चतुर्थं मण्डलम् - सूक्तम् 10

8 ऋचः

ऋषिः: वामदेवो गौतमः देवता: अग्निः छन्दः: पदपंक्तिः

सूक्तम् 4.10 - सम्पूर्णम्

1 / 8
ऋक्: 4.10.1
0:00 0:00
▶ सर्वाणि ऋक्कानि (8)
4.10.1
अग्ने॒ तम॒द्याश्वं॒ न स्तोमै॒ः क्रतुं॒ न भ॒द्रं हृ᳚दि॒स्पृश᳚म् ।
ऋ॒ध्यामा᳚ त॒ ओहै᳚ः ॥
▶ पदपाठः (Word-by-word)
अग्ने᳚ । तम् । अ॒द्य । अश्व᳚म् । न । स्तोमैः᳚ । क्रतु᳚म् । न । भ॒द्रम् । हृ॒दि॒॑स्पृश᳚म् ।
ऋ॒ध्याम᳚ । ते॒ । ओहैः᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

अग्ने तमद्येत्यष्टर्चं दशमं सूक्तं वामदेवस्यार्षमाग्नेयम् । तथा चानुक्रमणिका । अग्ने तमद्य पदपङ्क्तं पञ्चमी महापदपङ्क्तिरन्त्योष्णिक् चतुर्थी षष्ठुपान्त्या वा सप्तम्याः पञ्चकौ मुख्यौ तृतीयः सप्तको नवकश्चाष्टम्याः पञ्चम्याः पञ्चकः पादश्चतुष्कः सप्तकस्त्रैष्टुभश्चेति । इदं कृत्स्नमपि सूक्तं पदकङ्कि छन्दस्कं पञ्चकाश्चत्वारः षट्कश्चै कश्चतुर्थश्चतुष्को वा पदपङ्क्तिरित्युक्तलक्षणोपेतत्वात् । पञ्चमी तव स्वादिष्ठेत्येषा महापदपङ्क्तिः पञ्च पञ्चकाः षट्कश्चैक इति लक्षनसद्भावात् । अन्त्या शिवा नः सख्येत्येषोष्णिक्छन्दस्का । चतुर्थीषष्ठी सप्तम्य अभिष्टे अद्य घृतं न पूतं कृतं चिद्धि ष्मेत्येतास्तिस्र उषिणिहः । पदपङ्क्त्यो वा । अत्र सप्तम्यष्टम्योः पदपङ्क्त्युष्णिहोः परिभाषोक्तपादविच्छेदापवादाय प्रकारान्तरेण विच्छेदः कृतः । दशमेऽहनीदं सूक्तमाज्यशस्त्रम् । सूत्रितं च । अग्ने तमद्याश्वं न स्तोमैरित्याज्यम् । आ. ८-१२ । इति । पिण्डपितृयज्ञेऽग्ने तमद्येत्यनयाग्निं प्रत्यागच्छेत् । सूत्रितं च । अग्निं प्रत्येयादग्ने तमद्याश्वं न स्तोमैरिति । आ. २-७ । इति । पौनराधेयिक्यां स्विष्टकृत्येषैव याज्या । सुत्रितं च । अग्ने तमद्याश्वं न स्तोमैरिति संयाज्ये । आ. २-८ । इति ॥

हे अग्ने अद्यास्मिन्नहनि वयमृत्विगादय ओहैरिन्द्रादिप्रापकैः स्तोमैः स्तोत्रसमुहैस्तं प्रसिद्धं त्वामृध्याम । समर्धयामः । कीदृशं त्वाम् । अश्वं न वोढारमश्वमिव तथा हविषो वाहकं क्रतुम् न कर्तारमिव । उपकर्तारमित्यर्थः । तथा भद्रं भजनीयं हृदिस्पृशं हृदयंगमम् । आतिशयेन प्रियमित्यर्थः ॥ १ ॥

4.10.2
अधा॒ ह्य᳚ग्ने॒ क्रतो᳚र्भ॒द्रस्य॒ दक्ष᳚स्य सा॒धोः ।
र॒थीरृ॒तस्य᳚ बृह॒तो ब॒भूथ᳚ ॥
▶ पदपाठः (Word-by-word)
अध᳚ । हि । अ॒ग्ने॒ । क्रतोः᳚ । भ॒द्रस्य᳚ । दक्ष᳚स्य । सा॒धोः ।
र॒थीः । ऋ॒तस्य᳚ । बृ॒ह॒तः । ब॒भूथ᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

