अक्षो᳚दय॒च्छव᳚सा॒ क्षाम᳚ बु॒ध्नं वार्ण वात॒स्तवि᳚षीभि॒रिन्द्र᳚ः ।
दृ॒ळ्हान्यौ᳚भ्नादु॒शमा᳚न॒ ओजो॑वा᳚भिनत्क॒कुभ॒ः पर्व᳚तानाम् ॥
दृ॒ळ्हान्यौ᳚भ्नादु॒शमा᳚न॒ ओजो॑वा᳚भिनत्क॒कुभ॒ः पर्व᳚तानाम् ॥
पदपाठः (Word-by-word)
अक्षो᳚दयत् । शव᳚सा । क्षाम᳚ । बु॒ध्नम् । वाः । न । वातः᳚ । तवि᳚षीभिः । इन्द्रः᳚ ।
दृ॒ळ्हानि᳚ । औ॒भ्ना॒त् । उ॒शमा᳚नः । ओजः᳚ । अव᳚ । अ॒भि॒न॒त् । क॒कुभः᳚ । पर्व᳚तानाम् ॥
दृ॒ळ्हानि᳚ । औ॒भ्ना॒त् । उ॒शमा᳚नः । ओजः᳚ । अव᳚ । अ॒भि॒न॒त् । क॒कुभः᳚ । पर्व᳚तानाम् ॥
सायणभाष्यम् (Sayana Commentary)
इन्द्रः परमैश्वर्ययुक्तः शवसा बलेन बुध्नमन्तरिक्षं क्षाम क्षीणोदकमक्शोदयत् । सम्पिपेष । तत्र दृष्टान्तः । वातो वायुस्तवीषीभिर्बलैर्वार्न उदकमिव तद्वत् । किञ्च ओतो बलमुशमानः कामयमान इन्द्रो दृळ्हानि दृढानि स्थिराण्यप्यभ्राण्यौभ्नात् । अभांक्षीत् । तथा पर्वतानां गिरीणां ककुभः पक्षानवाभिनत् । अत्यन्तमभैत्सीत् ॥ ४ ॥