चतुर्थं मण्डलम् - सूक्तम् 3

16 ऋचः

ऋषिः: वामदेवो गौतमः देवता: रुद्रः छन्दः: त्रिष्टुप्

सूक्तम् 4.3 - सम्पूर्णम्

1 / 16
ऋक्: 4.3.1
0:00 0:00
▶ सर्वाणि ऋक्कानि (16)
4.3.1
आ वो॒ राजा᳚नमध्व॒रस्य᳚ रु॒द्रं होता᳚रं सत्य॒यजं॒ रोद᳚स्योः ।
अ॒ग्निं पु॒रा त᳚नयि॒त्नोर॒चित्ता॒द्धिर᳚ण्यरूप॒मव᳚से कृणुध्वम् ॥
▶ पदपाठः (Word-by-word)
आ । वः॒ । राजा᳚नम् । अ॒ध्व॒रस्य᳚ । रु॒द्रम् । होता᳚रम् । स॒त्य॒॑यज᳚म् । रोद᳚स्योः ।
अ॒ग्निम् । पु॒रा । त॒न॒यि॒त्नोः । अ॒चित्ता᳚त् । हिर᳚ण्य॑रूपम् । अव᳚से । कृ॒णु॒ध्व॒म् ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे ऋत्विग्यजमाना आध्वरस्य यज्ञस्य राजानमधिपतिं होतारं देवानामाह्वातारं रुद्रं रोरूयमाणं द्रवन्तं शत्रून्रोदयन्तं वा । यद्वा । एषा वा अग्नेस्तनूर्यद्रुद्र इति रुद्रात्मकं रोदस्योर्द्यावापृथिव्योः सत्ययजम् सत्यस्यान्नस्य दातारम् । यद्वा । सत्ययजं सत्येन हविष देवान्यजन्तम् । यद्वा । रोदस्योर्व्याप्य वर्तमानं हिरण्यरूपं सुवर्णरूपं सुवर्णप्रभम् । एवं दिधमग्निं वो युष्माकमवसे रक्शणाय तनयित्नोः । तनयित्नुरशनिः स ह्याकस्मिकः । तत्सदृशादचित्तात् । नविद्यते चित्तं यस्मिन् तदचित्तम् । चित्तोपलक्शितसर्वेन्द्रियोपसंहारो मरणमिति यावत् । तस्मान्मरणात्पुरा प्रागेवा कृणुध्वम् । यूयं समन्ताद्धविर्भिरग्निं भजध्वम् । रुद्रम् । रोदयते रोदेर्णिलुक्च । उ.२-२२ । इति रक्प्रत्ययः । तनयित्नोः । तनिः शब्दार्थः । चुरादिरदन्तः । स्तनिशुधिपुशिगमिमनिभ्योणेरित्नुच् । उ. ३-२९ । इतीत्नुच् प्रत्ययः । चित्स्वरेणान्तोदात्तः । सुपा सहैकादेश एकादेशस्वरः । कृणुध्वम् । कृवि हिंसाकरणयोः । लोटि रूपं ॥ १ ॥

4.3.2
अ॒यं योनि᳚श्चकृ॒मा यं व॒यं ते᳚ जा॒येव॒ पत्य᳚ उश॒ती सु॒वासा᳚ः ।
अ॒र्वा॒ची॒नः परि᳚वीतो॒ नि षी᳚दे॒मा उ᳚ ते स्वपाक प्रती॒चीः ॥
▶ पदपाठः (Word-by-word)
अ॒यम् । योनिः᳚ । च॒कृ॒म । यम् । व॒यम् । ते॒ । जा॒या॑इ᳚व । पत्ये᳚ । उ॒श॒ती । सु॒॑वासाः᳚ ।
अ॒र्वा॒ची॒नः । परि᳚॑वीतः । नि । सी॒द॒ । इ॒माः । ऊं॒ इति᳚ । ते॒ । सु॒॑अ॒पा॒क॒ । प्र॒ती॒चीः ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे अग्ने ते त्वदर्थं यमुत्तरवेदिलक्षणं प्रदेशं वयं च कृम । कुर्मः । अयं योनित्तव स्थानं भवति । तत्र दृष्तान्तः । जायेव । यथा पत्य उशती पतिं कामयमाना सुवासाः शोभनवस्त्रोपेता जाया स्वात्मसमीपे तस्य स्थानं करोति तद्वत् । हे स्वपाक स्वपस्क सुकर्मन्नग्ने त्वं परिवीतो यश्तव्यदेवैस्तेजो भिर्वा परिवीतोऽर्वाचीनोऽस्मदभिमुखः सन् इन् षीद । उत्तरवेद्यामुपविश । तत्र स्थितस्य ते तवेमा ज्वालाः स्तुतयो वा प्रतीचीस्त्वदभिमुखाः प्रवर्तन्ते । चकृम । करोतेर्लिटि रूपम् । वाक्यभेदान्निघाताभावः । अर्वाचीनः । विभाषाञ्चे रदिगिति खः । परिवितः । व्येञ् संवरणे । कर्मणि निष्था । यजादित्वात्संप्रसारणम् । गतिरनन्तर इति गतेः स्वरः ॥ २ ॥