पौनराधेयिक्यामिष्टौ प्रधानस्याधा ह्यग्ने इत्येषानुवाक्या । एभिर्नो अर्कैरिति तस्यां स्विष्टकृतोऽनुवाक्या । अभिष्टे अद्येति प्रधानस्य याज्या । सुत्रितं च । अधा ह्यग्ने क्रतोर्भद्रस्याभिष्ठे अद्य गीर्भिर्गृणन्त एभिर्नो अर्कैः । आ. २-८ । इति ॥

अधा हि इदानीमेव हे अग्ने त्वं क्रतोरस्मदीयस्य यागस्य रथीर्नेता बभूथ । भवसि । छन्दसि लुङ्लङ्लुट इति भवतेर्वर्तमानेऽर्थे लिटि सिपस्थल् । आर्ध धातुकस्य्ड्वलादेरितीडागमे प्राप्ते बभूथाततंथेति निपातनादिडभावः । कीदृशस्य यागस्य । भद्रस्य भजनीयस्य दक्षस्य प्रवृद्धस्य साधोरभीष्टफलानां साधकस्य ऋतस्य सत्यभूतस्य बृहतो महतः ॥ २ ॥

4.10.3
ए॒भिर्नो᳚ अ॒र्कैर्भवा᳚ नो अ॒र्वाङ्स्व१॒᳚र्ण ज्योति᳚ः ।
अग्ने॒ विश्वे᳚भिः सु॒मना॒ अनी᳚कैः ॥
▶ पदपाठः (Word-by-word)
ए॒भिः । नः॒ । अ॒र्कैः । भव᳚ । नः॒ । अ॒र्वाङ् । स्वः᳚ । न । ज्योतिः᳚ ।
अग्ने᳚ । विश्वे᳚भिः । सु॒॑मनाः᳚ । अनी᳚कैः ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे अग्ने ज्योतिर्ज्योतिष्मान् स्वर्ण सूर्य इव तथा विश्वेभिर्विश्वैः समस्तैरनीकैस्तेजोभिः सुमनाः शोभनमनस्कस्त्वं नोऽस्मदीयैरेभिरेतैरर्कैरर्चनीयैः स्तोत्रैर्नोऽस्माकमर्वाङभिमुखो भव ॥ ३ ॥

4.10.4
आ॒भिष्टे᳚ अ॒द्य गी॒र्भिर्गृ॒णन्तो॑ग्ने॒ दाशे᳚म ।
प्र ते᳚ दि॒वो न स्त᳚नयन्ति॒ शुष्मा᳚ः ॥
▶ पदपाठः (Word-by-word)
आ॒भिः । ते॒ । अ॒द्य । गीः॒॑भिः । गृ॒णन्तः᳚ । अग्ने᳚ । दाशे᳚म ।
प्र । ते॒ । दि॒वः । न । स्त॒न॒य॒न्ति॒ । शुष्माः᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

अद्यास्मिन्दिवसे हे अग्ने आभिर्गीर्भिः स्तुतिरूपाभिर्वाग्भिर्गृणन्तस्त्वां स्तुवन्तो वयमृत्विगादयस्ते तुभ्यम् दाशेम । हवींषि दद्याम । दिवो न सूर्यस्य रश्मय इव ते त्वदीयाः शुष्माः शोधका ज्वालाः प्रस्तनयन्ति । प्रकर्षेण शब्दायन्ते । यद्वा । दिवो न मेघा इव त्वदीया ज्वालाः शब्दायन्ते ॥ ४ ॥

