श्रवणम्

4.3.7
क॒था म॒हे पु᳚ष्टिम्भ॒राय᳚ पू॒ष्णे कद्रु॒द्राय॒ सुम᳚खाय हवि॒र्दे ।
कद्विष्ण᳚व उरुगा॒याय॒ रेतो॒ ब्रव॒ः कद᳚ग्ने॒ शर᳚वे बृह॒त्यै ॥
▶ पदपाठः (Word-by-word)
क॒था । म॒हे । पु॒ष्टि॒म्॑भ॒राय᳚ । पू॒ष्णे । कत् । रु॒द्राय᳚ । सु॑म᳚खाय । ह॒विः॒॑दे ।
कत् । विष्ण᳚वे । उ॒रु॒॑गा॒याय᳚ । रेतः᳚ । ब्रवः᳚ । कत् । अ॒ग्ने॒ । शर᳚वे । बृ॒ह॒त्यै ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे अग्ने महे महते पुष्टिंभराय पुष्टिधारकाय पूश्ण एतन्नामकाय देवाय कथा केन हेतुना पापं ब्रवीथाः । सुमखाय सुपूजनीयाय सुयज्ञाय वा हविर्देऽग्निरूपेण देवानां हविर्दात्रे । यद्वा । स्विश्टकृत्त्वाद्धविषो दात्रे । रुद्राय कत्कथं ब्रूयाः । तथोरुगायायोरुभिर्बहुभिर्गायमानाय यद्वा । प्रभूतकीर्तये विष्णवे रेतः क्षयहेतु पापं कत्कथं वदेः । शरवे । शृणाति पक्वा ओषधीरिति शरुः शरत्संवत्सरः । यद्वा । हिंसिका निरृतिः । बृहत्यै महत्यै शरदे निरृत्यै वा कत्कथं पापं ब्रवः । बूऊयाः । पुष्टिंभराय । डुभृञ् धारणपोशणयोः । संज्ञायां भृतॄवृजीत्यादिना खच् । अरुर्दिषदजन्तस्य मुमिति पूर्वपदस्य मुमागमः । चित्त्वादन्तोदात्तः । समसे कृत्स्वरः । हविर्दे । अनुदात्तस्य च यत्रोदात्तलोप इति सुप उदात्तत्वम् । शरवे । शॄ हिंसायां शॄस्वृस्निहित्रप्यसीत्यादिना उप्रत्ययः । निदित्यनुवृत्तेराद्युदात्तः ॥ ७ ॥