4.3.3
आ॒शृ॒ण्व॒ते अदृ᳚पिताय॒ मन्म᳚ नृ॒चक्ष᳚से सुमृळी॒काय᳚ वेधः ।
दे॒वाय᳚ श॒स्तिम॒मृता᳚य शंस॒ ग्रावे᳚व॒ सोता᳚ मधु॒षुद्यमी॒ळे ॥
▶ पदपाठः (Word-by-word)
आ॒शृ॒ण्व॒ते । अदृ᳚पिताय । मन्म᳚ । नृ॒॑चक्ष᳚से । सु॒॑मृ॒ळी॒काय᳚ । वे॒धः॒ ।
दे॒वाय᳚ । श॒स्तिम् । अ॒मृता᳚य । शं॒स॒ । ग्रावा᳚॑इव । सोता᳚ । म॒धु॒॑सुत् । यम् । ई॒ळे ॥
▶ सायणभाष्यम् (Sayana Commentary)

वेधः स्तोत्राणां कर्तर्हे स्तोतराशृण्वते स्तोत्राकर्णनपरायादृपिता यादृप्तायाप्रमत्ताय नृचक्षसे वृणां द्रष्ट्रे सुमृळिकाय सुसुखायामृताय मरणधर्मरहिताय देवाय तस्मा अग्नये मन्म स्तोत्रं शस्तिं शस्त्रं च संश । मधुषुन्मदकरस्य सोमस्य सोता । तत्र दृष्टान्तः । ग्रावेव । यथा ग्रावा सोमस्य सोता तद्वत् । सोमाभिषवं कुर्वाणो यजमानो यमग्निमीळे । स्तौति । तस्मै शंसेति समन्वयः । यद्वा । मधुषुत्सोमसुद्यजमानोऽग्निमीळे । स्तौति । तत्र दृष्टान्तः । यथा ग्रावा सोमस्य सोता शब्दं करोति । प्रैते वदन्तु प्रवयं वदाम ग्रावभ्यः । ऋग्वे. १०-९४-१ । इत्यत्र ग्राव्णां कर्तृत्वं श्रुतमिति । आशृण्वते । शतरनुम इति बिभक्तेरुदात्तत्वम् । ईळे । ईड स्तुतौ । लटि लोपस्त आत्मनेपदेष्विति तलोपः । यद्वा । लिटि तशब्दस्यैशादेशे कृते रूपं ॥ ३ ॥

4.3.4
त्वं चि᳚न्न॒ः शम्या᳚ अग्ने अ॒स्या ऋ॒तस्य᳚ बोध्यृतचित्स्वा॒धीः ।
क॒दा त᳚ उ॒क्था स᳚ध॒माद्या᳚नि क॒दा भ᳚वन्ति स॒ख्या गृ॒हे ते᳚ ॥
▶ पदपाठः (Word-by-word)
त्वम् । चि॒त् । नः॒ । शम्यै᳚ । अ॒ग्ने॒ । अ॒स्याः । ऋ॒तस्य᳚ । बो॒धि॒ । ऋ॒त॒॑चि॒त् । सु॒॑आ॒धीः ।
क॒दा । ते॒ । उ॒क्था । स॒ध॒॑माद्या᳚नि । क॒दा । भ॒व॒न्ति॒ । स॒ख्या । गृ॒हे । ते॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे अग्ने त्वं चित्त्वमेव शम्यै । शमीशब्दः कर्मनाम । अस्याः शम्यै नोऽस्मत्सम्बन्धिनोऽस्य कर्मणो देवता भवसि । हे ऋतचित् सत्यज्ञ हे अग्ने स्वाधीः सुकर्मा सुध्यानो वा त्वमृतस्य बोधि । अस्मदीयं स्तोत्रं बुध्यस्व । ते तव सधमाद्यानि सहमदनिमित्तान्युक्था शस्त्राणि कदा कस्मिन्काले भवन्ति । भविष्यन्ति । तथास्मदीये गृहे ते त्वया सह सख्या सख्यानि कदा भविष्यन्ति । सधमाद्यानि । मादयतेर्ण्यन्तस्याचो यदिति यत् । सध मादस्थयोरिति सहस्य सधादेशः । भवन्ति । विभाषा कदाकर्ह्योः । पा. ३-३-५ । इति भविष्यदर्थे लट् ॥ ४ ॥

