अधा॒ ह्य᳚ग्ने॒ क्रतो᳚र्भ॒द्रस्य॒ दक्ष᳚स्य सा॒धोः ।
र॒थीरृ॒तस्य᳚ बृह॒तो ब॒भूथ᳚ ॥
र॒थीरृ॒तस्य᳚ बृह॒तो ब॒भूथ᳚ ॥
पदपाठः (Word-by-word)
अध᳚ । हि । अ॒ग्ने॒ । क्रतोः᳚ । भ॒द्रस्य᳚ । दक्ष᳚स्य । सा॒धोः ।
र॒थीः । ऋ॒तस्य᳚ । बृ॒ह॒तः । ब॒भूथ᳚ ॥
र॒थीः । ऋ॒तस्य᳚ । बृ॒ह॒तः । ब॒भूथ᳚ ॥
सायणभाष्यम् (Sayana Commentary)
पौनराधेयिक्यामिष्टौ प्रधानस्याधा ह्यग्ने इत्येषानुवाक्या । एभिर्नो अर्कैरिति तस्यां स्विष्टकृतोऽनुवाक्या । अभिष्टे अद्येति प्रधानस्य याज्या । सुत्रितं च । अधा ह्यग्ने क्रतोर्भद्रस्याभिष्ठे अद्य गीर्भिर्गृणन्त एभिर्नो अर्कैः । आ. २-८ । इति ॥
अधा हि इदानीमेव हे अग्ने त्वं क्रतोरस्मदीयस्य यागस्य रथीर्नेता बभूथ । भवसि । छन्दसि लुङ्लङ्लुट इति भवतेर्वर्तमानेऽर्थे लिटि सिपस्थल् । आर्ध धातुकस्य्ड्वलादेरितीडागमे प्राप्ते बभूथाततंथेति निपातनादिडभावः । कीदृशस्य यागस्य । भद्रस्य भजनीयस्य दक्षस्य प्रवृद्धस्य साधोरभीष्टफलानां साधकस्य ऋतस्य सत्यभूतस्य बृहतो महतः ॥ २ ॥