त्वं म॒हीम॒वनिं᳚ वि॒श्वधे᳚नां तु॒र्वीत᳚ये व॒य्या᳚य॒ क्षर᳚न्तीम् ।
अर᳚मयो॒ नम॒सैज॒दर्ण᳚ः सुतर॒णा{4} अ᳚कृणोरिन्द्र॒ सिन्धू᳚न् ॥
अर᳚मयो॒ नम॒सैज॒दर्ण᳚ः सुतर॒णा{4} अ᳚कृणोरिन्द्र॒ सिन्धू᳚न् ॥
पदपाठः (Word-by-word)
त्वम् । म॒हीम् । अ॒वनि᳚म् । वि॒श्व॑धे᳚नाम् । तु॒र्वीत᳚ये । व॒य्या᳚य । क्षर᳚न्तीम् ।
अर᳚मयः । नम᳚सा । एज᳚त् । अर्णः᳚ । सु॒॑त॒र॒णान् । अ॒कृ॒णोः॒ । इ॒न्द्र॒ । सिन्धू᳚न् ॥
अर᳚मयः । नम᳚सा । एज᳚त् । अर्णः᳚ । सु॒॑त॒र॒णान् । अ॒कृ॒णोः॒ । इ॒न्द्र॒ । सिन्धू᳚न् ॥
सायणभाष्यम् (Sayana Commentary)
हे इन्द्र त्वं महीं महतीं विश्वधेनां विश्वस्य प्रीणयित्रीं तुर्वीतये तुर्वीतिनाम्ने राज्ञे वयाय वय्यनाम्ने च क्षरन्तीमभीष्टान् कामान्दुहतीमवनिं भूमिं नमसान्नेनैजदेजता चलतार्णोऽर्णसोदकेन चारमयः । रमयसि । इन्द्रः पृथिवीमन्नोदकसमृद्धां करोतीत्यर्थः । किञ्च हे इन्द्र त्वं सिन्धून् जलानि सुतरणान् सुष्ठु तीर्णान्यकृणोः । अकार्षीः ॥ ६ ॥