4.3.5
क॒था ह॒ तद्वरु᳚णाय॒ त्वम᳚ग्ने क॒था दि॒वे ग᳚र्हसे॒ कन्न॒ आगः᳚ ।
क॒था मि॒त्राय᳚ मी॒ळ्हुषे᳚ पृथि॒व्यै ब्रव॒ः कद᳚र्य॒म्णे कद्भगा᳚य ॥
▶ पदपाठः (Word-by-word)
क॒था । ह॒ । तत् । वरु᳚णाय । त्वम् । अ॒ग्ने॒ । क॒था । दि॒वे । ग॒र्ह॒से॒ । कत् । नः॒ । आगः᳚ ।
क॒था । मि॒त्राय᳚ । मी॒ळ्हुषे᳚ । पृ॒थि॒व्यै । ब्रवः᳚ । कत् । अ॒र्य॒म्णे । कत् । भगा᳚य ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे अग्ने त्वं तदस्मदीयं पापं वरुणाय कथा गर्हसे । केन हेतुना गर्हापुर्वमावेदयेः । हेति पूरणः । दिवे द्युलोकाय द्योतमानाय सूर्याय वा कथा कथं तत्पापमावेदयेः । सोऽस्माकमागस्तत्पापं कत्किमस्ति त्वत्परिचरणान्नास्तीत्यर्थः । तथा मीळ्हुषेऽभिमतफलसेक्त्रे मित्राय पृथिव्यै च कथा ब्रवः । कथमागोब्रूयाः । अर्यम्णे देवाय भगायैतन्नामकाय च देवाय कत्कथं ब्रूयाः । कथा । किशब्दात्था हेतौ च छन्दसीति थाप्रत्ययः । प्राग्दिशो विभक्तिइति विभक्तिसंज्ञायां किमः कः । पा. ७-२-१०२ । इति कादेशः । मीळ्हुषे । मिह सेचने । क्वसौ दाश्वान् साह्वान् मीढ्वांश्चेति निपातितः । ब्रवः । ब्रूञ् व्यक्तायां वाचि । लेटि लेटोऽडाटावित्यडागमः । पादादित्वादनिघातः । आगमस्यानुदात्तत्वाद्धातुस्वरः ॥ ५ ॥

