स॒हस्रा᳚ ।
स॒द्यो दस्यू॒न्प्र मृ᳚ण कु॒त्स्येन॒ प्र सूर᳚श्च॒क्रं वृ᳚हताद॒भीके᳚ ॥
▶ पदपाठः (Word-by-word)
कुत्सा᳚य । शुष्ण᳚म् । अ॒शुष᳚म् । नि । ब॒र्हीः॒ । प्र॒॑पि॒त्वे । अह्नः᳚ । कुय᳚वम् । स॒हस्रा᳚ ।
स॒द्यः । दस्यू᳚न् । प्र । मृ॒ण॒ । कु॒त्स्येन᳚ । प्र । सूरः᳚ । च॒क्रम् । वृ॒ह॒ता॒त् । अ॒भीके᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

शुष्णं पिप्रुमित्यस्यामृचि । ऋग्वे/ १-१-०-८ । प्रतिपादितोऽर्थः कुत्सायेत्यनेन ऋग्द्वयेन स्पष्टीक्रियते । हे इन्द्र त्वं कुत्साय कुत्सार्थमशुषम् । शूशमिति सुखनामैतत् । तद्रहितम् । अत्र दीर्घाभावः । शुष्णं शुष्णनामानमसुरं निबर्हीः । न्यबर्हीः । अवधीः । तथाह्नो दिवसस्य प्रपित्वे प्रक्रमे पूर्वाह्णे कुयवं कुयवनामानमसुरं च हतवानसि । तथा स त्वं सहस्रा सहस्रेण बहुभिः परिजनैः सह सद्यो य स्मिन् काले कुयवमवधीस्तस्मिन् काल एव कुत्स्येन । कुत्स इति वज्रनामैतत् । कुत्स एव कुत्स्यं वज्रम् । तेन दस्यून् शत्रून्प्र मृण । जहि । भूतार्थे लोट् । हतवानसि । तथा सूरः प्रेरकस्य सूर्यस्य चक्रमायुधमभीके समीपे सङ्ग्रामे वा प्र वृहतात् । प्रकर्षेण छिन्नवानसि ॥ १२ ॥

4.16.13
त्वं पिप्रुं॒ मृग᳚यं शूशु॒वांस᳚मृ॒जिश्व᳚ने वैदथि॒नाय᳚ रन्धीः ।
प॒ञ्चा॒शत्कृ॒ष्णा नि व᳚पः स॒हस्रात्कं॒ न पुरो᳚ जरि॒मा वि द᳚र्दः ॥
▶ पदपाठः (Word-by-word)
त्वम् । पिप्रु᳚म् । मृग᳚यम् । शू॒शु॒॑वांस᳚म् । ऋ॒जिश्व᳚ने । वै॒द॒थि॒नाय᳚ । र॒न्धीः॒ ।
प॒ञ्चा॒शत् । कृ॒ष्णा । नि । व॒पः॒ । स॒हस्रा᳚ । अत्क᳚म् । न । पुरः᳚ । ज॒रि॒मा । वि । द॒र्द॒रिति᳚ दर्दः ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे इन्द्र त्वं पिप्रुं पिप्रुनामानमसुरं शूशुवांसं प्रवृद्धं मृगयं मृगयनामानमसुरं च हतवानसि । किञ्च स त्वं वैदथिनाय विदथिनः पुत्राय ऋजिश्विने ऋजिश्वनाम्ने राज्ञे रन्धीः । वशमनयः । पञ्चाशत्पञ्चाशत्संख्याकानि सहस्राणि कृष्णा कृष्णवर्णानि रक्षांसि न वपः । न्यवपः । अवधीः । तथा स त्वं जरिमा जरात्कं न वयोविशेषं रूपमिव पुरः शंबरस्य नगराणि वि दर्दः । विदारितवानसि ॥ १३ ॥

