चतुर्थं मण्डलम् - सूक्तम् 46

7 ऋचः

ऋषिः: वामदेवो गौतमः देवता: वायुः छन्दः: गायत्री

सूक्तम् 4.46 - सम्पूर्णम्

1 / 7
ऋक्: 4.46.1
0:00 0:00
▶ सर्वाणि ऋक्कानि (7)
4.46.1
अग्रं᳚ पिबा॒ मधू᳚नां सु॒तं वा᳚यो॒ दिवि᳚ष्टिषु ।
त्वं हि पू᳚र्व॒पा असि᳚ ॥
▶ पदपाठः (Word-by-word)
अग्र᳚म् । पि॒ब॒ । मधू᳚नाम् । सु॒तम् । वा॒यो॒ इति᳚ । दिवि᳚ष्टिषु ।
त्वम् । हि । पू॒र्व॒॑पाः । असि᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

पञ्चमेऽनुवाके त्रयोदश सूक्तानि । तत्राग्रं पिबेति सप्तर्चं प्रथमं सूक्तं वामदेवस्यार्षं गायत्रम् । कृत्स्नमिन्द्रवायुदेवताकमाद्या केवलवायव्या । तथा चानुक्रान्तम् । अग्रं वायव्याद्यैन्द्रवायवं तु गायत्रमिति । सूक्तविनियोगो लैङ्गिकः । आद्ये द्वे ऐन्द्रवायवग्रहस्य याज्ये । तथा च सूत्रितं अग्रं पिबा मधूनामिति याज्ये अनवानम् । आ. ५-५- । इति ॥

हे वायो त्वमग्रमिन्द्रादिभ्यः पूर्वं मधूनां मधुररसानां सोमानां सम्बन्धिनं सुतमभिषुतं रसं पिब । कुत्रेति तदुच्यते । दिविष्तिषु दिवः स्वर्गस्य प्रापकेषु यज्ञेषु । यद्वा । अस्माकं दिवः स्वर्गस्यैषनेषु निमित्तेशु । त्वं हि त्वं खलु पूर्वपा असि । हिशब्दो देव दधिषे पूर्वपेयम् । ऋग्वे. ७-९२-१ । इत्यादि मन्त्रान्तरप्रसिद्धिद्योतनार्थः । वायोरग्रपानं देवा वै सोमस्य राज्ञोऽग्रपेये न समपादयन्नहं प्रथमः पिबेयमित्यादिब्राह्मणे । ऐ. ब्रा. २-२५ । स्पष्टमाम्नातम् । तत्र हि वायुराजिं प्रथमं धावित्वाग्रपानं लब्धवान् ॥ १ ॥

4.46.2
श॒तेना᳚ नो अ॒भिष्टि᳚भिर्नि॒युत्वा{4}॒ इन्द्र᳚सारथिः ।
वायो᳚ सु॒तस्य᳚ तृम्पतम् ॥
▶ पदपाठः (Word-by-word)
श॒तेन᳚ । नः॒ । अ॒भिष्टि᳚॑भिः । नि॒युत्वा᳚न् । इन्द्र᳚॑सारथिः ।
वायो॒ इति᳚ । सु॒तस्य᳚ । तृ॒म्प॒त॒म् ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे वायो नियुत्वान्नियुद्भिस्तद्वान् इन्द्रसारथिरिन्द्रसहायः सन् त्वं शतेनापरिमितैरभिष्टिभिरभित एषनीयैः कामैर्निमित्तभूतैरागच्छेति शेषः । आगत्य च सुतस्य सुतमभिषुतं सोमं तृपन्तम् । पिबन्तं त्वमिन्द्रश्च । इन्द्रस्य साहित्यं ब्राह्मण एवोक्तम् । तत्तुरीयभागिन्द्रोऽभवत्त्रिभाग्व्बायुरिति तुरीये हैव सङ्ग्रहीतारो वदन्तेऽमुनैवानूकाशेन यदद इन्द्रः सारथिरिव भूत्वोदजयत् । ऐ. ब्रा. २-२५ । इति वा ॥ २ ॥