4.3.6 समानपद
कद्धिष्ण्या᳚सु वृधसा॒नो अ᳚ग्ने॒ कद्वाता᳚य॒ प्रत᳚वसे शुभं॒ये ।
परि᳚ज्मने॒ नास᳚त्याय॒ क्षे ब्रव॒ः कद᳚ग्ने रु॒द्राय᳚ नृ॒घ्ने ॥
▶ पदपाठः (Word-by-word)
कत् । धिष्ण्या᳚सु । वृ॒ध॒सा॒नः । अ॒ग्ने॒ । कत् । वाता᳚य । प्र॑त᳚वसे । शु॒भ॒म्॑ये ।
परि᳚॑ज्मने । नास᳚त्याय । क्षे । ब्रवः᳚ । कत् । अ॒ग्ने॒ । रु॒द्राय᳚ । नृ॒॑घ्ने ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे अग्ने धिष्ण्यास्वाग्नीध्रीयादिधिष्ण्येषु व्रुधसानो घृताद्याहुतिभिर्वर्धमानस्त्वं कत्कथं ब्रूयाः । प्रतवसे प्रकृष्त बलाय शुभंये शुभस्य प्रापयित्रे परिज्मने परितो गन्त्रे नासत्याय सत्यस्य नेत्रे । यद्वा । न विद्यतेऽसत्यं यस्य तस्मै वाताय वायवे । यद्वा । नासत्यायेति वचनव्यत्ययः । नासत्याभ्यामश्विभ्यां क्षे । क्षेति पृथिवीमाह । क्षियन्ति निवसन्त्यस्यां पाणिन इति । तस्यै क्षे पृथिव्यै च कत्कथं ब्रूयाः । हे अग्ने नृघ्ने नृणां पापकृतां हन्त्रे रुद्राय देवाय कत्कथमागोब्रवः । ब्रूयाः । वृधसानः । वृधु वर्धने । असानजित्यनुवृत्तावृञ्जिवृधिमन्दिसहिभ्यः किदित्यसानच् प्रत्ययः । कित्त्वादगुणण् । चित्त्वादन्तोदात्तः । शुभंये । या प्रापणे । विच् । तत्पुरुषे कृति बहुलमिति द्वितीयाया अप्यलुक् । कृत्स्वरः । क्षे । क्शि निवासगत्योः । अन्येभ्योऽपि दृश्यत इत्यधिकरणे डः । ततष्टाप् । चतुर्थ्येकवचन आतो धातोरित्यत्रात इति योगविभागादाकारलोपः । नृघ्ने । हन हिंसागत्योः । बहुलं छन्दसीति क्विप् ॥ ६ ॥

4.3.7
क॒था म॒हे पु᳚ष्टिम्भ॒राय᳚ पू॒ष्णे कद्रु॒द्राय॒ सुम᳚खाय हवि॒र्दे ।
कद्विष्ण᳚व उरुगा॒याय॒ रेतो॒ ब्रव॒ः कद᳚ग्ने॒ शर᳚वे बृह॒त्यै ॥
▶ पदपाठः (Word-by-word)
क॒था । म॒हे । पु॒ष्टि॒म्॑भ॒राय᳚ । पू॒ष्णे । कत् । रु॒द्राय᳚ । सु॑म᳚खाय । ह॒विः॒॑दे ।
कत् । विष्ण᳚वे । उ॒रु॒॑गा॒याय᳚ । रेतः᳚ । ब्रवः᳚ । कत् । अ॒ग्ने॒ । शर᳚वे । बृ॒ह॒त्यै ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे अग्ने महे महते पुष्टिंभराय पुष्टिधारकाय पूश्ण एतन्नामकाय देवाय कथा केन हेतुना पापं ब्रवीथाः । सुमखाय सुपूजनीयाय सुयज्ञाय वा हविर्देऽग्निरूपेण देवानां हविर्दात्रे । यद्वा । स्विश्टकृत्त्वाद्धविषो दात्रे । रुद्राय कत्कथं ब्रूयाः । तथोरुगायायोरुभिर्बहुभिर्गायमानाय यद्वा । प्रभूतकीर्तये विष्णवे रेतः क्षयहेतु पापं कत्कथं वदेः । शरवे । शृणाति पक्वा ओषधीरिति शरुः शरत्संवत्सरः । यद्वा । हिंसिका निरृतिः । बृहत्यै महत्यै शरदे निरृत्यै वा कत्कथं पापं ब्रवः । बूऊयाः । पुष्टिंभराय । डुभृञ् धारणपोशणयोः । संज्ञायां भृतॄवृजीत्यादिना खच् । अरुर्दिषदजन्तस्य मुमिति पूर्वपदस्य मुमागमः । चित्त्वादन्तोदात्तः । समसे कृत्स्वरः । हविर्दे । अनुदात्तस्य च यत्रोदात्तलोप इति सुप उदात्तत्वम् । शरवे । शॄ हिंसायां शॄस्वृस्निहित्रप्यसीत्यादिना उप्रत्ययः । निदित्यनुवृत्तेराद्युदात्तः ॥ ७ ॥