4.16.14 समानपद
सूर᳚ उपा॒के त॒न्वं१॒᳚ दधा᳚नो॒ वि यत्ते॒ चेत्य॒मृत᳚स्य॒ वर्प᳚ः ।
मृ॒गो न ह॒स्ती तवि᳚षीमुषा॒णः सिं॒हो न भी॒म आयु᳚धानि॒ बिभ्र᳚त् ॥
▶ पदपाठः (Word-by-word)
सूरः᳚ । उ॒पा॒के । त॒न्व᳚म् । दधा᳚नः । वि । यत् । ते॒ । चेति᳚ । अ॒मृत᳚स्य । वर्पः᳚ ।
मृ॒गः । न । ह॒स्ती । तवि᳚षीम् । उ॒षा॒णः । सिं॒हः । न । भी॒मः । आयु᳚धानि । बिभ्र᳚त् ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे इन्द्र सूरः प्रेरकस्य सूर्यस्योपाके समीपे तन्वं त्वदीयं शरीरं यद्यदा दधानो धारकोऽभवः तदामृतस्य मरणरहितस्य ते त्वदीयं वर्पो रूपं वि चेति । व्यचेति । हे इन्द्र ज्ञातृभिर्विशेषेणाज्ञायत । सूर्यस्य समीपे सर्वाणि रूपाणि मलिनीभवन्ति न तथेन्द्रस्य रूपं किन्तु सूर्यस्य समीप इन्द्रस्य रूपं विशेषेण भासमानं बभोवेत्यर्थः । अपि च हे इन्द्र हस्ती मृगो न गज विशेशो मृग इव तविषीं परेषां बलमुषाणो दहन् आयुधानि वज्रादीनि शस्त्राणि बिभ्रद्बिभ्राणस्त्वं सिंहो न सिंह इव भीमो भयङ्ग्करोऽभूः ॥ १४ ॥

4.16.15 समानपद
इन्द्रं॒ कामा᳚ वसू॒यन्तो᳚ अग्म॒न्त्स्व᳚र्मीळ्हे॒ न सव᳚ने चका॒नाः ।
श्र॒व॒स्यवः᳚ शशमा॒नास᳚ उ॒क्थैरोको॒ न र॒ण्वा सु॒दृशी᳚व पु॒ष्टिः ॥
▶ पदपाठः (Word-by-word)
इन्द्र᳚म् । कामाः᳚ । व॒सु॒॑यन्तः᳚ । अ॒ग्म॒न् । स्वः᳚॑मीळ्हे᳚ । न । सव᳚ने । च॒का॒नाः ।
श्र॒व॒स्यवः᳚ । श॒श॒मा॒नासः᳚ । उ॒क्थैः । ओकः᳚ । न । र॒ण्वा । सु॒दृशी᳚॑इव । पु॒ष्टिः ॥
▶ सायणभाष्यम् (Sayana Commentary)

कामा राक्शसादिभयनिवारणर्थमिन्द्रं कामयमाना वसूयन्तः पश्वादिधनमिच्छन्तः स्तोतात्र् इन्द्रं परमैश्वर्ययुक्तमग्मन् । गच्छन्ति । वर्तमानार्थे छान्दसो लुङ् । कीदृशाः स्तोतारः । स्वर्मीळ्हे न युद्ध इव सवने यज्ञे चकाना याचामानाः श्रवस्यवोऽन्नकामा उक्थैः स्तोत्रैः शशमानासः शंसमानाः स्तुवन्तः । तदा सोऽयमिन्द्र ओको न स्तोतॄणामावास इव भवति । रण्वा रमणीया सुदृशीव पुष्टिः शोभनदर्शना लक्ष्मीरिव भवति ॥ १५ ॥

4.16.16
तमिद्व॒ इन्द्रं᳚ सु॒हवं᳚ हुवेम॒ यस्ता च॒कार॒ नर्या᳚ पु॒रूणि᳚ ।
यो माव᳚ते जरि॒त्रे गध्यं᳚ चिन्म॒क्षू वाजं॒ भर᳚ति स्पा॒र्हरा᳚धाः ॥
▶ पदपाठः (Word-by-word)
तम् । इत् । वः॒ । इन्द्र᳚म् । सु॒॑हव᳚म् । हु॒वे॒म॒ । यः । ता । च॒कार᳚ । नर्या᳚ । पु॒रूणि᳚ ।
यः । मा॑व᳚ते । ज॒रि॒त्रे । गध्य᳚म् । चि॒त् । म॒क्षु । वाज᳚म् । भर᳚ति । स्पा॒र्ह॑रा᳚धाः ॥
▶ सायणभाष्यम् (Sayana Commentary)

य इन्द्रो नर्या नर्याणि मनुष्यहितानि पुरूणि बहूनि ता तानि प्रसिद्धानि कर्माणि चकार । अकरोत् । किञ्च स्वार्हराधाः स्पृहणीयधनो य इन्द्रो मावते मत्सदृशाय जरित्रे स्तोत्रे गध्यं चित् ग्राह्यं संयोजनीयमपि वाजमन्नं मक्शु शीघ्रं भरति । आहरति । वयं स्तोतारो हे यजमाना वो युष्मभ्यं तमित्तमेवेन्द्रं सुहवं शोभमाह्वानं यथा भवति तथा हुवेम । आह्वयामः ॥ १६ ॥

