ऋ॒तेन᳚ दे॒वीर॒मृता॒ अमृ᳚क्ता॒ अर्णो᳚भि॒रापो॒ मधु᳚मद्भिरग्ने ।
वा॒जी न सर्गे᳚षु प्रस्तुभा॒नः प्र सद॒मित्स्रवि᳚तवे दधन्युः ॥
वा॒जी न सर्गे᳚षु प्रस्तुभा॒नः प्र सद॒मित्स्रवि᳚तवे दधन्युः ॥
पदपाठः (Word-by-word)
ऋ॒तेन᳚ । दे॒वीः । अ॒मृताः᳚ । अमृ᳚क्ताः । अर्णः᳚॑भिः । आपः᳚ । मधु᳚मत्॑भिः । अ॒ग्ने॒ ।
वा॒जी । न । सर्गे᳚षु । प्र॒॑स्तु॒भा॒नः । प्र । सद᳚म् । इत् । स्रवि᳚तवे । द॒ध॒न्युः॒ ॥
वा॒जी । न । सर्गे᳚षु । प्र॒॑स्तु॒भा॒नः । प्र । सद᳚म् । इत् । स्रवि᳚तवे । द॒ध॒न्युः॒ ॥
सायणभाष्यम् (Sayana Commentary)
हे अग्ने अमृता अमरणहेतव अमृक्ता रक्षः प्रभृतिभिरबाधिता मधुमद्भिर्माधुर्योपेतैरर्णोभिरुदकैर्युक्ता देवीर्देव्यो नद्य ऋतेन सत्येन यज्ञेन वा हेतुनाप आप्तव्याः सत्यः सदमित्सदैव स्रवितवे स्रवणाय प्र दधन्युः । प्रगच्छन्ति । तत्र दृष्टान्तः । वाजी न । यथा सर्गेषु प्रेरणेषु प्रस्तुभानः प्रोत्साह्यमानोऽश्वः प्रगच्छति तद्वत् । आपः । आप्लृ व्याप्तौ । आप्नोतेः क्विप् ह्रस्वश्चेति कर्मणि क्विप् । अप्तृन्नित्यादिना जसि दीर्घः । प्रस्तुभानः । स्तोभतिरर्चतिकर्मा ॥ १२ ॥