4.3.8 समानपद
क॒था शर्धा᳚य म॒रुता᳚मृ॒ताय᳚ क॒था सू॒रे बृ᳚ह॒ते पृ॒च्छ्यमा᳚नः ।
प्रति᳚ ब्र॒वो॑दि᳚तये तु॒राय॒ साधा᳚ दि॒वो जा᳚तवेदश्चिकि॒त्वान् ॥
▶ पदपाठः (Word-by-word)
क॒था । शर्धा᳚य । म॒रुता᳚म् । ऋ॒ताय᳚ । क॒था । सू॒रे । बृ॒ह॒ते । पृ॒च्छ्यमा᳚नः ।
प्रति᳚ । ब्र॒वः॒ । अदि᳚तये । तु॒राय᳚ । साध᳚ । दि॒वः । जा॒त॒॑वे॒दः॒ । चि॒कि॒त्वान् ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे अग्ने ऋताय गन्त्रे सत्यभूताय वा मरुतां शर्धाय बलभुताय गणाय कथा केन हेतुना मदीयमागः प्रतिब्रूयाः । तेन पृच्छ्यमानः सन् तस्मै बृहते महते सूरे सूर्याय कथा कथं वदेः । तथादितये देव्यै तुराय त्वरितगमनाय वायवे । अदितयेऽदीनाय तुराय वा । प्रतिब्रवः । मदीय मागः कथं प्रतिब्रूयाः । यस्मादेवं तस्मात् हे जातवेदोऽग्ने चिकित्वान् तत्सर्वं जानास्त्वं दिवो दीप्तान्देवान् साध । साधय । गच्छ । यद्वा । दिवो द्युलोकस्य यज्ञवहनलक्शणं कार्यं साध । कुरु । सूरे । सर्वविधीनां छन्दसि विकल्पतत्वात् ङेर्यत्वाभावः । अतो गुण इति पररूपत्वम् । पृच्छ्यमानः । पृच्छज्ञीप्सायाम् । कर्मणि यक् । ग्रहज्यादिना सम्प्रसारणम् । शानचो लसार्वधातुकानुदात्तत्वे यक्स्वरः । साध । राध साध संसिद्धौ । अन्तर्भावितण्यर्थस्य लोटि व्यत्ययेन शप् ॥ ८ ॥

4.3.9
ऋ॒तेन᳚ ऋ॒तं निय᳚तमीळ॒ आ गोरा॒मा सचा॒ मधु᳚मत्प॒क्वम᳚ग्ने ।
कृ॒ष्णा स॒ती रुश᳚ता धा॒सिनै॒षा जाम᳚र्येण॒ पय᳚सा पीपाय ॥
▶ पदपाठः (Word-by-word)
ऋ॒तेन᳚ । ऋ॒तम् । नि॑य᳚तम् । ई॒ळे॒ । आ । गोः । आ॒मा । सचा᳚ । मधु᳚॑मत् । प॒क्वम् । अ॒ग्ने॒ ।
कृ॒ष्णा । स॒ती । रुश᳚ता । धा॒सिना᳚ । ए॒षा । जाम᳚र्येण । पय᳚सा । पी॒पा॒य॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे अग्ने ऋतेन सत्यभूतेन यज्ञेन नियतमनुस्यूतमृतमुदकं गोर्धेनोः पय एळे । आयाचे । संनाय्यादिहविरर्थं गव्यं पयस्त्वां याच इत्यभिप्रायः । आमापक्वा सा गौर्मधुमन्माधुर्योपेतं पक्वं पयः सचा सह धारयति । कृष्णा कृष्णवर्णा सत्येषा गौ रुशता श्वेतेन धासिना प्राणिनां धारकेण जामर्येण । जायन्त इति जाः प्रजाः । ता जा अमर्येणामरणनिमित्तेन तेन पयसा पीपाय । प्रजाः प्याययति ॥ तवैष महिमा यद्रसन्परिणामयन्नेवं करोशि । पीपाय । प्यायतेर्लिटि लिड्यङोश्चेति पीभावः ॥ ९ ॥

4.3.10
ऋ॒तेन॒ हि ष्मा᳚ वृष॒भश्चि᳚द॒क्तः पुमा{4}᳚ अ॒ग्निः पय᳚सा पृ॒ष्ठ्ये᳚न ।
अस्प᳚न्दमानो अचरद्वयो॒धा वृषा᳚ शु॒क्रं दु᳚दुहे॒ पृश्नि॒रूधः᳚ ॥
▶ पदपाठः (Word-by-word)
ऋ॒तेन᳚ । हि । स्म॒ । वृ॒ष॒भः । चि॒त् । अ॒क्तः । पुमा᳚न् । अ॒ग्निः । पय᳚सा । पृ॒ष्ठ्ये᳚न ।
अस्प᳚न्दमानः । अ॒च॒र॒त् । व॒यः॒॑धाः । वृषा᳚ । शु॒क्रम् । दु॒दु॒हे॒ । पृश्निः᳚ । ऊधः᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