4.16.17
ति॒ग्मा यद॒न्तर॒शनि॒ः पता᳚ति॒ कस्मि᳚ञ्चिच्छूर मुहु॒के जना᳚नाम् ।
घो॒रा यद᳚र्य॒ समृ᳚ति॒र्भवा॒त्यध᳚ स्मा नस्त॒न्वो᳚ बोधि गो॒पाः ॥
▶ पदपाठः (Word-by-word)
ति॒ग्मा । यत् । अ॒न्तः । अ॒शनिः᳚ । पता᳚ति । कस्मि᳚न् । चि॒त् । शू॒र॒ । मु॒हु॒के । जना᳚नाम् ।
घो॒रा । यत् । अ॒र्य॒ । सम्॑ऋ᳚तिः । भवा᳚ति । अध᳚ । स्म॒ । नः॒ । त॒न्वः᳚ । बो॒धि॒ । गो॒पाः ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे शूर विक्रान्तेन्द्र यद्यदा कस्मिंश्चित्सर्वस्मिन्नपि जनानां मनुष्याणां मुहुके मोहके युद्धेऽन्तरस्माकं मध्ये तिग्मा तीक्ष्णाशनिः पतति । पतेत् । हे अर्य स्वामिन्निन्द्र यद्यदास्माकं शत्रुभिः सह घोरा भीमरूपा समृतिर्युद्धं भवाति । भवेत् । अध तदानीं नोऽस्मदीयस्य तन्वः शरीरस्य गोपा रक्षको बोधिस्म । अबोधि । शत्रुभ्यः सकाशादस्मान्रक्षकत्वेन बुद्धवानसि खलु ॥ १७ ॥

4.16.18
भुवो᳚॑वि॒ता वा॒मदे᳚वस्य धी॒नां भुव॒ः सखा᳚वृ॒को वाज᳚सातौ ।
त्वामनु॒ प्रम᳚ति॒मा ज᳚गन्मोरु॒शंसो᳚ जरि॒त्रे वि॒श्वध᳚ स्याः ॥
▶ पदपाठः (Word-by-word)
भुवः᳚ । अ॒वि॒ता । वा॒म॑दे᳚वस्य । धी॒नाम् । भुवः᳚ । सखा᳚ । अ॒वृ॒कः । वाज᳚॑सातौ ।
त्वाम् । अनु᳚ । प्र॑म᳚तिम् । आ । ज॒ग॒न्म॒ । उ॒रु॒॑शंसः᳚ । ज॒रि॒त्रे । वि॒श्वध᳚ । स्याः॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे इन्द्र त्वं वामदेवस्य वामदेवाख्यस्य मन्त्रद्रष्टुर्मम सम्बन्धिनीनां धीनां कर्मणामविता रक्षित भुवः । भव । अवृको हिंसारहितस्त्वं वाजसातौ युद्धे सखा मम सुहृद्भुवः । भव । हे इन्द्र वयं प्रमतिं प्रकृष्टज्ञानं त्वामनु लक्षीकृत्या जगन्म । आगच्छाम । स त्वं विश्वध सर्वदा जरित्रे स्तोत्र उरुरं सो महता संससेन युक्तः स्याः । भवेः ॥ १८ ॥

4.16.19
ए॒भिर्नृभि᳚रिन्द्र त्वा॒युभि᳚ष्ट्वा म॒घव᳚द्भिर्मघव॒न्विश्व᳚ आ॒जौ ।
द्यावो॒ न द्यु॒म्नैर॒भि सन्तो᳚ अ॒र्यः क्ष॒पो म᳚देम श॒रद᳚श्च पू॒र्वीः ॥
▶ पदपाठः (Word-by-word)
ए॒भिः । नृ॑भिः᳚ । इ॒न्द्र॒ । त्वा॒यु॑भिः᳚ । त्वा॒ । म॒घव᳚त्॑भिः । म॒घ॒॑व॒न् । विश्वे᳚ । आ॒जौ ।
द्यावः᳚ । न । द्यु॒म्नैः । अ॒भि । सन्तः᳚ । अ॒र्यः । क्ष॒पः । म॒दे॒म॒ । श॒रदः᳚ । च॒ । पू॒र्वीः ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे मघवन्धनवन्निन्द्र विश्वे विश्वस्मिन्नाजौ सङ्ग्रामे त्वायुभिः शत्रुजयार्थं त्वां कामयमानैर्मघवद्भिस्त्वदर्थं दीयमानहविर्लक्षणैर्धनैरुपेतैरेभिः प्रत्यक्षेणोपलभ्यमानैर्नृभिः पुत्रपौत्राद्यैः परिजनैः सहिता वयं यजमाना द्युम्नैर्धनैर्द्यावो न द्योतमानाः प्रकाशमाना धनिनो यथा तथार्योऽरीन् शत्रूनभि सन्तोऽभिभवन्तः क्षपः सर्वा रात्रीः पूर्वीर्बह्वीः शरदश्च संवत्सरांश्च मदेम । स्तवाम । यजमानाः सर्वेषु कालेषु स्तोत्रैरिन्द्रं हर्षयन्तीत्यर्थः ॥ १९ ॥

