श्रवणम्

4.3.14
रक्षा᳚ णो अग्ने॒ तव॒ रक्ष᳚णेभी रारक्षा॒णः सु᳚मख प्रीणा॒नः ।
प्रति᳚ ष्फुर॒ वि रु᳚ज वी॒ड्वंहो᳚ ज॒हि रक्षो॒ महि᳚ चिद्वावृधा॒नम् ॥
▶ पदपाठः (Word-by-word)
रक्ष᳚ । नः॒ । अ॒ग्ने॒ । तव᳚ । रक्ष᳚णेभिः । र॒र॒क्षा॒णः । सु॒॑म॒ख॒ । प्री॒णा॒नः ।
प्रति᳚ । स्फु॒र॒ । वि । रु॒ज॒ । वी॒ळु । अंहः᳚ । ज॒हि । रक्षः᳚ । महि᳚ । चि॒त् । व॒वृ॒धा॒नम् ॥
▶ सायणभाष्यम् (Sayana Commentary)

सुमख सुयज्ञ सुधनेति वा हे अग्ने ररक्षाणो भृशमस्माकं रक्षिता प्रीणानो हविर्भिः प्रीतस्त्वं तव रक्शणेभिस्त्वदीयैरवनैर्नोऽस्मान्रक्ष । पालय । प्रति स्फुर । अस्मान्प्रतिदीप्यस्व । वीळु दृढमंहः पापं वि रुज । विशेषेण नाशय । किञ्च महि चिन्महदपि वावृधानं वर्धमानं वृद्धं वा बाधकं रक्षो जहि । णः । नश्च धातुस्थोरुषुभ्य इदि सम्हितायां णत्वम् । ररक्षाणः । रक्षेर्यङ्लुकि चानशि रूपम् । जहि । हन हिंसागत्योः । लोटि हन्तेर्ज इति जादेशः । आभाच्छास्त्रीयस्या सिद्धत्वादतो हेरिति लुक् न भवति ॥ १४ ॥