वृषभोऽभिमतफलवर्षकः पुमान् श्रेश्ठः सोऽग्निरृतेन सत्यभुतेन पृष्ठ्येन धारकेण पयसाक्तः सिक्तो भवति । हिष्मचित् त्रयः पुरणाः । वयोधा अन्नदः सोऽग्निरस्पन्दमान एकत्रावस्थितः सन् एवाचरत् । सर्वत्र तेजसा चरति । तथा वृषापां वर्षकः पृष्निः सूर्यः शुक्रं पय ऊधोऽन्तरिक्षं मेघं वा दुदुहे । दोग्धि । अक्तः । अन्जू व्यक्तिम्रक्शणगतिषु । कर्मणिनिष्ठा । दुदुहे । द्विकर्मकोऽयं धातुः । ऊधः । अकथितं चेति कर्मसंज्ञा ॥ १० ॥

4.3.11
ऋ॒तेनाद्रिं॒ व्य᳚सन्भि॒दन्त॒ः समङ्गि᳚रसो नवन्त॒ गोभि᳚ः ।
शु॒नं नर॒ः परि᳚ षदन्नु॒षास᳚मा॒विः स्व᳚रभवज्जा॒ते अ॒ग्नौ ॥
▶ पदपाठः (Word-by-word)
ऋ॒तेन᳚ । अद्रि᳚म् । वि । अ॒स॒न् । भि॒दन्तः᳚ । सम् । अङ्गि᳚रसः । न॒व॒न्त॒ । गोभिः᳚ ।
शु॒नम् । नरः᳚ । परि᳚ । स॒द॒न् । उ॒षस᳚म् । आ॒विः । स्वः᳚ । अ॒भ॒व॒त् । जा॒ते । अ॒ग्नौ ॥
▶ सायणभाष्यम् (Sayana Commentary)

अङ्गिरसो मेधातिथिप्रभृतय ऋतेन यज्ञेन हेतुना गवां निरोधकमद्रिं पर्वतं भिदन्तो विदारयन्तः सन्तो व्यसन् । व्यक्शिपन् । ततस्ते बोभिः सं नवंत । समगच्छन्त । नरः कर्मणां नेतारस्ते शुनं सुखेनोषसं परि सदन् । परितः प्रप्नुवन् । ततः स्वः सूर्योऽप्याविरभवत् । सर्वमेतदग्नौ त्वयि जाते मन्थनेन निष्पादिते सत्यभूदिति । असन् । अस्यतेर्लुङि च्लेरस्यतिवक्तीत्यादिनाङादेशः । अनित्यमागमशासनमिति थुगभावः ॥ ११ ॥

4.3.12
ऋ॒तेन᳚ दे॒वीर॒मृता॒ अमृ᳚क्ता॒ अर्णो᳚भि॒रापो॒ मधु᳚मद्भिरग्ने ।
वा॒जी न सर्गे᳚षु प्रस्तुभा॒नः प्र सद॒मित्स्रवि᳚तवे दधन्युः ॥
▶ पदपाठः (Word-by-word)
ऋ॒तेन᳚ । दे॒वीः । अ॒मृताः᳚ । अमृ᳚क्ताः । अर्णः᳚॑भिः । आपः᳚ । मधु᳚मत्॑भिः । अ॒ग्ने॒ ।
वा॒जी । न । सर्गे᳚षु । प्र॒॑स्तु॒भा॒नः । प्र । सद᳚म् । इत् । स्रवि᳚तवे । द॒ध॒न्युः॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे अग्ने अमृता अमरणहेतव अमृक्ता रक्षः प्रभृतिभिरबाधिता मधुमद्भिर्माधुर्योपेतैरर्णोभिरुदकैर्युक्ता देवीर्देव्यो नद्य ऋतेन सत्येन यज्ञेन वा हेतुनाप आप्तव्याः सत्यः सदमित्सदैव स्रवितवे स्रवणाय प्र दधन्युः । प्रगच्छन्ति । तत्र दृष्टान्तः । वाजी न । यथा सर्गेषु प्रेरणेषु प्रस्तुभानः प्रोत्साह्यमानोऽश्वः प्रगच्छति तद्वत् । आपः । आप्लृ व्याप्तौ । आप्नोतेः क्विप् ह्रस्वश्चेति कर्मणि क्विप् । अप्तृन्नित्यादिना जसि दीर्घः । प्रस्तुभानः । स्तोभतिरर्चतिकर्मा ॥ १२ ॥

