म॒हामु॒भे रोद᳚सी वृ॒द्धमृ॒ष्वं निरेक॒मिद्वृ᳚णते वृत्र॒हत्ये᳚ ॥
पदपाठः (Word-by-word)
म॒हाम् । उ॒भे इति᳚ । रोद᳚सी॒ इति᳚ । वृ॒द्धम् । ऋ॒ष्वम् । निः । एक᳚म् । इत् । गृ॒ण॒ते॒ । वृ॒त्र॒॑हत्ये᳚ ॥
सायणभाष्यम् (Sayana Commentary)
चतुर्थे मण्डले द्वितीयानुवाकेऽष्ट सूक्तानि व्याख्यातानि । एवात्वामिन्द्रेत्येकादशर्चं नवमं सूक्तम् । तस्य मण्दलादिपरिभाषया वामदेव ऋषिः । अनादेशपरिभाषया त्रिष्टुप् छन्दः । इन्द्रो देवता । तथा चानुक्रान्तम् । एवैकादशेति । अग्निष्टोमे माध्यन्दिनसवने मैत्रावरुणशस्त्रं इदं सूक्तम् । सूत्र्यते हि । एवा त्वामिन्द्रोशन्नु षुणः सुमना उपाक इति याज्या । आ. ५-१६ । इति । पृष्थ्याभिप्लवषडहयोः प्रथमेऽहनि मैत्रावरुणशस्त्रेऽहीनसूक्तं तत्स्थाने त्रीणि सम्पातसूक्तानि । तत्रेदं प्रथमं सूक्तम् । सूत्रितं च । एवा त्वामिन्द्रयन्न इन्द्रः । आ. ७-५ । इति ॥
अत्रास्मिन्यज्ञे वज्रिन् हे वज्रवन्निन्द्र सुहवासः सुहवाः शोभनाह्वाना ऊमा रक्शका विश्वे देवासः सर्वे देवा उभे रोदसी द्यावापृथिव्यौ च एवैवमुक्तप्रकारेण स्तूयमानं महां महान्तं प्रभूतं वृद्धं गुणैः प्रवृद्धमृष्टं दर्शनीयं त्वामेकमिदेकमेव वृत्रहत्ये व्रुत्रहननार्थं निर्वृणते । निःशेषेण सम्भजन्ते ॥ १ ॥