चतुर्थं मण्डलम् - सूक्तम् 49

6 ऋचः

ऋषिः: वामदेवो गौतमः देवता: इंद्राबृहस्पती छन्दः: गायत्री

सूक्तम् 4.49 - सम्पूर्णम्

1 / 6
ऋक्: 4.49.1
0:00 0:00
▶ सर्वाणि ऋक्कानि (6)
4.49.1
इ॒दं वा᳚मा॒स्ये᳚ ह॒विः प्रि॒यमि᳚न्द्राबृहस्पती ।
उ॒क्थं मद᳚श्च शस्यते ॥
▶ पदपाठः (Word-by-word)
इ॒दम् । वा॒म् । आ॒स्ये᳚ । ह॒विः । प्रि॒यम् । इ॒न्द्रा॒बृ॒ह॒स्प॒ती॒ इति᳚ ।
उ॒क्थम् । मदः᳚ । च॒ । श॒स्य॒ते॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

इदं वामास्य इति षड्रुचं चतुर्थं सूक्तं वामदेवस्यार्षं गायत्रमैन्द्राबार्हस्पत्यम् । अत्रानुक्रमणिका । इदं वां षळैन्द्राबार्हस्पत्यं गायत्रमिति । सूक्तविनियोगो लैङ्गिकः ॥

हे इन्द्राबृहस्पती वामास्य इदं प्रियं हविः सोमरूपं प्रक्शिपामीति शेषः । उक्थं शस्त्रं च मदो मदजनकं शस्यते ॥ १ ॥

4.49.2
अ॒यं वां॒ परि᳚ षिच्यते॒ सोम᳚ इन्द्राबृहस्पती ।
चारु॒र्मदा᳚य पी॒तये᳚ ॥
▶ पदपाठः (Word-by-word)
अ॒यम् । वा॒म् । परि᳚ । सि॒च्य॒ते॒ । सोमः᳚ । इ॒न्द्रा॒बृ॒ह॒स्प॒ती॒ इति᳚ ।
चारुः᳚ । मदा᳚य । पी॒तये᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे इन्द्राबृहस्पती वामास्ये चारुः शोभनोऽयं सोमः परि षिच्यते । परितो दीयते । मदाय हर्षाय पीतये पानाय च ॥ २ ॥

4.49.3
आ न᳚ इन्द्राबृहस्पती गृ॒हमिन्द्र᳚श्च गच्छतम् ।
सो॒म॒पा सोम᳚पीतये ॥
▶ पदपाठः (Word-by-word)
आ । नः॒ । इ॒न्द्रा॒बृ॒ह॒स्प॒ती॒ इति᳚ । गृ॒हम् । इन्द्रः᳚ । च॒ । ग॒च्छ॒त॒म् ।
सो॒म॒॑पा । सोम᳚॑पीतये ॥
▶ सायणभाष्यम् (Sayana Commentary)

ऐन्द्राबार्हस्पत्यायामिष्टौ प्रधानस्या न इन्द्रेति त्रुतीयानुवाक्योत्तरायाज्या । सूत्रितं च । आ न इन्द्राबृहस्पती अस्मे इन्द्राबृहस्पती । आ. २-११ । इति ॥

हे इन्द्राबृहस्पती । अथ विविच्योच्यते । हे बृहस्पते त्वं चेन्द्रश्च सोमपा सोमपौ युवां सोमपितये सोमपानाय नो गृहस्मद्यागसम्बन्ध्या गच्छतं ॥ ३ ॥

4.49.4
अ॒स्मे इ᳚न्द्राबृहस्पती र॒यिं ध᳚त्तं शत॒ग्विन᳚म् ।
अश्वा᳚वन्तं सह॒स्रिण᳚म् ॥
▶ पदपाठः (Word-by-word)
अ॒स्मे इति᳚ । इ॒न्द्रा॒बृ॒ह॒स्प॒ती॒ इति᳚ । र॒यिम् । ध॒त्त॒म् । श॒त॒॑ग्विन᳚म् ।
अश्व᳚॑वन्तम् । स॒ह॒स्रिण᳚म् ॥
▶ सायणभाष्यम् (Sayana Commentary)

अस्या विनियोगः पूर्वमन्त्रेण सहोक्तः । हे इन्द्राबृहस्पती अस्मे अस्मभ्यम् रयिं धनं धत्तम् । कीदृशं रयिम् । शतग्विनं शतसङ्ख्याकाभिर्गोभिर्युक्तमश्वावन्तमश्ववन्तं सहस्रिणं सहस्रसङ्ख्यायुक्तं ॥ ४ ॥

4.49.5
इन्द्रा॒बृह॒स्पती᳚ व॒यं सु॒ते गी॒र्भिर्ह᳚वामहे ।
अ॒स्य सोम᳚स्य पी॒तये᳚ ॥
▶ पदपाठः (Word-by-word)
इन्द्रा॒बृह॒स्पती॒ इति᳚ । व॒यम् । सु॒ते । गीः॒॑भिः । ह॒वा॒म॒हे॒ ।
अ॒स्य । सोम᳚स्य । पी॒तये᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

सुते सोमेऽभिषुते गीर्भिः सुत्तिभिः । शिष्टं गतं ॥ ५ ॥

4.49.6
सोम᳚मिन्द्राबृहस्पती॒ पिब᳚तं दा॒शुषो᳚ गृ॒हे ।
मा॒दये᳚थां॒ तदो᳚कसा ॥
▶ पदपाठः (Word-by-word)
सोम᳚म् । इ॒न्द्रा॒बृ॒ह॒स्प॒ती॒ इति᳚ । पिब᳚तम् । दा॒शुषः᳚ । गृ॒हे ।
मा॒दये᳚थाम् । तत्॑ओ᳚कसा ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे इन्द्राबृहस्पती युवां दाशुषो हविर्दातुर्यजमानस्य गृहे तदोकसा । तदेव यजमानगृहमोको निवासस्थानं ययोस्तौ । तादृशौ सन्तौ सोमं पिबतम् । पीत्वा च मादयेथामिति ॥ ६ ॥