4.46.3
आ वां᳚ स॒हस्रं॒ हर᳚य॒ इन्द्र᳚वायू अ॒भि प्रयः᳚ ।
वह᳚न्तु॒ सोम᳚पीतये ॥
▶ पदपाठः (Word-by-word)
आ । वा॒म् । स॒हस्र᳚म् । हर᳚यः । इन्द्र᳚वायू॒ इति᳚ । अ॒भि । प्रयः᳚ ।
वह᳚न्तु । सोम᳚॑पीतये ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे इन्द्रवायू वाम् युवां सहस्रं हरयः सहस्रसङ्ख्याका अश्वाः प्रयोऽन्नं प्रति त्वरयन्तः सन्ति । अत्र हरिशब्दोऽश्वसामान्यवचनः । ते सोमपीतय आ वहन्तु ॥ ३ ॥

4.46.4 समानपद
रथं॒ हिर᳚ण्यवन्धुर॒मिन्द्र᳚वायू स्वध्व॒रम् ।
आ हि स्थाथो᳚ दिवि॒स्पृश᳚म् ॥
▶ पदपाठः (Word-by-word)
रथ᳚म् । हिर᳚ण्य॑वन्धुरम् । इन्द्र᳚वायू॒ इति᳚ । सु॒॑अ॒ध्व॒रम् ।
आ । हि । स्थाथः᳚ । दि॒वि॒॑स्पृश᳚म् ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे इन्द्रवायू हिरण्यवन्धुरं हिरण्मयनिवासाधारकाष्ठोपेतं दिविस्पृशं द्युलोकस्पर्शिनं स्वध्वरं शोभनाध्वरवन्तं रथमा स्थाथो हि । आस्थितौ खलु । यस्मादेवं तस्मादागच्छतमित्यर्थः । स्वध्वरं प्रत्यास्थाथ इति वा व्याख्येयं ॥ ४ ॥

4.46.5
रथे᳚न पृथु॒पाज᳚सा दा॒श्वांस॒मुप᳚ गच्छतम् ।
इन्द्र᳚वायू इ॒हा ग᳚तम् ॥
▶ पदपाठः (Word-by-word)
रथे᳚न । पृ॒थु॒॑पाज᳚सा । दा॒श्वांस᳚म् । उप᳚ । ग॒च्छ॒त॒म् ।
इन्द्र᳚वायू॒ इति᳚ । इ॒ह । आ । ग॒त॒म् ॥
▶ सायणभाष्यम् (Sayana Commentary)

रथेन पृथ्वित्यादिकस्तृचो दशरात्रे पञ्चमेऽहनि प्रौगशस्त्र ऐन्द्रवायवो द्वितीयः । सूत्रितं च । रथेन पृथुपाजसा बहवः सूरचक्षसः । आ. ७-१२ । इति ॥

हे इन्द्रवायू पृथुपाजसा प्रभूतबलेन रथेन दाश्वांसं दातारं यजमानमुप गच्छतम् । तदर्थमिहास्मिन्यज्ञ आ गतम् । आगच्छतं ॥ ५ ॥

4.46.6
इन्द्र᳚वायू अ॒यं सु॒तस्तं दे॒वेभि᳚ः स॒जोष᳚सा ।
पिब᳚तं दा॒शुषो᳚ गृ॒हे ॥
▶ पदपाठः (Word-by-word)
इन्द्र᳚वायू॒ इति᳚ । अ॒यम् । सु॒तः । तम् । दे॒वेभिः᳚ । स॒॑जोष᳚सा ।
पिब᳚तम् । दा॒शुषः᳚ । गृ॒हे ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे इन्द्रवायू आयं सोमः सुतोऽभिषुतः । तं सोमं देवेभिर्देवैः सजोषसा समानप्रीतौ दाशुषो हविर्दातुर्गृहे यागशालायां पिबन्तम् ॥ ६ ॥

4.46.7
इ॒ह प्र॒याण᳚मस्तु वा॒मिन्द्र᳚वायू वि॒मोच᳚नम् ।
इ॒ह वां॒ सोम᳚पीतये ॥
▶ पदपाठः (Word-by-word)
इ॒ह । प्र॒॑यान᳚म् । अ॒स्तु॒ । वा॒म् । इन्द्र᳚वायू॒ इति᳚ । वि॒॑मोच᳚नम् ।
इ॒ह । वा॒म् । सोम᳚॑पीतये ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे इन्द्रवायू वां युवयोरिहास्मिन्यज्ञे प्रयाणं गमनमस्तु । इहास्मिन्नेव यज्ञे वां सोमपितये विमोचनमश्वानामस्तु । पर्यवसानत एकार्थत्वेऽप्यादरार्थत्वादविरोधः ॥ ७ ॥