श्रवणम्

4.19.2
अवा᳚सृजन्त॒ जिव्र᳚यो॒ न दे॒वा भुवः᳚ स॒म्राळि᳚न्द्र स॒त्ययो᳚निः ।
अह॒न्नहिं᳚ परि॒शया᳚न॒मर्ण॒ः प्र व᳚र्त॒नीर᳚रदो वि॒श्वधे᳚नाः ॥
▶ पदपाठः (Word-by-word)
अव᳚ । अ॒सृ॒ज॒न्त॒ । जिव्र᳚यः । न । दे॒वाः । भुवः᳚ । स॒म्॑राट् । इ॒न्द्र॒ । स॒त्य॑यो᳚निः ।
अह᳚न् । अहि᳚म् । प॒रि॒॑शया᳚नम् । अर्णः᳚ । प्र । व॒र्त॒नीः । अ॒र॒दः॒ । वि॒श्व॑धे᳚नाः ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे इन्द्र देवास्त्वां जिव्रयो न जीर्णाः प्रवृद्धाः पितरो यूनः पुत्रानिवावासृजन्त । असुरवधार्थं प्रैरयन् । ततो हे इन्द्र सत्ययोनिः सत्यनिवासस्त्वं सम्राट् सर्वेषाम् लोकानामधीश्वरो भुवः । अभवः । अर्ण उदकं लक्षीक्रुत्य परिशयानं परितः समन्ताच्छयनं कुर्वन्तमहिं वृत्रासुरमहन् । अवधीः । विश्वाधेना विश्वस्य प्रीणयित्रीर्वर्तनीः सर्वत्र प्रवर्तिका सदीः प्रारदः । प्रकर्षेण विलेखनं क्रुतवानसि । इन्द्रो वृत्रं हत्वा तेनावृतान्युदकानि प्रवाहरूपेण प्रवर्तयतीत्यर्थः ॥ २ ॥