4.10.5
तव॒ स्वादि॒ष्ठाग्ने॒ संदृ᳚ष्टिरि॒दा चि॒दह्न᳚ इ॒दा चि᳚द॒क्तोः ।
श्रि॒ये रु॒क्मो न रो᳚चत उपा॒के ॥
▶ पदपाठः (Word-by-word)
तव᳚ । स्वादि᳚ष्ठा । अग्ने᳚ । सम्॑दृ᳚ष्टिः । इ॒दा । चि॒त् । अह्नः᳚ । इ॒दा । चि॒त् । अ॒क्तोः ।
श्रि॒ये । रु॒क्मः । न । रो॒च॒ते॒ । उ॒पा॒के ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे अग्ने स्वादिष्ठा स्वादुतमा प्रियतमा तव त्वदीया संदृष्टिर्दीप्तिरह्न इदा चित् दिवसस्येदानीं चाक्तोरिदा चित् । अक्तुरिति रात्रिनाम शर्वर्यक्तुरूर्म्येति रात्रिनामसु पाठात् । रात्रेरिदानीं च । अहोरात्र इत्यर्थः । अन्जू व्यक्तिम्रक्षणकान्तिगतिष्वित्यस्माद्धातोः किच्चेत्यौणादिकसूत्रेण तुप्रत्ययः तस्य किद्वद्भावश्च । तितित्रेतीट् प्रतिषेधः । अनिदितामित्युपधानकारलोपः । चोः कुरिति कुत्वम् । रुक्मो नालङ्कार इव श्रिये पदार्थमाश्रयितुमुपाकेऽन्तिके । उपाक इत्यन्तिक नाम आक उपाक इति तन्नामसु पाठात् । रोचते । राजते ॥ ५ ॥

4.10.6
घृ॒तं न पू॒तं त॒नूर᳚रे॒पाः शुचि॒ हिर᳚ण्यम् ।
तत्ते᳚ रु॒क्मो न रो᳚चत स्वधावः ॥
▶ पदपाठः (Word-by-word)
घृ॒तम् । न । पू॒तम् । त॒नूः । अ॒रे॒पाः । शुचि᳚ । हिर᳚ण्यम् ।
तत् । ते॒ । रु॒क्मः । न । रो॒च॒त॒ । स्व॒धा॒॑वः॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे स्वधावः । स्वधा शब्दोऽन्नवाची । अन्नवन्नग्ने पूतं शोधितं घृतं नाज्यमिव तनूस्त्वदीया मूर्तिररेपाः वापरहिता भवति । शुचि शुद्धं हिरण्यं हितरमणीयं ते त्वदीयं तत्प्रसिद्धं तेजो रुक्मो न भूशणमिव रोचत । रोचते । भासते ॥ ६ ॥

4.10.7
कृ॒तं चि॒द्धि ष्मा॒ सने᳚मि॒ द्वेषो॑ग्न᳚ इ॒नोषि॒ मर्ता᳚त् ।
इ॒त्था यज᳚मानादृतावः ॥
▶ पदपाठः (Word-by-word)
कृ॒तम् । चि॒त् । हि । स्म॒ । सने᳚मि । द्वेषः᳚ । अग्ने᳚ । इ॒नोषि᳚ । मर्ता᳚त् ।
इ॒त्था । यज᳚मानात् । ऋ॒त॒॑वः॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे ऋतावः सत्यवन्नग्ने कृतं चित् यजमानेन कृतमपि सनेमि चिरन्तनम् । सनेमीति पुराणनाम सनेमि पूर्व्यमिति पुराणनामसु पाठात् । द्वेषः पापं मर्तान्मनुष्याद्यजमानादित्था सत्यम् । इत्थेति सत्यनामैतत् अद्धेत्थेति तन्नामस्नु पाठात् । इनोषिहिस्म । प्रेरयस्येव खलु नाशयसीत्यर्थः ॥ ७ ॥

4.10.8
शि॒वा नः᳚ स॒ख्या सन्तु᳚ भ्रा॒त्राग्ने᳚ दे॒वेषु᳚ यु॒ष्मे ।
सा नो॒ नाभि॒ः सद᳚ने॒ सस्मि॒न्नूध᳚न् ॥
▶ पदपाठः (Word-by-word)
शि॒वा । नः॒ । स॒ख्या । सन्तु᳚ । भ्रा॒त्रा । अग्ने᳚ । दे॒वेषु᳚ । यु॒ष्मे इति᳚ ।
सा । नः॒ । नाभिः᳚ । सद᳚ने । सस्मि᳚न् । ऊध᳚न् ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे अग्ने नोऽस्मदीयानि सख्या सख्यानि सखित्वानि भ्रात्रा भ्रात्राणिभ्रातृसम्बन्धीनि कर्माणि देवेषु द्योतमानेषु युष्मे युष्मासु । सुपां सुलुगिति सप्तमी बहुवचनस्य शे आदेशः । शिवा शिवानि सन्तु । मङ्गलानि भवन्तु । सा सखित्वाभ्रातृकर्म सन्ततिः सदने देवानां स्थाने सस्मिन्नूधनि सर्वस्मिन्यज्ञे नोऽस्माकं नाभिर्बन्धनं भवति ॥ ८ ॥