परि᳚ज्मने॒ नास᳚त्याय॒ क्षे ब्रव॒ः कद᳚ग्ने रु॒द्राय᳚ नृ॒घ्ने ॥
पदपाठः (Word-by-word)
परि᳚॑ज्मने । नास᳚त्याय । क्षे । ब्रवः᳚ । कत् । अ॒ग्ने॒ । रु॒द्राय᳚ । नृ॒॑घ्ने ॥
सायणभाष्यम् (Sayana Commentary)
हे अग्ने धिष्ण्यास्वाग्नीध्रीयादिधिष्ण्येषु व्रुधसानो घृताद्याहुतिभिर्वर्धमानस्त्वं कत्कथं ब्रूयाः । प्रतवसे प्रकृष्त बलाय शुभंये शुभस्य प्रापयित्रे परिज्मने परितो गन्त्रे नासत्याय सत्यस्य नेत्रे । यद्वा । न विद्यतेऽसत्यं यस्य तस्मै वाताय वायवे । यद्वा । नासत्यायेति वचनव्यत्ययः । नासत्याभ्यामश्विभ्यां क्षे । क्षेति पृथिवीमाह । क्षियन्ति निवसन्त्यस्यां पाणिन इति । तस्यै क्षे पृथिव्यै च कत्कथं ब्रूयाः । हे अग्ने नृघ्ने नृणां पापकृतां हन्त्रे रुद्राय देवाय कत्कथमागोब्रवः । ब्रूयाः । वृधसानः । वृधु वर्धने । असानजित्यनुवृत्तावृञ्जिवृधिमन्दिसहिभ्यः किदित्यसानच् प्रत्ययः । कित्त्वादगुणण् । चित्त्वादन्तोदात्तः । शुभंये । या प्रापणे । विच् । तत्पुरुषे कृति बहुलमिति द्वितीयाया अप्यलुक् । कृत्स्वरः । क्षे । क्शि निवासगत्योः । अन्येभ्योऽपि दृश्यत इत्यधिकरणे डः । ततष्टाप् । चतुर्थ्येकवचन आतो धातोरित्यत्रात इति योगविभागादाकारलोपः । नृघ्ने । हन हिंसागत्योः । बहुलं छन्दसीति क्विप् ॥ ६ ॥