ए॒ता विश्वा᳚ वि॒दुषे॒ तुभ्यं᳚ वेधो नी॒थान्य᳚ग्ने नि॒ण्या वचां᳚सि ।
नि॒वच᳚ना क॒वये॒ काव्या॒न्यशं᳚सिषं म॒तिभि॒र्विप्र᳚ उ॒क्थैः ॥
नि॒वच᳚ना क॒वये॒ काव्या॒न्यशं᳚सिषं म॒तिभि॒र्विप्र᳚ उ॒क्थैः ॥
पदपाठः (Word-by-word)
ए॒ता । विश्वा᳚ । वि॒दुषे᳚ । तुभ्य᳚म् । वे॒धः॒ । नी॒थानि᳚ । अ॒ग्ने॒ । नि॒ण्या । वचां᳚सि ।
नि॒॑वच᳚ना । क॒वये᳚ । काव्या᳚नि । अशं᳚सिषम् । म॒ति॑भिः᳚ । विप्रः᳚ । उ॒क्थैः ॥
नि॒॑वच᳚ना । क॒वये᳚ । काव्या᳚नि । अशं᳚सिषम् । म॒ति॑भिः᳚ । विप्रः᳚ । उ॒क्थैः ॥
सायणभाष्यम् (Sayana Commentary)
वेधो विधातर्हे अग्ने विदुषे कर्मविषयज्ञानवते कवये क्रान्तदर्शिने तुभ्यं नीथानि फलप्रापकाणि निण्या नेयार्थानि गूढानि निवचना नितरां वक्तव्यानि काव्यानि कविभिर्मेधाविभि कृतान्येता विश्वैतानि सर्वाणि वचांसि वाक्यानि मतिभिर्मननीयैः स्तोत्रैरुक्थैः शस्त्रैश्च सहितो विप्रः प्राज्ञोऽहमशंसिषम् । अवोचम् । तानि सेवस्वेत्यर्थः ॥ १६ ॥