4.3.13
मा कस्य᳚ य॒क्षं सद॒मिद्धु॒रो गा॒ मा वे॒शस्य᳚ प्रमिन॒तो मापेः ।
मा भ्रातु᳚रग्ने॒ अनृ᳚जोरृ॒णं वे॒र्मा सख्यु॒र्दक्षं᳚ रि॒पोर्भु᳚जेम ॥
▶ पदपाठः (Word-by-word)
मा । कस्य᳚ । य॒क्षम् । सद᳚म् । इत् । हु॒रः । गाः॒ । मा । वे॒शस्य᳚ । प्र॒॑मि॒न॒तः । मा । आ॒पेः ।
मा । भ्रातुः᳚ । अ॒ग्ने॒ । अनृ᳚जोः । ऋ॒णम् । वेः॒ । मा । सख्युः᳚ । दक्ष᳚म् । रि॒पोः । भु॒जे॒म॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे अग्ने हुरोऽस्माकं हिम्सकस्य कस्य कस्यचिदपि जन्तोर्यक्शं यज्ञं सदमित्सदैव मा गाः । कदाचिदपि मा गच्छ । प्रमिनतो हिंसकस्य वेशस्य प्रातिवेश्यस्य यज्ञं मा गाः । तथापेर्मद्व्यतिरिक्तस्य बन्धोर्युज्ञं मा गच्छ । तथानृजोः कुटिलचित्तस्य भ्रातुर्रुणवद्देयं हविर्मा वेः । मा कामयेथाः । तथा वयमपि सख्युर्मित्रस्य रिपोः शत्रोर्दक्षं भोगसमर्थं धनं मा भुजेम । मा भुञ्जीमहि । किन्तु त्वया दत्तं धनं भुञ्जीमहि । हुरः । हृ प्रसह्यकरणे । क्विप् । बहुलं छन्दसीत्युत्वम् । सावेकाच इति विभक्तेरुदात्तत्वम् । भुजेम । भुज पालनाभ्यवहारयोः । आशीर्लिङि व्यत्ययेन परस्मै पदम् । लि~फ़्याशिष्यङ्गित्यङ् प्रत्ययः ॥ १३ ॥

4.3.14
रक्षा᳚ णो अग्ने॒ तव॒ रक्ष᳚णेभी रारक्षा॒णः सु᳚मख प्रीणा॒नः ।
प्रति᳚ ष्फुर॒ वि रु᳚ज वी॒ड्वंहो᳚ ज॒हि रक्षो॒ महि᳚ चिद्वावृधा॒नम् ॥
▶ पदपाठः (Word-by-word)
रक्ष᳚ । नः॒ । अ॒ग्ने॒ । तव᳚ । रक्ष᳚णेभिः । र॒र॒क्षा॒णः । सु॒॑म॒ख॒ । प्री॒णा॒नः ।
प्रति᳚ । स्फु॒र॒ । वि । रु॒ज॒ । वी॒ळु । अंहः᳚ । ज॒हि । रक्षः᳚ । महि᳚ । चि॒त् । व॒वृ॒धा॒नम् ॥
▶ सायणभाष्यम् (Sayana Commentary)

सुमख सुयज्ञ सुधनेति वा हे अग्ने ररक्षाणो भृशमस्माकं रक्षिता प्रीणानो हविर्भिः प्रीतस्त्वं तव रक्शणेभिस्त्वदीयैरवनैर्नोऽस्मान्रक्ष । पालय । प्रति स्फुर । अस्मान्प्रतिदीप्यस्व । वीळु दृढमंहः पापं वि रुज । विशेषेण नाशय । किञ्च महि चिन्महदपि वावृधानं वर्धमानं वृद्धं वा बाधकं रक्षो जहि । णः । नश्च धातुस्थोरुषुभ्य इदि सम्हितायां णत्वम् । ररक्षाणः । रक्षेर्यङ्लुकि चानशि रूपम् । जहि । हन हिंसागत्योः । लोटि हन्तेर्ज इति जादेशः । आभाच्छास्त्रीयस्या सिद्धत्वादतो हेरिति लुक् न भवति ॥ १४ ॥

