श्रवणम्

4.19.5
अ॒भि प्र द᳚द्रु॒र्जन᳚यो॒ न गर्भं॒ रथा᳚ इव॒ प्र य᳚युः सा॒कमद्र᳚यः ।
अत᳚र्पयो वि॒सृत᳚ उ॒ब्ज ऊ॒र्मीन्त्वं वृ॒ता{4} अ᳚रिणा इन्द्र॒ सिन्धू᳚न् ॥
▶ पदपाठः (Word-by-word)
अ॒भि । प्र । द॒द्रुः॒ । जन᳚यः । न । गर्भ᳚म् । रथाः᳚॑इव । प्र । य॒युः॒ । सा॒कम् । अद्र᳚यः ।
अत᳚र्पयः । वि॒॑सृतः᳚ । उ॒ब्जः । ऊ॒र्मीन् । त्वम् । वृ॒तान् । अ॒रि॒णाः॒ । इ॒न्द्र॒ । सिन्धू᳚न् ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे इन्द्र त्वामद्रयो मरुतो जनयो जवन्यो गर्भं न पुत्रमिवाभिप्रदद्रुः । अभिजग्मुः । किञ्च रथा इव रंहणशीला रथा यथा तथा वृत्रवधार्थं त्वया साकं प्र ययुः । प्रकर्षेणायासिषुः । हे इन्द्र त्वं विसृतो विसरणशीला नदीरतर्पयः । अद्भिरपूरयः । तथोर्मीन्मेघानुब्जः । आवधीः । तथा त्वं वृतान्वृत्रेणावृतान् सिन्धूनपोऽरिणाः । प्रैरयः ॥ ५ ॥