श्रवणम्

4.19.9
व॒म्रीभि᳚ः पु॒त्रम॒ग्रुवो᳚ अदा॒नं नि॒वेश᳚नाद्धरिव॒ आ ज᳚भर्थ ।
व्य१॒᳚न्धो अ᳚ख्य॒दहि᳚माददा॒नो निर्भू᳚दुख॒च्छित्सम᳚रन्त॒ पर्व᳚ ॥
▶ पदपाठः (Word-by-word)
व॒म्रीभिः᳚ । पु॒त्रम् । अ॒ग्रुवः᳚ । अ॒दा॒नम् । नि॒॑वेश᳚नात् । ह॒रि॒॑वः॒ । आ । ज॒भ॒र्थ॒ ।
वि । अ॒न्धः । अ॒ख्य॒त् । अहि᳚म् । आ॒॑द॒दा॒नः । निः । भू॒त् । उ॒ख॒॑छित् । सम् । अ॒र॒न्त॒ । पर्व᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे हरिवो हरिसंज्ञकाश्वोपेतेन्द्र त्वं वम्रीभिरुपजिह्विकाभिरदानमद्यमानमग्रुवः । अग्रू नाम काचित् । तस्याः पुत्रं निवेशनाद्वल्मीकाख्यात्स्थानादा जभर्थ । आहृतवानसि । अददान इन्द्रेणाह्रियमाणोऽग्रुवः पुत्रोऽन्धः पूर्वमन्धः सन् अहिं सर्पं व्यख्यत् । विशेषेणाश्यत् । ततो निर्भूत् । वल्मिकान्निर्गतोऽभूत् । उखच्छिद्वल्मीकाख्याया उखायाश्छेदकानि पर्व पर्वाण्यस्य सर्वाण्यङ्गानां शिथिलानि पर्वाणि समरन्त । समगच्छन्त । उपजिह्विकाभिः शिथिलीकृतान्यग्रुवः पुत्रस्य पर्वाणीन्द्रेण समधीयन्तेत्यर्थः ॥ ९ ॥