4.16.20
ए॒वेदिन्द्रा᳚य वृष॒भाय॒ वृष्णे॒ ब्रह्मा᳚कर्म॒ भृग᳚वो॒ न रथ᳚म् ।
नू चि॒द्यथा᳚ नः स॒ख्या वि॒योष॒दस᳚न्न उ॒ग्रो᳚॑वि॒ता त᳚नू॒पाः ॥
▶ पदपाठः (Word-by-word)
ए॒व । इत् । इन्द्रा᳚य । वृ॒ष॒भाय᳚ । वृष्णे᳚ । ब्रह्म᳚ । अ॒क॒र्म॒ । भृग᳚वः । न । रथ᳚म् ।
नु । चि॒त् । यथा᳚ । नः॒ । स॒ख्या । वि॒॑योष᳚त् । अस᳚त् । नः॒ । उ॒ग्रः । अ॒वि॒ता । त॒नू॒॑पाः ॥
▶ सायणभाष्यम् (Sayana Commentary)

यथेन्द्रो नोऽस्मदीयानि सख्या सख्यानि कर्माणि नू चित् वियोषत् न पृथक्कुर्यात् । उग्रस्तेजस्वी तनूपाः शरीराणां पालक इन्द्रो यथा नोऽस्थानविता रक्शितासत् । स्यात् । तथा वयं यजमाना एवेदेवमेवोक्तप्रकारेणेन्द्राय वृषब्याय कामानां वर्षित्रे वृष्णे नित्यतरुणाय ब्रह्म स्तोत्रमकर्म । अकुर्म । तत्र दृष्टान्तः । भृगवो दीप्तास्तक्षाणो रथं न रथमिव तद्वत् । यजमानेभ्यो यथेन्द्रोऽभीप्सितफलप्रदो भवति तथेन्द्रं यजमानाः स्तुवन्तीत्यर्थः ॥ २० ॥

4.16.21
नू ष्टु॒त इ᳚न्द्र॒ नू गृ᳚णा॒न इषं᳚ जरि॒त्रे न॒द्यो॒३॒᳚ न पी᳚पेः ।
अका᳚रि ते हरिवो॒ ब्रह्म॒ नव्यं᳚ धि॒या स्या᳚म र॒थ्य᳚ः सदा॒साः ॥
▶ पदपाठः (Word-by-word)
नु । स्तु॒तः । इ॒न्द्र॒ । नु । गृ॒णा॒नः । इष᳚म् । ज॒रि॒त्रे । न॒द्यः᳚ । न । पी॒पे॒रिति᳚ पीपेः ।
अका᳚रि । ते॒ । ह॒रि॒॑वः॒ । ब्रह्म᳚ । नव्य᳚म् । धि॒या । स्या॒म॒ । र॒थ्यः᳚ । स॒दा॒॑साः ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे इन्द्र नु क्षिप्रं स्तुतः पूर्वैऋषिभिः संस्तुतो नु क्शिप्रं गृणानोऽस्माभिः स्तूयमानश त्वमिषमन्नं जरित्रे स्तोत्रे महुयं नद्यो न अद्भिर्नदीरिव पीपेः । प्यायय । प्रवृद्धं कुरु । हे इन्द्र हरिवो हरिवन् हरिसंज्ञकाश्वोपेतेन्द्र ते तुभ्यं नव्यं नवतरं ब्रह्म स्तोत्रमकारि । अस्माभिः क्रियते । रथ्यो रथवन्तो वयं धिया प्रज्ञारूपया स्तुत्या सदासास्त्वां सर्वदा भजमानास्त्वदर्थं हवीरूपस्यान्नस्य दातारो वा स्याम । भूयास्म ॥ २१ ॥