श्रवणम्

4.3.2
अ॒यं योनि᳚श्चकृ॒मा यं व॒यं ते᳚ जा॒येव॒ पत्य᳚ उश॒ती सु॒वासा᳚ः ।
अ॒र्वा॒ची॒नः परि᳚वीतो॒ नि षी᳚दे॒मा उ᳚ ते स्वपाक प्रती॒चीः ॥
▶ पदपाठः (Word-by-word)
अ॒यम् । योनिः᳚ । च॒कृ॒म । यम् । व॒यम् । ते॒ । जा॒या॑इ᳚व । पत्ये᳚ । उ॒श॒ती । सु॒॑वासाः᳚ ।
अ॒र्वा॒ची॒नः । परि᳚॑वीतः । नि । सी॒द॒ । इ॒माः । ऊं॒ इति᳚ । ते॒ । सु॒॑अ॒पा॒क॒ । प्र॒ती॒चीः ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे अग्ने ते त्वदर्थं यमुत्तरवेदिलक्षणं प्रदेशं वयं च कृम । कुर्मः । अयं योनित्तव स्थानं भवति । तत्र दृष्तान्तः । जायेव । यथा पत्य उशती पतिं कामयमाना सुवासाः शोभनवस्त्रोपेता जाया स्वात्मसमीपे तस्य स्थानं करोति तद्वत् । हे स्वपाक स्वपस्क सुकर्मन्नग्ने त्वं परिवीतो यश्तव्यदेवैस्तेजो भिर्वा परिवीतोऽर्वाचीनोऽस्मदभिमुखः सन् इन् षीद । उत्तरवेद्यामुपविश । तत्र स्थितस्य ते तवेमा ज्वालाः स्तुतयो वा प्रतीचीस्त्वदभिमुखाः प्रवर्तन्ते । चकृम । करोतेर्लिटि रूपम् । वाक्यभेदान्निघाताभावः । अर्वाचीनः । विभाषाञ्चे रदिगिति खः । परिवितः । व्येञ् संवरणे । कर्मणि निष्था । यजादित्वात्संप्रसारणम् । गतिरनन्तर इति गतेः स्वरः ॥ २ ॥