4.3.15
ए॒भिर्भ᳚व सु॒मना᳚ अग्ने अ॒र्कैरि॒मान्त्स्पृ᳚श॒ मन्म᳚भिः शूर॒ वाजा᳚न् ।
उ॒त ब्रह्मा᳚ण्यङ्गिरो जुषस्व॒ सं ते᳚ श॒स्तिर्दे॒ववा᳚ता जरेत ॥
▶ पदपाठः (Word-by-word)
ए॒भिः । भ॒व॒ । सु॒॑मनाः᳚ । अ॒ग्ने॒ । अ॒र्कैः । इ॒मान् । स्पृ॒श॒ । मन्म᳚॑भिः । शू॒र॒ । वाजा᳚न् ।
उ॒त । ब्रह्मा᳚णि । अ॒ङ्गि॒रः॒ । जु॒ष॒स्व॒ । सम् । ते॒ । श॒स्तिः । दे॒व॑वा᳚ता । ज॒रे॒त॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे अग्ने एभिर्मधीयैरर्कैरर्चनीयैः शस्त्रैः सुमनाः शोभनमनस्को भव । हे शूर इमानस्मदीयान्हविर्लक्शणान्वाजन्मन्मभिः स्तोत्रैः सह स्पृश । प्रति गृहाण । उतापि च अङ्गिरः । अङ्गति हवींषि प्राप्नोतीत्यङ्गिरा अग्निः । यद्वा । येऽङ्गारा आसंस्तेऽङ्गिरसोऽभवन् । ऐ. ब्रा. ३-३४ । इदि ब्राह्मणम् । तेषामङ्गिरसां कारनत्वादग्नेरङ्गिरस्त्वम् । तत्कारणत्वे च मन्त्रः । ये अङ्गिरसः सूनवस्ते अग्नेः परि जज्ञिरे । ऋग्वे. १०-६२-५ । इति तादृश हे अग्ने ब्रह्माणि मन्त्रान् जुषस्व । सेवस्व । देववाता । देवार्थं गता देवान् स्तोतुं प्राप्तेत्यर्थः । तादृशी शस्तिः शंसनं ते त्वां सं जरेत । संवर्धयतु । स्पृश । स्पृस संस्पर्शने । तुदादिः । देववाता । वा गतिगन्धनयोः । गत्यर्थाकर्मकेति कर्तरि क्तः । देवः । पचाद्यजन्तः । क्ते चेति चतुर्थ्यन्तस्य पदस्य प्रकृतिस्वरः ॥ १५ ॥

4.3.16
ए॒ता विश्वा᳚ वि॒दुषे॒ तुभ्यं᳚ वेधो नी॒थान्य᳚ग्ने नि॒ण्या वचां᳚सि ।
नि॒वच᳚ना क॒वये॒ काव्या॒न्यशं᳚सिषं म॒तिभि॒र्विप्र᳚ उ॒क्थैः ॥
▶ पदपाठः (Word-by-word)
ए॒ता । विश्वा᳚ । वि॒दुषे᳚ । तुभ्य᳚म् । वे॒धः॒ । नी॒थानि᳚ । अ॒ग्ने॒ । नि॒ण्या । वचां᳚सि ।
नि॒॑वच᳚ना । क॒वये᳚ । काव्या᳚नि । अशं᳚सिषम् । म॒ति॑भिः᳚ । विप्रः᳚ । उ॒क्थैः ॥
▶ सायणभाष्यम् (Sayana Commentary)

वेधो विधातर्हे अग्ने विदुषे कर्मविषयज्ञानवते कवये क्रान्तदर्शिने तुभ्यं नीथानि फलप्रापकाणि निण्या नेयार्थानि गूढानि निवचना नितरां वक्तव्यानि काव्यानि कविभिर्मेधाविभि कृतान्येता विश्वैतानि सर्वाणि वचांसि वाक्यानि मतिभिर्मननीयैः स्तोत्रैरुक्थैः शस्त्रैश्च सहितो विप्रः प्राज्ञोऽहमशंसिषम् । अवोचम् । तानि सेवस्वेत्यर्थः ॥ १६ ॥